मोक्षशब्दः 'मोक्ष्’ मोचने इत्यस्मात् धातोः व्युत्पन्नः । यथा स्वर्गः नाम 'दिव्यसुखोपभोगसाधनैः’ युक्तं स्थानं यत्र पुण्यवन्तः जनाः मरणानन्तरं गच्छन्ति इति भवति सर्वेषां विश्वासः । तथा मोक्षः नाम न कश्चित् स्थानविशेषः । तत्रोक्तम् –

हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

मोक्षस्य न हि वासोऽस्ति न ग्रामान्तरमेव वा ।
अज्ञानतिमिरग्रन्थिनाशो मोक्ष इति स्मृतः ॥

वस्तुतः जीवः परमात्मनः एव अंशः । परन्तु अज्ञानवशात् स तत् तथ्यं न जानाति । यदा अज्ञानं विनश्यति तदा साक्षात्कारेणा स परमात्मना सह तादात्म्यम् अनुभवति । एवं अज्ञानात् मुक्तिः एव मोक्षः ।

मरणानन्तरं स्वकर्मानुसारं पुनः नूतनं जन्म गृह्णाति । एव भ्रममाणस्य तस्य यदा वासनाक्षयः भवति तदा अस्मात् जन्ममरणचक्रात् स मुक्तिं प्राप्नोति । स एव मोक्षः । अन्ये पुनः षडरिपूणां प्रभावात् मुक्तिः नाम मोक्षः इति मन्यन्ते । मनुष्यमात्रं सुखसंपादनार्थं दुःखनिवारणार्थं च प्रयतते । तत्र किं कर्तव्यम्, किम् अकर्तव्यम् इत्यस्मिन् विषये धर्मेण कृतं मार्गदर्शनं स सम्यक्तया जानाति । दुर्योधनस्य 'जानामि धर्मं न च मे प्रवृत्तिः जानाम्यधर्मं न च मे निवृत्तिः’ इति उक्तिः प्रसिध्दा एव तदनुसारं विकारैः अभिभूतः मानवः धर्माचरणे स्वभावतः एव न प्रवृत्तो भवति । यथा अधोगमनं स्वभावः जलप्रवाहस्य तथा प्रवाहपतित इव अधोगतिः स्वभाव्ः मनुष्यस्य इति प्रतीयते । धर्माचरणं नाम प्रवाहस्य विरुध्दं संतरणम् । अधोगमनं विनासायासं सम्पद्यते । किन्तु प्रवाहस्य प्रतीपं संतरणाय शरीरसामर्थ्यं मनोनिग्रहः आत्मविश्वासः इत्यादयः गुणाः आवश्यकाः भवन्ति । अतः यदि स्वकल्याणं साधयितुं धर्माचरणं काम्यते तर्हि विकाराणाम् उपरि विजयसम्पादनम् आवश्यकम् । अस्माकम् ऋषिमुनिभिः सूक्ष्मेक्षिकया मानवप्रवृत्तीः अभ्यस्य प्रामुख्येन षडविकाराः निर्धारिताः । तेभ्यश्च रिपुः इति संज्ञा प्रदत्ता । काम क्रोध-लोभ-मोह-मद-मत्सराः इति षडरिपवः विश्रुताः एव । प्रत्येकस्य अन्तः करणे एते विकाराः निभृतरुपेणा निवसन्ति एव । मनसः दुर्बलायाम् अवस्थायां ते उपरि आगच्छन्ति । तपः पूताः योगिनः अपि अस्मिन् विषये न अपवादाः । विश्वामित्रमेनकयोः –आख्यानम् तु सर्वेषां सुपरिचितमेव । 'मन एव मनुष्याणां कारणं बन्धमोक्षयोः’ इति वचनानुसारेणा मनः एव सर्वासाम् आपत्तीनां मूले तिष्ठति । अतः एव मनोनिग्रहः इन्द्रियजयः वा वारंवारं उपदिश्यते शास्त्रकारैः । शीतोष्ण-सुखदुः ख –जयपराजय-मानापमानादिद्वन्द्वातीतत्वमेव इन्द्रियजयस्य निदर्शनम् ।

एवम् इन्द्रियाणां निग्रहेण, संयमेन, विकाराणां षडरिपूणाम् उपरि विजयः तेषां च प्रभावात् मुक्तिः एव मोक्षः । यदि विकाराणां प्रभावः न स्यात् तर्हि तस्य प्रज्ञा स्थिरा भवति । एतादृशः विकाररहितः मनुष्यः अनुपमं सुखम् अद्वितीयं च आनन्दम् अनुभवति । स आत्मस्वरुपं साक्षात्करोति, परमात्मनः अंशत्वं प्रत्यक्षीकरोति । स एव जीवन्मुक्तः । इयमेव कृतार्थता मनुजजन्मनः इति ।

मोक्ष-स्वरूपविषये मतान्तराणि

सम्पादयतु
  • १ चार्वाका: - स्वातन्यंिव् मृत्युर्वा मोक्ष: ।
  • २ माध्यमिका: बौद्धा: - आत्मच्छेदो मोक्ष:।
  • ३ अन्यबौद्धा: - निर्मलज्ञानोदयो मोक्ष:।
  • ५ जैना: - बन्धहेत्वभावनिर्जराभ्यां कृत्न् कर्मविप्रमोक्षणं मोक्ष:।
  • ६ रामानुजीया:- जगत्कर्तृत्वरहित-सर्वज्ञत्वादिप्राप्तिरूपं भगवत्साम्यं याथात्येवान भगवत्व्तरूपानुभवश्च मोक्ष:।
  • ७ माध्वा:- जगत्कर्तृत्व-लक्मी मपतित्व-श्रीवत्सप्राप्तिरहितं दु:खामिश्रितं निरतिशयसुखं मोक्ष:।
  • ८ नकुलीशपाशुपता:- पारमैश्वर्यप्राप्ति: मोक्ष:।
  • ९ शैवा:- शिवत्वप्राप्तिर्मोक्ष:।
  • १० प्रत्यभिज्ञावादिन: - शिवत्वप्राप्तिर्मोक्ष:।
  • ११ रसेश्वरवादिन: - देहस्थैर्यं मोक्ष:।
  • १२ वैशेषिका: - अविशेषगुणोच्छेदो मोक्ष:।
  • १३ आत्यन्तिकदु:खनिवृत्तिर्मोक्ष:।
  • १४ पाणिनीया: - पराया: वाचो दर्शनं मोक्ष:।
  • १५ साङ्या्य: - प्रकृत्युपरमे पुरुषस्य स्वरूपेण अवस्थानं मोक्ष:।
  • १६ योगिन: - द्रष्टु: स्वरूपे अवस्थानं मोक्ष:।
  • १७ अद्वैतिन: -मूलाज्ञान-निवारणेन स्वरूपाधिगमो मोक्ष:।
"https://sa.wikipedia.org/w/index.php?title=मोक्षः&oldid=369105" इत्यस्माद् प्रतिप्राप्तम्