लिट् लकारः
(लिट् परोक्षभूतकालः इत्यस्मात् पुनर्निर्दिष्टम्)
संस्कृतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा-
१.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् । ६.लिङ् (विधिलिङ् च आशिर्लिङ्) । ७.लोट् । ८.लुट् । ९.लृट् । १०.लृङ् ।
एते दश लकाराः द्विधा विभक्ताः सन्ति ।
- सार्वधातुकाः / सविकरणकालार्थाः
- अर्धधातुकाः / अविकरणकालार्थाः
तत्र लिट् लकारः परोक्षभूतकालं बोधयति । लिट् लकारे धातोः आरम्भे एका द्वित्वप्रत्यया योज्यते (इति- नन्द् → ननन्द, वन्द् → ववन्दे)। तत्र त्रयः नियमाः सन्ति।
- यदि धातोः आरम्भः कवर्गं (क, ख, ग, घ, ङ) उत हकारं भवेत्, तर्हि द्वित्वं चवर्गं (च, छ, ज, झ, ञ) भवेत् (खाद् → चखाद, हु → जुहाव)।
- यदि धातोः आरम्भः महाप्राणं (ख, झ, थ, भ …) भवेत्, तर्हि द्वित्वं अल्पप्राणं (क, ज, त, ब …) भवेत् (झर्झ् → जझर्झ, भाष् → बभाषे)।
- यदि धातोः आरम्भः संयोगः (क्व, स्थ, भ्य …) भवेत्, तर्हि द्वित्वं द्वितीयं व्यञ्जनं एव भवेत् (स्था → तस्थौ, स्पर्ध → पस्पर्धे)।[१]
लिट् लकारः (परस्मैपदम्) | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमपुरुषः | ननन्द | ननन्दतुः | ननन्दुः |
मध्यमपुरुषः | ननन्दिथ | ननन्दथुः | ननन्द |
उत्तमपुरुषः | ननन्द | ननन्दिव | ननन्दिम |
लिट् लकारः(परस्मैपदम्) | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमपुरुषः | अ | अतुः | उः |
मध्यमपुरुषः | इथ | अथुः | अ |
उत्तमपुरुषः | अ | इव | इम |
लिट् लकारः(आत्मनेपदम्) | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमपुरुषः | बभाषे | बभाषाते | बभाषिरे |
मध्यमपुरुषः | बभाषिषे | बभाषाथे | बभाषिध्वे |
उत्तमपुरुषः | बभाषे | बभाषिवहे | बभाषिमहे |
लट् लकारः(आत्मनेपदम्) | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमपुरुषः | ए | आते | इरे |
मध्यमपुरुषः | इषे | आथे | इध्वे |
उत्तमपुरुषः | ए | इवहे | इमहे |
टिप्पणी
सम्पादयतु- संस्कृतशब्दचन्द्रिका Vidvan S.Ranganatha Sharma, Sri Surasaraswathi Sabha, Bangalore, India,1994.
- अनुवादप्रदीपः Sri Surasaraswathi Sabha, Bangalore, India,1997.
- Whitney, W. D. (1879, July). A Sanskrit Grammar; Including Both The Classical Language and The Older Dialects, Of Veda And Brahmana. Breitkopf & Härtel, Leipzig, Archive.org. https://archive.org/details/sanskritgrammari00whituoft
- ↑ Whitney, W