स्वातन्त्र्यदिनोत्सवः (भारतम्)

(भारतस्वतन्त्रतादिन इत्यस्मात् पुनर्निर्दिष्टम्)

भारतस्वतन्त्रतादिनम् ( /ˈsvɑːtəntrjədɪntsəvəh/) (हिन्दी: भारतस्वतन्त्रता दिवस, आङ्ग्ल: Independence Day (India)) 'अगस्त'-मासस्य पञ्चदशे (१५/८) दिनाङ्के राष्ट्रियोत्सवत्वेन आभारते आचर्यते । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे दिनाङ्के भारतगणराज्यं स्वतन्त्रम् अभवत् । अतः एतद्दिनं भारतस्वातन्त्र्यदिनोत्सवत्वेन आचर्यते । तत्पूर्वं ब्रिटिश-जनाः भारतस्योपरि शासनं कुर्वन्ति स्म । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य चतुर्दशे (१४/८/१९४७) दिनाङ्के मध्यरात्रौ द्वादशवादने आङ्ग्लाः भारतगणराज्यस्य शासनं भारतीयेभ्यः यच्छन्तः भारतत्यागम् अकुर्वन् । भारतस्वतन्त्रतायाः तत् दिनं भारते राष्ट्रियपर्वत्वेन आचर्यते ।

स्वातन्त्र्यदिनोत्सवः
भारतस्वतन्त्रता दिवस
Independence Day (India)
स्वातन्त्र्यदिनोत्सवः  भारतस्वतन्त्रता दिवस  Independence Day (India)
के आचरन्ति  भारतम्
वर्गः राष्ट्रियोत्सवः
दिनाङ्कः 'अगस्त'-मासस्य पञ्चदशः दिनाङ्कः
आचरणानि भारतम्

भारतदेशे पूर्वं यवनाः विदेशात् आगत्य अत्र स्थित्वा प्रशासनम् अकुर्वन् । अनन्तरं पुर्तुगाल-देशीयाः, नेदरर्लैण्ड-देशीयाः, फ्रान्स-जनाः, ब्रिटिश-जनाः च आगताः । सर्वे अत्र शासनम् अकुर्वन् । तेषु प्रबलाः आङ्ग्लाः दीर्घकालपर्यन्तं प्रशासनाधिकारं प्रापन् । ततः स्वतन्त्रतां प्राप्तुं कर्णाटकराज्ये आङ्ग्लविरुद्धं युद्धं राज्ञी कित्तूरु चेन्नम्म आरभत । मङ्गल पाण्डेय, राज्ञी लक्ष्मीबाई, तात्या टोपे इत्यादयः युद्धं कृत्वा जनानपि प्राचोदयन् । देशे स्वाभिमानिनः राष्ट्रभक्ताः विभिन्नैः क्रान्तिमार्गैः आङ्ग्लविरुद्धं युद्धम् अकुर्वन् । सरदार वल्लभभाई पटेल, भगत सिंह, मदनलाला धिङ्ग्रा, चन्द्रशेखर आजाद, महात्मा गान्धी, मैलार महादेव, सङ्गोळ्ळि रायण्ण, नाना साहेब इत्यादयः आङ्ग्लविरुद्धं युद्धम् अकुर्वन् । लाला लाजपत राय, मातङ्गिनी हाजरा, भगत सिंह, चन्द्रशेखर आजाद सदृशाः वीरदेशभक्ताः स्वप्राणाहुतिम् अपि अयच्छन् । तेषाम् अन्तिमसमयेऽपि मनसि वचने च 'भारत माता की जय', ‘वन्दे मातरं’ जयघोषाः भवन्ति स्म । एवं भारतदेशं स्वतन्त्रं कर्तुं बहूनि स्वतन्त्रतान्दोलनानि अभवन् ।

अन्तर्विषयाः

इतिहासःसम्पाद्यताम्

१८५७ तमे वर्षे भारते प्रप्रथमं स्वतन्त्रतान्दोलनम् अभवत् । १८२० तमस्य वर्षस्य कित्तूरु चेन्नम्मा इत्यस्याः आङ्ग्लविरुद्धं युद्धम् अपि प्रप्रथमम् आङ्ग्लविरुद्धम् आन्दोलनं गण्यते । कित्तूरु चेन्नम्मा, झांसी लक्ष्मीबाई, तात्या तोपे, राजा कुंवर सिंह, नाना साहेब, मङ्गल पाण्डेय इत्यादीनाम् आह्वानेन भारतीयाः तयोः आङ्ग्लविरुद्धयोः युद्धयोः भागम् अवहन् । परन्तु आङ्ग्लानां कूटनीतेः कारणेन, भारतीयानां देशद्रोहस्य बाहुल्येन च तयोः युद्धयोः भारतीयानां करुणपराजयः अभवत् । ततः अपि भारतस्वातन्त्रतायाः अग्निः अखण्डः आसीत् ।

कालान्तरे रामप्रसाद बिस्मिल, चन्द्रशेखर आजाद, भगत सिंह, सुखदेव, राजगुरु, बटुकेश्वर दत्त, भगवतीचरण वर्मा, दुर्गा भाभी, सुशीला भगिनी, मातङ्गिनी हाजरा, लाला लाजपत राय, सुभाष चन्द्र बसु, जयप्रकाश नारायण, सरदार वल्लभभाई पटेल, महात्मा गान्धी इत्यादयः स्वतन्त्रतासङ्ग्रामे स्वयोगदानम् अयच्छन् । १८२० तः १९४७ पर्यन्तं भारतीयानाम् अविरतप्रयासेन १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे (१५/८/१९४७) दिनाङ्के भारतीयाः स्वतन्त्रतां प्रापन् ।

भारतात् पलायनस्य पृष्ठे अपि आङ्ग्लानां कूटनीतिः आसीत् । गमनकाले ते भारतस्य विभाजनं कृत्वा अगच्छन् । भारतस्य सीमावर्तिप्रदेशान् पाकिस्थानाय दत्त्वा भारतं विकटस्थित्याम् उपास्थापयन् । भारतस्य पाकिस्थानेन सह पौनःपुन्येन युद्धे सति भारतं स्वतन्त्रतायै योग्यं नास्ति इति सिद्धयितुं तेषां प्रयासः आसीत् । परन्तु सरदार वल्लभभाई पटेल, वी पी मेनन, बी आर् आम्बेडकर इत्यादीनाम् अविरतप्रयासेन तेषां पुनरागमनस्य स्थितिः अपाभवत् ।

स्वतन्त्रतानन्तरं भारतम्सम्पाद्यताम्

१९४७ तमे वर्षे आङ्गलाः भारतं त्यक्त्वा अगच्छन् । स्वतन्त्र्याप्राप्तेः अनन्तरम् आङ्ग्लैः जनिताः अनेकाः कष्टदायिकाः समस्याः भारतदेशे समुद्भूताः । पाकिस्थान-भारतयोः असङ्ख्याकाः जनाः देशविभाजनप्रक्रियायां मृताः । भारते प्रधानमन्त्री जवाहरलाल नेहरू इत्यस्य काले कृषि-उद्योग-आरोग्य-शिक्षा-यन्त्रागारादिषु क्षेत्रेषु कार्यम् आरभत । ततः ग्रामोद्धारः, महिलाशिक्षा, निरुद्योगपरिहारः, आहारोत्पादनं, विद्युदुत्पादनं, जलबन्धानां निर्माणम् इत्यादीनि उत्तमकार्याणि स्वतन्त्रे भारते आरब्धानि । भारतदेशे जनसङ्ख्यायाः आधिक्यात् समस्याः अधिकाः आसन् । भारतीयसर्वकारः भारतीयसंविधानस्य माध्येन भारतस्य सुचारुशासनद्वारा शनैः शनैः देशजनानां दुःखनिवारणस्य कार्यं करोति स्म ।

 
भारतस्य भविष्यम्

यद्यपि भारतीयसंविधाने "सर्वेषां समानाधिकारः" इति नियमेन भारतीयानां विकासे वेगः अवर्धत, तथापि "देशस्य केचन वर्गाः दुःखिताः सन्ति" इति सर्वकारेणानुभूतम् । अतः संविधाने दलित-वर्गस्य दुःखं परिहर्तुं प्रयासाः अभवन् । सर्वेषां कृते उत्तमा योजना अभवत् । भारतस्वतन्त्रतानन्तरं संविधानस्य निर्माणं भारतीयशासनस्य स्थायित्वस्य शिलान्यासः आसीत् । अतः २६/१ तमे दिनाङ्के वयं प्रजासत्ताकदिनस्य उत्सवम् आचरामः ।

स्वतन्त्रतादिने उत्सवःसम्पाद्यताम्

स्वातन्त्र्योत्सवस्य प्रमुखः कार्यक्रमः देहली-महानगरस्थे रक्तदुर्गे (लालकिला, red fort) भारतगणराज्यस्य राष्ट्रपतेः भाषणेन आरभ्यते । ततः प्रधानमन्त्रिद्वारा ध्वजारोहणं भवति । अनन्तरं प्रधानमन्त्री सर्वकारस्य कार्याणां योजनां प्राकटयन् सर्वेभ्यः शुभाशयं यच्छति । ततः सर्वेषां राज्यानां राजधानीषु मुख्यमन्त्रिणः ध्वजारोहणं कृत्वा जनेभ्यः शुभाशयं यच्छन्ति । आभारते शैक्षणिकसंस्थासु, सर्वकारसंस्थासु, स्वयंसेविसंस्थासु सर्वत्र ध्वजारोहणेन सह राष्ट्रगानं भवति । विभिन्नाः शैक्षणिकसंस्थाः बालकेषु देशभक्त्याः भावम् उत्पादयितुं विभिन्नानां स्पर्धानाम् आयोजनं कुर्वन्ति । भाषणस्पर्धा, देशभक्तिगीतानां गायनं, समूहनृत्यं, नाटकानि, पदयात्राः, प्रदर्शिन्यः इत्यादीनाम् आयोजनं भवति । दिनेऽस्मिन् सर्वत्र स्वातन्त्र्यवीराणां स्मरणम्, आत्मार्पणं कृतवतां संस्मरणं, वीरगाथाश्रावणं च प्रतिध्वनति ।

ध्वजारोहणस्य समारोहःसम्पाद्यताम्

स्वातन्त्र्यदिने प्रातः सप्तवादने ध्वजारोहणस्य कार्यकालः । ततः भारतगणराज्यस्य राष्ट्रपतिः देशं सम्बोध्य भाषणं करोति । राष्ट्रपतेः भाषणानन्तरं भारतगणराज्यस्य प्रधानमन्त्री देशं सम्बोधयति । तस्मिन् दिने भारतीयत्रिवर्णध्वजः सर्वत्र विराजते । मध्याह्नेऽपि सांस्कृतिककार्यक्रमाः आयोज्यन्ते । स्वातन्त्र्योत्सवः भारतस्य राष्ट्रियपर्व अस्ति । अस्मिन् पर्वणि सर्वे भारतीयाः एकीभूय भागं गृह्णन्ति । स्वातन्त्र्योत्सवसमारम्भेषु भारतस्य स्थितिविषये अभिवृद्धिकार्यविषये चर्चा, चिन्तनं च भवति । तस्मिन् दिने आभारते अवकाशः भवति । यतो हि भारतीयाः स्वतन्त्रतायोद्धॄणां सम्मानाय, भारतस्य स्वतन्त्रतायाः उत्सवाय, देशस्य वर्तमानस्थित्याः मूल्याङ्कनाय च स्वसमयं दातुं प्रभवन्ति ।

स्वातन्त्र्यप्राप्तिः अतिकष्टेन अभवत् । देशविकासकार्येण तस्याः स्वतन्त्रतायाः संरक्षणं भारतीयैः कर्तव्यम् अस्ति । राष्ट्रं वैदेशिकेभ्यः, भ्रष्टचारिभ्यः, भयोत्पादकेभ्यः च रक्षितुं सर्वैः सन्नद्धाः भवितव्यम् । स्वस्य दायित्वस्य सम्यक्तया पालनं, देशभक्त्याः विचारान् धृत्वा च कार्यं कर्तव्यम् । देशरक्षणं न केवलं सैनिकानां दायित्वम्, अपि तु सर्वेषां भारतीयानां दायित्वम् इति अस्माभिः स्मर्तव्यम् । विद्यार्थिनः देशविकासाय सम्यक्तया अध्ययनं कुर्युः, पिता स्वपुत्राय सद्संस्कारान् दद्यात्, माता स्वपुत्रीं पाठयेत्, शिक्षकः स्वविद्यार्थिषु ज्ञानपिपासां जनयेत्, कर्मचारी स्वदायित्वस्य योग्यरीत्या पालनं कुर्यात् इत्यादीनि कार्याणि देशसेवायाः अभिन्नाङ्गानि सन्ति ।

बाह्यानुबन्धःसम्पाद्यताम्