रतलाम
रतलाम ( ( शृणु) /ˈrətəlɑːmə/) (हिन्दी: रतलाम, आङ्ग्ल: Ratlam) इत्येतन्नगरं मध्यप्रदेशराज्यस्य उज्जैनविभागे अन्तर्गतस्य रतलाममण्डलस्य केन्द्रम् अस्ति । रतलाम-नगरं मध्यप्रदेशराज्यस्य प्रमुखनगरेषु अन्यतमं वर्तते । इदं नगरं मालवा-क्षेत्रे अन्तर्गतम् अस्ति ।
रतलाम-नगरम् Ratlam | |
---|---|
'रतनपुरी' | |
रतलाम-नगरस्य आकर्षणम् | |
मध्यप्रदेश राज्यस्य मानचित्रे रतलाम नगरम् | |
देशः | भारतम् |
राज्यम् | मध्यप्रदेशराज्यम् |
मण्डलम् | रतलाममण्डलम् |
जनसङ्ख्या (२०११) | २,७३,८९२ |
Founded by | रतन सिंह |
Government | |
• Type | महापौरपरिषद्-सर्वकारः (Mayor–council government) |
• Body | रतलाम म्युनिसिपल् कोर्पोरेशन् |
• महापौरः | शैलेन्द्र डागा |
Time zone | UTC+५:३० (भारतीयमानकसमयः (IST)) |
पिन कोड |
४५७ xxx |
Area code(s) | ०७४१२ |
Vehicle registration | एम पी - ४३ |
साक्षरता | ८७.८९% |
भाषाः | हिन्दी, आङ्ग्लं, मालवी च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४८% |
जनसङ्ख्या
सम्पादयतु२०११ जनगणनानुगुणं रतलाम-नगरस्य जनसङ्ख्या २,७३,८९२ अस्ति । अत्र १,३९,७६६ पुरुषाः, १,३४,१२६ महिलाः च सन्ति । अत्र पुं-स्त्री अनुपातः १०००-९६० अस्ति । अत्र साक्षरता ८७.८९% अस्ति ।
भौगोलिकी स्थितिः
सम्पादयतुरतलाम-नगरं भारतस्य मध्यभागे स्थितम् अस्ति । अस्य निर्देशाङ्कः २३ º १८ उ., ७५ º ०६ पू. अस्ति । समुद्रतलात् अस्य नगरस्य औन्नत्यं ४८० मी. अस्ति । अस्मिन् नगरे नवम्बर-तः फरवरी-पर्यन्तं शीतर्तुः भवति । शीतर्तौ अस्य नगरस्य न्यूनतमं तापमानं ६ ºC भवति । अस्मिन् नगरे अप्रैल-तः जून-पर्यन्तं ग्रीष्मर्तुः भवति । ग्रीष्मर्तौ अस्य नगरस्य अधिकतमं तापमानं ४४ ºC भवति । अस्मिन् नगरे जुलाई-तः सितम्बर-पर्यन्तं वर्षर्तुः भवति ।
इतिहासः
सम्पादयतुमुगल बादशाह शाह जहा इत्याख्येन एकस्यां गजक्रीडायां रतलाम-नगरं रतन सिंह इत्यस्मै उपहारत्वेन प्रदत्तम् आसीत् । यदा शहज़ादा शुजा, औरङ्गजेब इत्येतयोः मध्ये उत्तराधिकारिपदप्राप्त्यर्थं युद्धमभवत् तदा रतलाम-नगरस्य राज्ञा रतन सिंह इत्यनेन बादशाह शाह जहा इत्याख्यस्य समर्थनं कृतम् आसीत् । अतः औरङ्गजेब इत्याख्यस्य विजयः अभवत् । ततः परम् औरङ्गजेब इत्याख्येन स्वविरोधिजनाः राज्यात् निष्कासिताः । तेन राजा रतन सिंह अपि राज्यात् बहिः प्रेषितः । तत्पश्चात् रतन सिंह मन्दसौरमण्डलस्य सीतामऊ ग्रामे निवसति स्म । तस्य मृत्युः अपि सीतामऊ ग्रामे एव अभवत् । तत्र अद्यापि रतन सिंह इत्यस्य स्मारकम् अस्ति ।
रतलाम-नगरं मध्यभारतस्य मालवा एजेन्सी इत्यस्य एकः भागः आसीत् । दीर्घकालपर्यन्तं रतलाम-नगरं राठोड-वंशजानाम् आधिपत्ये आसीत् । प्रथमः शासकः रतन सिंह आसीत् । तस्य द्वादशपत्न्यः आसन् ।
वाणिज्यम्
सम्पादयतुनगरेऽस्मिन् बहवः यन्त्रागाराः, शिक्षणसंस्थानानि च सन्ति । पुरा नगरमिदं पुलोमह्याः, तम्बाकु, लवणस्य इत्यादीनां व्यापारकेन्द्रमासीत् । इदं नगरं मालवा-प्रान्तस्य वाणिज्यिकनगरेषु अन्यतमम् आसीत् । अस्य नगरस्य रतलामी सेव बहुप्रसिद्धमस्ति । आभारतम् इदं खाद्यं प्रसिद्धमस्ति ।
शिक्षणसंस्थानानि
सम्पादयतु- श्री सांई इंस्टिट्यूट् ऑफ् टेक्नोलजी
- सर्जन इंस्टिट्यूट् ऑफ् टेक्नोलजी एण्ड मेनेज्मेण्ट् साइन्स्
- गवर्नमेण्ट् PG आर्ट्स् एण्ड् साइन्स् कॉलेज्
- शासकीय कन्या स्नातक महाविद्यालय
- शासकीय विज्ञान एवं कला महाविद्यालय
- शासकीय विवेकानन्द वाणिज्य महाविद्यालय
- शासकीय पोलीटेक्नीकल् कॉलेज्, जावरा
- शासकीय शहीद भगत सिंह महाविद्यालय, जावरा
- शासकीय महाविद्यालय, सैलाना
- आई टी आई
वीक्षणीयस्थलानि
सम्पादयतुबिल्पकेश्वर-मन्दिरम्
सम्पादयतुबिल्पकेश्वर-मन्दिरं रतलाम-नगरात् १८ कि. मी. दूरे स्थितमस्ति । इदं मन्दिरं बहुपुरातनमस्ति । अस्य मन्दिरस्य निर्माणं १० शताब्द्याम् अभवत् । अस्य मन्दिरस्य निर्माणं चालुक्य-परमार इत्येतयोः वास्तुकलायाम् अभवत् ।
गुलाब चक्कर पुरातत्व सङ्ग्रहालय
सम्पादयतुअयं सङ्ग्रहालयः रतलाम-नगरे स्थितः अस्ति । अस्य सङ्ग्रहालयस्य निर्माणं १८७९ तमे वर्षे राज्ञः रणजीत सिंह इत्याख्यस्य शासनकाले अभवत् । अस्य सङ्ग्रहालयस्य नाम राज्ञः पुत्र्याः गुलाब कुंवर साहिबा इत्याख्यायाः नामोपरि अभवत् । अव्यवस्थायाः कारणात् अस्य स्थितिः जर्जरा जाता । अस्य पुनर्जीणोद्धारः कारितः । अयं जनानाम् आकर्षणस्य केन्द्रम् अस्ति । अस्मिन् एकम् उद्यानम् अस्ति । उद्याने गुलाब-पुष्पस्य बहवः पादपाः सन्ति । तत्र बहवः जनाः भ्रमणार्थं गच्छन्ति ।
केदारेश्वर-मन्दिरम्
सम्पादयतुकेदारेश्वर-मन्दिरं रतलाममण्डलस्य सैलाना ग्रामे स्थितमस्ति । इदं शिवमन्दिरं वर्तते । मन्दिरेऽस्मिन् एकः कुण्डः अस्ति । तत्र एकः जलप्रपातः अपि अस्ति । तस्य जलं कुण्डे पतति । तत् दृश्यं रमणीयं वर्तते । तस्मिन् कुण्डे एव भक्तजनाः पादप्रक्षालनं कृत्वा मन्दिरं प्रविशन्ति । वर्षर्तौ तत्र बहवः जनाः भ्रमणार्थं गच्छन्ति । इदं मन्दिरं प्राचीनम् अस्ति, यस्य अनुमानं शिवलिङ्गात् एव भवति । तत्र स्थितं शिवलिङ्गं प्राकृतिकमस्ति ।
अन्यानि वीक्षणीयस्थलानि
- सागौद जैन मन्दिर
- केक्टस् गार्डन्, सैलाना
- हुसैन टेकरी, जावरा
- हनुमान मन्दिर
- खारमोर पक्षी उद्यान
- गङ्गा सागर
रतलाम-नगरस्य प्रसिद्धाः उद्योगाः
सम्पादयतु- बोरीदा सॉल्ट् प्राइवेट् लिमिटेड्
- गायत्री एञ्जिनियर्स्
- देवेन्द्र इण्डस्ट्रीस्
- टेक्नो बेस्ट् ट्रान्स्फॉर्मर्स्
- मालवा ऑक्सोजेन् एण्ड् इण्डस्ट्रीस् गॅसस् प्राइवेट् लिमिटेड्
- श्रीराम केमिकल् इण्डस्ट्रीस्
मार्गाः
सम्पादयतुधूमशकटमार्गः
सम्पादयतुमुम्बई, देहली, बेङ्गळूरु, अजमेर, चेन्नै, हैदराबाद्, झांसी, उज्जैन, कोलकाता इत्यादिभ्यः नगरेभ्यः रेल-यानेन रतलाम-नगरं प्राप्तुं शक्यते ।
भूमार्गः
सम्पादयतुरतलाम-नगरस्य मार्ग-परिवहन-निगमः बहुविकसितः अस्ति । मध्यप्रदेशस्य अन्येभ्यः नगरेभ्यः, ग्रामेभ्यः च नियमितरूपेण रतलाम-नगराय बस्-यानानि प्राप्यन्ते ।
बाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये रतलाम सम्बन्धिताः सञ्चिकाः सन्ति। |
http://hi.bharatdiscovery.org/india/%E0%A4%B0%E0%A4%A4%E0%A4%B2%E0%A4%BE%E0%A4%AE
http://ratlaminfo.com/ Archived २०१४-१२-१७ at the Wayback Machine