बालरामायणं महानाटकं सीताप्रतिकृतिनिवेशेन छायानाटकं च संज्ञितम् । रामायणीयां कथां भूयः परिवर्त्यात्र कथानकं गुम्फितम् । अस्य नाटकस्य रचयिता राजशेखरः वर्तते।

बालरामायणम्  
लेखकः राजशेखरः
देशः भारतम्
भाषा संस्कृतम्

कथावस्तु

सम्पादयतु

सीतास्वयंवरे रावणः प्रहस्तेन सैन्यपतिना सह पुष्पकमारुह्य जनकपुरं गतः । स तत्र मैथिलीक्रयधनुः सीतां चानेतुमादिदेश । जनकेन स्तुतस्य शिवस्य प्रवेशेन गुरूभूतं तद् धनुः सज्यं कर्तुं अप्रभवन् रावणस्तद् भूमौ क्षिप्त्वा मिथ्याविकत्थनो बभूव । रावणं निहन्तुं बाणं सन्धाय उद्यतः राजा शुनःशेपेन वारितः, शापोदकं गृहणंश्च शतानन्देन निवारितः । दशाननकृतां शिवचापावमाननां श्रुत्वा तं दण्डयितुं समागतो जामदग्न्योऽपि कथंकथमपि निवारितः, किन्तु जामदग्न्यरावणयोर्वाक्कलहस्तत्र जात एव । रावणः जानक्या उपयन्तारं चन्द्रहासेन द्विधाकर्तुं प्रतिज्ञाय निवृत्तः । देवलोके सफल-प्रयोगं भरतकृतं सीतास्वयंवरनाटकं दिदृक्षू रावणस्तल्लङ्कायां नटैः प्रयोजयामास । तत्र रामेण पाणिगृहीतीकृतां सीतां प्रेक्ष्य रावणोऽवदत्।

यातः पदं मम रुषां च मृषैव रामः।[१]

सीतारामयोः विवाहानन्तरं दशरथो जनकपुरं जगाम । धनुर्भङ्गेन कुपितः परशुराम आयातः । तुमुलं वाग्युद्धं संवृत्तम् । धनुर्युद्धे रामो जामदग्न्यं पराजितवान् । लङ्केश्वरः सीता-विप्रलम्भ-सन्तप्तस्तस्याः प्रतिकृतिं कारयित्वा तन्मुखे सारिकां निवेश्य वार्तालापैर्मनो विनोदयांचकार । अत्रान्तरे राममभिसर्त्तुमयोध्यां गता शूर्पणखा। कृत्तनासा सा रावणं प्रति सीतां त्वत्कृते हर्तुमहं गता कृत्तनासास्मीति सकपटं निवेदितवती। रावणश्चायोध्यां गतो राक्षसदूतैः मिथ्यासन्देशं व्याहारि -

स्वयं मया प्रेमपरीक्षणाय प्रवर्तितः स्वाकृतियन्त्रयोगः।

अथाहमेवागणितैरहोभिर्दशाननान्तं नियतं प्रवत्स्ये।।

अत्रान्तरे दशरथः सकैकेयीक इन्द्र-साहाय्याय दैत्यान् विजेतुं गतो विजयी बभूव। किन्त्वयोध्यायां कोऽपि राक्षसो मायादशरथः, शूर्पणखा मायाकैकेयी, तस्या दासी मन्थरा च बभूवुः । इत्येवम् -

"आभ्यामपि कृतक-कैकेयी-दशरथ-रूपधारिभ्यां छलितो रामभद्रः।"

इत्येवं प्रभृतीनि वृत्तानि परिवर्त्य राजशेखरेण नियोजितानि । शार्दूलविक्रीडितैरतितरां विक्रीडन् राजशेखरो मधुरमधुरामेव प्रायेण गिरमुद्गिरति।

वीराङ्भुतप्रायरसे प्रबन्धे लोकोत्तरं कौशलमस्ति यस्य।।[२]

सोऽसौ नाट्यशैलीमधुरिमाणं वैदर्भी-प्रसादजन्मान वक्ति -

वाग् वैदर्भीमधुरिमगुणं स्यन्दते श्रोत्रलेह्यं वस्तुन्यासो हरति हृदयं सूक्तिमुद्रानिवेद्यः।

सद्यः सुते रसमनुपम-प्रौढि-जन्मा प्रसादः सन्दर्भ-श्रीरिति कृतधियां धाम गीर्देवतायाः।।[३]

अपि चान्त्यानुप्रास-संगीतं संगमयन्नन्य इव भाति कविः -

द्युतिजित-करवालः सतवंशी प्रवालः स्फुटित-कुटजमाल: स्पष्टमीलतमालः।

इह हि गतमरालः केतकाली कराले शिखरिणि मम कालः सोऽभवन् मेघकालः।।[४]

सीतायाः सौकुमारसौभाग्यालेखनपटिमा कोऽप्यपूर्व एव -

मुञ्चत्यग्रे किसलय-चयं लक्ष्मणो याति सीता-

पादाम्भोजे विसृजदसृजी तत्र सञ्चारयन्ति।

रामो मार्गं दिशति च ततस्तेऽखिले नापि चाह्ना

शैलोत्सङ्गप्रणयिनि पथि क्रोशमेकं वहन्ति।।[५]

विरहिणो लङ्घश्वरस्य शीतोपचार-निर्वाहाय प्रार्थ्यमाना दक्षिणापथनद्यो राजशेखरस्य हासप्रतिभामुद्घाटयन्ति -

पादौ पीडय ताम्रपर्णि, मुरले हस्तो हृदि स्थाप्यतां

भोः कावेरि मृणालदाम वितर द्राङ्नर्मदे वीजय।

त्वं गोदावरि देहि चन्दनरसं हे तापि तापोष्मणः

शान्त्यर्थं सृज यन्त्रवारि विरही लङ्केश्वरः सीदति॥[६]

कविपरिचयः

सम्पादयतु

काव्यमीमांसायाः प्रणेता राजशेखरः प्रसिद्धः एव। यायावर वंशीयोऽयं स्वजन्मना महाराष्ट्र-प्रदेशमलंचकार । स ब्राह्मणः क्षत्रियो वेति विवादप्रसंगे बालरामायणस्य अनुसारेण रामस्य वंश्यत्वं तस्य क्षत्रियत्वमेव प्रकटीकरोति।[७] अस्य पूर्वजोऽकालजलदो महाराष्ट्र-चूडामणिरासीद् युगसंमतो विद्वान् पिता च राजमन्त्री बभूव । वाग्विलासरसिको राजशेखरः आत्मानं वाल्मीकि-भतृर्मेण्ठ-भवभूतीनां नवावतारं सम्भावयाम्बभूव -

बभूव वल्मीकभवः कविः पुरा ततः प्रपेदे भुवि भतृर्मेण्ठताम्।

स्थितः पुनर्यो भवभूति-रेखया स वर्तते सम्प्रति राजशेखरः।।[८]

ध्वन्यालोकलोचन-प्रमुखेषु प्रमाणग्रन्थेषु लक्षीकृतोऽयं कविः स्वमनेकधा परिचाययामास -

आपन्नार्तिहरः पराक्रमधनः सौजन्यवारांनिधि-

स्त्यागी सत्य-सुधा-प्रवाह-शशभृत्कान्तः कवीनां गुरुः।।

कान्यकुब्जनरपालेन महेन्द्रपालेन सभाजितोऽसौ सभ्येन कृष्णशङ्करवर्मणा स्तुतो यथा -

पातुं श्रोत्ररसायनं रचयितुं वाचः सतां संमता-

व्युत्पत्तिं परमामवाप्तुमवधिं लब्ध रसस्रोतसः।

भोक्तुं स्वादु फलं च जीवित-तरोर्यद्यस्ति ते कौतुकं

तद् भ्रातः शृणु राजशेखरकवेः सूक्तिः सुधास्यन्दिनी।।

राजशेखरस्य स्थितिकालो निश्चितप्रायो विदुषाम् । महेन्द्रपालो हि ८८५ ईसवीतः ९१० पर्यन्तं कान्यकुब्जानां शासको बभूव । राजकुमारत्वे स राजशेखरस्य शिष्यत्वं गृहीतवान् भवेदिति । ८७५ ख्रीष्टाब्दतः ९२५ पर्यन्तं हि तस्य रचनाकालो भवेत् ।

स भुवनकोशं नाम भूगोलीयं ग्रन्थं विरचितवानिति काव्यमीमांसातः प्रतीयते, हेमचन्द्र उज्ज्वलदत्तश्च तस्य हरविलास-नाम काव्यं लक्ष्यीकृतवन्तौ । किन्तु न तौ ग्रन्थौ प्राकाश्यं नीतावद्य यावत् । अस्य रूपकरचनासु बालरामायणं, बालभारतं, विधशालभञ्जिका, कपूरमञ्जरी चेति समुपलभ्यन्ते।‎

सम्बद्धाः लेखाः

सम्पादयतु

उद्धरणानि

सम्पादयतु
  1. ३.६०
  2. १.२
  3. ३.१४
  4. १०.५२
  5. ६.५७
  6. ५.५०
  7. १.१५
  8. बाल० १.१६
"https://sa.wikipedia.org/w/index.php?title=बालरामायणम्&oldid=436869" इत्यस्माद् प्रतिप्राप्तम्