भारतरत्नम्
भारतरत्नम् | ||
प्रशस्तिप्रसङ्गः | ||
---|---|---|
प्रकारः | Civilian | |
स्तरः | National | |
विवरणम् | An image of the Sun along with the words "Bharat Ratna", inscribed in Devanagari script, on a peepal leaf | |
प्रारम्भः | 1954 | |
अन्तिमप्रशस्तिः | 2008 | |
आहत्य प्रशस्तिसंख्या | 45 | |
प्रशस्तिप्रदाता | Government of India | |
पट्टिका | ||
प्रथमप्रशस्तिभाजः | Sarvepalli Radhakrishnan, Sir C.V. Raman, C. Rajagopalachari | |
अन्तिमप्रशस्तिभाजः | Bhimsen Joshi | |
प्रशस्तिस्तरः | ||
None ← भारतरत्नम् → पद्मविभूषणम् |
पीठिका
सम्पादयतुभारतरत्नप्रशस्तिः भारतवर्षस्य अत्युन्नता प्रशस्तिः । ये देशस्य प्रगतये श्रेष्ठं प्रदानं कुर्वन्ति, तेभ्यः प्रदेशया खलु प्रशस्तिरयम् । स्वार्थम् अगणयित्वा सर्वस्वं समर्पितवन्तः प्रशस्तिम् इमाम् अर्हन्ति । ये महाजनाः साहित्यम् सङ्गीतम्, कला विज्ञानम्, सार्वजनिकसेवा इत्यादिषु क्षेत्रेषु श्रेष्ठतमं कार्यं साधयन्ति तेभ्यः इयं प्रशस्तिः दीयते । अस्य आरम्भः क्रि.श.१९५४तमे वर्षे अभवत् । आरम्भे मरणोत्तरं प्रशतिप्रदानस्य पद्धतिः नासीत् । क्रि.श.१९५५तमवर्षादनन्तरं मरणोत्तरमपि दीयते । अद्यपर्यन्तं सप्तजनेभ्यः मरणोत्तरा प्रशस्तिः समर्पिता । भारतत्नप्रशस्तिभाक् भारतीय़ः एव भवेत् इति नियमः नास्ति चेदपि अधिकतया भारतीयसञ्जातेभ्यः एव दत्ता । अद्य पर्यन्तं केवलं द्वावेव (नेल्सन् मण्डेला क्रि.श.१९९०, अब्दुल् गफर् खान् क्रि.श.१९८८)
प्रशस्तिलक्षणम्
सम्पादयतुभारतरत्नप्रशस्तेः पदकम् अश्वत्थपत्रस्य आकारेण भवति । स्वर्णरचितस्य अस्य मुखपुटे रजतवर्णे सूर्यचित्रं रचितं भवति । अपि च देवनागरीलिप्यां भारतरत्न इति उत्कीर्णं शोभते । अपरे पुटे भारतराष्ट्रचिह्नं सिहशीर्षमुद्रा, सत्यमेव जयते इति ध्येयवाक्यं च लिखितं भवति ।
भारतरत्नभूषितानाम् आवली
सम्पादयतुक्रमसङ्ख्या | नाम | जन्म - मरणम् | प्रशस्तिप्रापणवर्षम् | विषयः | राज्यम् / राष्ट्रम् |
---|---|---|---|---|---|
१. | सर्वपल्ली राधाकृष्णन् | १८८८-१९७५ | १९५४ | भारतस्य द्वीतीयः राष्ट्रपतिः, प्रथमः उपराष्ट्रपतिः, तत्त्वज्ञानी । | तमिऴनाडुराज्यम् |
२. | चक्रवर्ती राजगोपालाचार्यः | १८७८-१९७२ | १९५४ | अन्तिमः गवर्नर् जनरल्, स्वातन्त्र्ययोद्धा च । | तमिऴनाडुराज्यम् |
३. | चन्द्रशेखर वेङ्कटरामन् | १८८८-१९७० | १९५४ | भौतशास्त्रज्ञः,नोबेल्पुरस्कारभाक् | तमिऴनाडुराज्यम् |
४. | भगवान् दास् | १८६९-१९५८ | १९५५ | तत्त्वज्ञानी,स्वातन्त्र्ययोद्धा च । | उत्तरप्रदेशराज्यम् |
५. | मोक्षगुण्डं विश्वेश्वरय्यः | १८६१-१९६२ | १९५५ | अभियन्ता । | कर्णाटकराज्यम् |
६. | जवाहरलाल नेह्रू | १८८९-१९६४ | १९५५ | स्वातन्त्र्योत्तरं भारतस्य प्रथमः प्रधानमन्त्री लेखकः च । | उत्तरप्रदेशराज्यम् |
७. | गोविन्दवल्लभः पन्तः | १८८७-१९६१ | १९५७ | स्वातन्त्र्ययोद्धा गृहमन्त्री च । | उत्तरप्रदेशराज्यम् |
८. | धोण्डो केशव कर्वे | १८५८-१९६२ | १९५८ | शिक्षाकोविदः समाजसेवापरः च । | महाराष्ट्रराज्यम् |
९. | बिधाचन्द्रः रायः | १८८२-१९६२ | १९६१ | वैद्यः राजकीयनेता च । | पश्चिमबङ्गलराज्यम् |
१०. | पुरुषोत्तमदासः टण्डन् | १८८२-१९६२ | १९६१ | स्वातन्त्र्ययोद्धा, शिक्षाकोविदः च । | उत्तरप्रदेशराज्यम् |
११. | राजेन्द्रप्रसादः | १८८४-१९६३ | १९६२ | स्वतन्त्रभारतस्य प्रथमः राष्ट्रपतिः, स्वातन्त्र्ययोद्धा, अधुनिकन्यायशास्त्रज्ञः च । | बिहारराज्यम् |
१२. | झाकिर हुसैन | १८९७-१९६९ | १९६३ | भारतस्य भूतपूर्वराष्ट्रपतिः पण्डितः । | आन्ध्रप्रदेशराज्यम् |
१३. | पण्डुरङ्ग वामन काणे | १८८०-१९७२ | १९६३ | इतिहाससंस्कृतिशोधकः, संस्कृतभाषाकोविदः च । | महाराष्ट्रराज्यम् |
१४. | लालबहादुरशास्त्री | १९०४-१९०४ | १९६६ | (प्रशस्तिः मरणोत्तरा)भारतस्य द्वितीयः प्रधानमन्त्री, स्वातन्त्र्ययोद्धा च । | उत्तरप्रदेशराज्यम् |
१४. | इन्दिरा गान्धिः | १९१७-१९८४ | १९७१ | भारतस्य भूतपूर्वप्रधानमन्त्री । | उत्तरप्रदेशराज्यम् |
१६. | वि.वि.गिरिः | १८९४-१९८० | १९७५ | भारतस्य भूतपूर्वराष्ट्रपतिः, कर्मकरनायकः च । | आन्ध्रप्रदेशराज्यम् |
१७. | कुमारस्वामी कामराज् | १९०३-१९७५ | १९७६ | (मरणोत्तरा प्रशस्तिः) स्वातन्त्र्ययोद्धा, तमिळुनाडुराज्यस्य भूतपूर्वमुख्यमन्त्री च । | तमिऴनाडुराज्यम् |
१८. | मदर् तेरेसा | १९१०-१९९७ | १९८० | समाजसेविका, मतप्रचारिका, नोबेल् परितोषिकभूषिता । | पश्चिमबङ्गलराज्यम् |
१९. | विनोबा भावे | १८९५-१९८२ | १९८३ | (मरणोत्तरा प्रशस्तिः)स्वातन्त्र्ययोद्धा, समाजसंस्कारकः च । | महाराष्ट्रराज्यम् |
२०. | खान् अब्दुल् गफार् खान् | १८९०-१९८८ | १९८७ | स्वानत्र्ययोद्धा, भारतरत्नस्य प्रथमः अन्यदेशीयः । | पाकिस्तानम् |
२१. | एम्.जि.रामचन्द्रन् | १९१७-१९८७ | १९८८ | (मरणोत्तरा प्रशस्तिः), तमिळुनाडुराज्यस्य मुख्यमन्त्री, चलच्चित्राभिनेता च । | तमिऴनाडुराज्यम् |
२२. | भीमराव् रामजी अम्बेड्कर् | १८९१-१९५६ | १९९० | (मरणोत्तरा प्रशस्तिः), भारतस्य संविधानरचनगणस्य नायकः । | महाराष्ट्रराज्यम् |
२३. | नेल्सन् मण्डेल | १९१८-२०१३ | १९९० | वर्णभेदनीतिं विरुध्य अन्दोलनकर्ता, भारतरत्नस्य द्वितीयः विदेशियः च । | दक्षिण-आफ्रिका |
२४. | राजीवगान्धिः | १९४४-१९९१ | १९९१ | (मरणोत्तरा प्रशस्तिः), भारतस्य भूतपूर्वप्रधानमन्त्री । | नवदेहली |
२५. | सरदार् वल्लभभायी पटेलः | १८७५-१९५० | १९९१ | (मरणोत्तरा प्रशस्तिः) स्वातन्त्रसेनानी, स्वतन्त्रभारतसर्वकारस्य प्रथमः गृहमन्त्री च । | गुजरातराज्यम् |
२६. | मोरारजी देसायी | १८९६-१९९५ | १९९१ | भारतस्य भूतपूर्वप्रधानमन्त्री, स्वातन्त्र्ययोद्धा च । | गुजरातराज्यम् |
२७. | मौलाना अबुल् कलाम् आजाद् | १८८८-१९५८ | १९९२ | (मरणोत्तरा प्रशस्तिः), स्वातन्त्र्ययोद्धा । | पश्चिमबङ्गलराज्यम् |
२८. | जे.आर्.डि.टाटा | १९०४-१९९३ | १९९२ | भारतीययन्त्रोद्यमस्य पितामहः, समाजसेवकः च | महाराष्ट्रराज्यम् |
२९. | सत्यजित राय | १९२२-१९९२ | १९९२ | भारतीयचलच्चित्रनिदेशकः । | पश्चिमबङ्गलराज्यम् |
३०. | ए.पी.जे.अब्दुल् कलामः | १९३१- | १९९७ | भारतस्य भूतपूर्वराष्ट्रपतिः, व्योमविज्ञानी च । | तमिऴनाडुराज्यम् |
३१. | गुल्जारीलालनन्दा | १८९८-१९९८ | १९९७ | स्वातन्त्र्ययोद्धा, भारतस्य भूतपूर्वप्रधानमन्त्री च । | पञ्जाब् |
३२. | अरुणा असफ् अलि | १९०८-१९९६ | १९९७ | (मरणोत्तरा प्रशस्तिः), स्वातन्त्र्ययोद्धा । | पश्चिमबङ्गलराज्यम् |
३३. | एम् एस् सुब्बालक्षमी | १९१६-२००४ | १९९८ | कर्णाटकशास्त्रीयसङ्गीतज्ञा । | तमिऴनाडुराज्यम् |
३४. | सि.सुब्रह्मण्यम् | १९१०-२००० | १९९८ | स्वातन्त्रयोद्धा, भारतकृषिमन्त्री, कृषिक्षेत्रे परिवर्तनस्य प्रणेता च । | तमिऴनाडुराज्यम् |
३५. | जयप्रकाशनारायणः | १९०२-१९७९ | १९९८ | (मरणोत्तरा प्रशस्तिः), स्वातन्त्र्यसेनानी समाजपरिवर्तकः च । | उत्तरप्रदेशराज्यम् |
३६. | पण्डित रविशङ्करः | १९२०- २०१२ | १९९९ | सितार्वादकः । | उत्तरप्रदेशराज्यम् |
३७. | अमर्त्यसेनः | १९३३- | १९९९ | नोबेल् पुरस्कृतः, अर्थशास्त्रज्ञः च । | पश्चिमबङ्गलराज्यम् |
३८. | गोपिनाथ बोर्डोलोयि | १८९०-१९५० | १९९९ | (मरणोत्तरा प्रशस्तिः), स्वातन्त्र्ययोद्धा । | असमराज्यम् |
३९. | लता मङ्गेशकरः | १९२९ | २००१ | चलच्चित्रनेपथ्यगायिका । | महाराष्ट्रराज्यम् |
४०. | बिस्मिल्ला खानः | १९१६-२००६ | २००१ | शेहनायीवादकः । | उत्तरप्रदेशराज्यम् |
४१. | भीमसेन जोशी | १९२२-२०११ | २००८ | हिद्नुस्तानीशास्त्रीयसङ्गीतज्ञः । | कर्णाटकराज्यम् |
४२. | सचिन तेण्डुलकर | १९७३- | २०१३ | क्रीडाविद् । | महाराष्ट्रराज्यम् |
४३. | सि एन् आर् राव | १९३४- | २०१३ | हिद्नुस्तानीशास्त्रीयसङ्गीतज्ञः । | कर्णाटकराज्यम् |
४४. | अटल बिहारी वाजपेयी | १९२४- | २०१४ | राजनीतिज्ञः । | मध्यप्रदेशराज्यम् |
४५. | मदनमोहन मालवीय | १८६१-१९४६ | २०१४ | शिक्षाविद् , राजनीतिज्ञः । | उत्तरप्रदेशराज्यम् |