लङ् लकारः
(लङ् लकारः - भूतकालः इत्यस्मात् पुनर्निर्दिष्टम्)
संस्कतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा-
१.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् । ६.लिङ् (विधिलिङ् च आशिर्लिङ्) । ७.लोट् । ८.लुट् । ९.लृट् । १०.लृङ् ।
एते दश लकाराः द्विधा विभक्ताः सन्ति ।
- सार्वधातुकाः / सविकरणकालार्थाः
- अर्धधातुकाः / अविकरणकालार्थाः
तत्र लङ् लकारः भुतकालं बोधयति। लङ् लुङ् च भुतकालयोः लकारयोः धातोः आरम्भे एकः अकार-उपसर्गः योज्यते।
लङ् लकारः (परस्मैपदम्) | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमपुरुषः | अपठत् | अपठताम् | अपठन् |
मध्यमपुरुषः | अपठः | अपठतम् | अपठत |
उत्तमपुरुषः | अपठम् | अपठाव | अपठाम |
लङ् लकारः (परस्मैपदम्) | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमपुरु़षः | अत् | अताम् | अन् |
म़ध्यमपुरुषः | अः | अतम् | अत |
उत्तमपुरु़षः | अम् | आव | आम |
लङ् लकारः (आत्मनेपदम्) | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमपुरुषः | असेवत | असेवताम् | असेवन्त |
मध्यमपुरुषः | असेवथाः | असेवथाम् | असेवध्वम् |
उत्तमपुरुषः | असेवे | असेवावहि | असेवामहि |
लङ् लकारः (आत्मनेपदम्) | एकवचनम् | द्विवचनम् | बहु वचनम् |
---|---|---|---|
प्रथमपुरु़षः | अत | एताम् | अन्त |
म़ध्यमपुरुषः | अथाः | इथाम् | अध्वम् |
उत्तमपुरु़षः | ए | आवहि | आमहि |
टिप्पणी
सम्पादयतु- संस्कृतशब्दचन्द्रिका Vidvan S.Ranganatha Sharma, Sri Surasaraswathi Sabha, Bangalore, India,1994.
- अनुवादप्रदीपः Sri Surasaraswathi Sabha, Bangalore, India,1997.