वेदाङ्गानाम् इतिहासः
वेदाङ्गानाम् इतिहासः वेदविस्तारस्य इतिहासम् एव प्रदर्शयति। यतः वेदेभ्यः प्राप्तस्य ज्ञानस्य वेदानाम् अवगमने एव कथम् उपयोगः जातः इति वेदाङ्गस्य अध्ययनेन एव अवगम्यते। वेदाङ्गेषु शिक्षा, कल्पः, व्याकरणं, निरुक्तं, छन्दः, ज्योतिषं च अन्तर्भवन्ति।
महनीयेऽस्मिन् जगतीतले पुरुषार्थचतुष्टयस्य साधको मानवो भवति । मानवानां देहे यथा हस्तपादादयो विविधान्यङ्गानि भवन्ति तद्वत् धर्मार्थकाममोक्षाख्यचतुर्विध पुरुषार्थस्य प्रतिपादका वेदास्सन्ति । वेदा अपि अङ्रेव व्याक्रियन्ते । अत एव चतुर्दश विद्यास्वङ्गानां चर्चा विद्यते।
अङ्गशब्दस्य व्युत्पत्तिलभ्योऽर्थो भवति उपकारक इति। तथा चाह काव्यप्रकाशे साहित्यदर्पणे च -
'उपकुर्वन्ति तं सन्तो [न्तं ] येऽङ्गद्वारेण जातुचित् ।
हारादिवदलङ्कारास्तेऽनुप्रासोपमादयः'॥ (काव्य.)
'शब्दार्थयोरस्थिरा ये धर्माः शोभासिशायिनः ।
रसादीनुपकुर्वन्तोऽलहारास्तेम्भवाषियत' ॥(दश. १०१)
तद्यथा-'अङ्ग्यन्ते ज्ञायन्ते अमीभिरिति अङ्गानि"। अत्रायमाशयः-यैरुपकरणः कस्यापि वस्तुनः स्वरूपपरिज्ञाने साहाय्यं प्राप्नोति तान्यङ्गानि भवन्ति । वेदः स्वयमेव दुर्बोधः दुरूहश्च विषयः-भाषा-भावयो_योरपि दृष्टया। निष्कर्षश्चात्रायं विद्यते यद् वेदार्थज्ञाने तत्कर्मकाण्डस्य च प्रतिपादने, तथाविधसाहाय्यप्रदाने च सक्षमं सार्थकञ्च यच्छास्त्रं तमेव विद्वांसो 'वेदाङ्ग' इति नाम्ना कथयन्ति व्यवहरन्ति च । तथा च वेदस्य वेदार्थस्य च यथार्थज्ञानाय शिक्षादि षड्विषयान् सम्यगध्ययनस्य नितान्तं प्रयोजनं विद्यते।
वेदमन्त्राणां समुचितरूपेणोच्चारणं प्रथमः कल्पः ।, अत एव शाब्दिकमन्त्राणां यथार्थरूपेणोच्चारणस्थापने प्रमुखं महत्त्वं दीयते । एतदर्थं प्रवर्तमाना व्यवह्रियमाणा च पद्धतिः-वेदाङ्गस्य 'शिक्षा' इति कथ्यते । वेदस्य मुख्य प्रयोजनं वैदिकं कर्म काण्डम्, यज्ञयागादेः यथार्थमनुष्ठानमस्ति । एतत्प्रयोजनाय प्रवृत्तमङ्गं 'कल्प' इति कथ्यते । अस्य व्युत्पत्तिलभ्योऽर्थो भवति-यज्ञ-यागस्य प्रयोगाणां समर्थकं शास्त्र मिति । तद्यथा-कल्प्यते समर्थ्यते यागप्रयोगोऽत्र इति कल्पः ।
व्याकरणस्य वेदाङ्गत्वप्रयोजनं यथा-पदानां प्रकृतेः प्रत्ययस्य च विवरणं प्रदाय पदस्वरूपं परिचाययति-अर्थविश्लेषणञ्च करोति । अस्मै प्रयोजनाय व्याकरण शास्त्रस्योपयोगित्वात् तस्मिन्नपि शास्त्रे वेदाङ्गत्वं विद्यते।
निरुक्तस्य कार्यमस्ति-पदानां निरुक्तिकथनं व्युत्पत्तिप्रदर्शनञ्च । निरुक्तेविभिन्न त्वात् अर्थेऽपि भिन्नता भवति । अतो वेदस्यार्थनिरुक्तस्य वेदाङ्गता सिद्धयति । अपि च वेदः छन्दोमय्यां वाण्यां विद्यते, तत्परिचयं विना कथं वेदार्थावगमो भवेत् । प्राप्ते परिचये सत्येव मन्त्राणामुच्चारणस्य पाठस्य च सम्यग् ज्ञानं भविष्यति ।
उदाहरणमुखेन जानन्ति भवन्तः । तद्यथा-वरुणविषये शुनःशेपऋषेः बहचिनी मन्त्रः -
निषसाद धृतव्रतो वरुणः पस्त्यास्वा । साम्राज्याय सुक्रतुः । [१]
अस्मिन् मन्त्रे त्रिपदा गायत्री छन्दोऽस्ति, यस्य प्रत्येकस्मिन् पादे अष्टावाला क्षराणि भवन्ति, छन्दसः एतद् विज्ञापनं मन्त्राणामुच्चारणाय अत्यावश्यकमस्ति द्वितीये तृतीये च पादे आपाततः सप्तवाक्षराणि सन्ति । अतः एनमष्टपदा विरचना 'पस्त्याश्वा' इत्यस्योच्चारणं चतुरक्षरसमन्वितं भाव्यम् । तद्यथा-'पस्त्या-रामा 'साम्राज्य' इत्यस्याप्युच्चारणे पूर्वोक्तपद्धत्या 'साम्राजि आय' इति भविष्यति । अनेनैव प्रकारेण छन्दसः ज्ञानं मन्त्राणामुच्चारणायातीवावश्यकं भवति । छन्दको वेदाङ्गतायामेतदेव कारणमस्ति।
ज्यौतिषशास्त्रं प्रत्यक्षमस्ति । तथा चोक्तं- 'प्रत्यक्षं ज्यौतिष शास्त्रं चन्द्राको यत्र साक्षिणाविति' । एतच्छास्त्रं यज्ञ-यागस्य समुचितसमयस्य निर्देशं करोति ।
श्रौतयागस्यानुष्ठानं विशिष्टतौं कस्मिन्नपि विशिष्टे नक्षत्रे च भाव्यम् । विवाहादि गृह्यकर्मणे नक्षत्रज्ञानं ज्यौतिषशास्त्रादेव वयं लभामहे । अपरञ्च दीक्षाया विधान कर्मकाण्डस्य महत्त्वपूर्णो विषयः । अस्मिन् विषये कतिपयोदाहरणानि प्रस्तूयन्ते। यथा
तैत्तिरीयब्राह्मणस्य [२] कथनमस्ति यत् - 'कृत्तिकास्वग्निमादधीत', फाल्गुनीपूर्णिमायां दीक्षायाः विधानमस्ति । कथनस्याभिप्रायोऽयमस्ति यत्-कर्म काण्डीये प्रत्येकस्मिन् विधाने-नक्षत्रस्य, तिथेः, मासस्य संवत्सरस्य च ज्ञानमावश्यक कर्तव्यकोटिकञ्च भवति । एभिरुपयुक्तः कारणज्योतिषशास्त्रस्य वेदाङ्गत्वं सिद्धयति ।
अत्र सङ्क्षपेणतत्कथनं समुचितं प्रतिभाति यत्-मन्त्राणां यथोचितोच्चारणाय शिक्षायाः, कर्मकाण्डीय-यज्ञीययोरनुष्ठानाय विधिना कल्पस्य, शब्दस्वरूपव्युत्पत्त्यादीनां ज्ञानाय व्याकरणस्य, समुचितार्थज्ञानाय शब्दानां स्फोटनपूर्वक निर्वचनानिरुक्त्यै निरुक्तस्य, वैदिकछन्दसां सम्यग् ज्ञानाय छन्दसः, विविधानुष्ठानानां कालज्ञानाय ज्योतिषस्य, एतेषामङ्गानां यथार्थरूपेणोपयोगित्वात् 'वेदाङ्ग' इति कथयन्ति सार्व देशिकपण्डिताः ।
वेदाङ्गसाहित्यस्य प्रयोजनम्
सम्पादयतुवेदोऽस्माकं भारतीयानां धर्मस्याधारभूतः स्तम्भः। अतः सामाजिकाः जनाः एनमतिशयेनादरेण, सम्मानेन पावनेन दृष्टया चावलोकयन्ति । एतस्य महन्महत्त्वं को न विजानाति । यदा तर्ककुशलाः नयायिका अनुमानादीनामपि साहातान कत पारयन्ति यागादिना स्वर्गप्राप्तिविषये, तदा तेषां वेद एव शारी चोक्तम्
भूमिका 'प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुध्यते ।
एनं विदन्ति वेदेन तस्माद् वेदस्य वेदता' ।
अस्यैतादृशी विपुला प्रतिष्ठा तदुदयकालानन्तरमेव समस्ते विश्वे प्रसृता बभूव । वेदस्यकमप्यक्षरं पूतं ज्ञानवर्द्ध कञ्च मन्यते । तत्र परिवर्तनं स्वरूपतश्च्युतिर्वा महतेऽ पकाराय मन्यते स्म । एतादृश्यामवस्थायां वेदस्वरूपसंरक्षणायव वेदाङ्गस्योदयो बभूव । ऋते वेदाङ्गात् शब्दानामर्थानाञ्च संरक्षणमसम्भवमेवास्ति । अस्य सहयोगिनः साहित्यस्योदयः समुत्पत्तिर्वा-उपनिषत्काले एव सजाता। अस्मिन् विषये मुण्ड कोपनिषदेव प्रमाणम् । अवलोकयन्तु वेदविद्विद्वांसः [३]--
'शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ । कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति । तस्मै स होवाच । द्वे विधे वेदितव्ये इति ह स्म यद् ब्रह्म विदो वदन्ति परा चैवापरा च। तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः, शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति' ।
अपरञ्च–अपरा विद्यायां वेदचतुष्टयानन्तरं तेषां षडङ्गानां शिक्षा-कल्प व्याकरण-निरुक्त-छन्दो-ज्योतिषादीनां गणना विद्यते । एषु प्रत्येकस्य विपुलं वैशिष्टयं विद्यत इति न तिरोहितमस्ति विद्वन्मण्डले। अत एतेषामुपयोगिता सुतरामेव सिद्धा भवति । अस्य महतीमुपयोगितामवलोक्य महर्षिणा पाणिनिना पतञ्जलिना च स्वपाणिनीयशिक्षायां महाभाष्ये पस्पशाह्नि के च सत्यमेवोक्तं यत् -
'छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते ।
ज्योतिषामयनं चक्षुनिरुक्तं श्रोत्रमुच्यते ॥
शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।
तस्मात्साङ्गमधीत्यैव ब्रह्मलोके महीयते' ॥ [४]
'ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च'।[५]
इत्येताभ्यां सूच्यते यद् ब्रह्मलोकस्य प्राप्तिः षडङ्गानामध्ययनेनैव भवतीति पार लौकिकी स्थितिः, लोके तु सर्वविदितमेव महत्त्वम् । अतः कारणेन विनाप्यध्ययनस्या स्यैव वेदाङ्गस्य महनीयता वर्तते न त्वन्येषां लौकिकशास्त्राणाम् । एतेन वेदाङ्गस्य लौकिकी पारलौकिकी च स्थितिः सुस्पष्टा भवति ।
वेदाङ्गानां सन्दर्भाः
सम्पादयतुवेदाङ्गेषु व्याकरणं प्रमुखमस्ति । अस्य विवेचनं नारदपुराणस्य पूर्वभागस्य द्वितीयपादस्यकपञ्चाशत्तमेऽध्याये संक्षेपतया रमणीयतया चाभूत् । नारदपुराणस्य व्याकरणं कातन्त्रव्याकरणस्य सारभूतमस्ति, यं माहेश्वरमथवा कौमारं व्याकरणं कथयन्ति विद्वज्जनाः । अपि चाग्निपुराणस्य ३४९तमादध्यायात् ३५९तम-अध्याय-पर्यन्तं दशाधिकेष्वध्यायेषु व्याकरणशास्त्रस्य वर्णनं विद्यते। छन्दःशास्त्रस्याथवा पिङ्गलशास्त्रस्य वर्णनं गरुडपुराणस्य २०७तम-अध्यायात् २१२तमाध्यायपर्यन्तं, नारदपुराणस्य पूर्वभागस्य द्वितीयपादस्य सप्तपञ्चाशत्तमेऽध्याये वैदिकानां लौकिकानां च छन्दसां वर्णनमस्ति । अनेनैव प्रकारेण-अग्निपुराणस्य २२८तमाध्यायात् ३३५ तमाध्यायपर्यन्तं छन्दःशास्त्रस्य विशदं निरूपणं प्राप्यते । ज्योतिषशास्त्रस्याध्ययनाय नारदपुराणस्य विष्णुधर्मोत्तरस्य च विवेचनमतीव महत्त्वपूर्णमस्ति । नारदपुराणस्य त्रिष्वध्यायेषु ( १।२।५४-५६ ) त्रिस्कन्धज्योतिषस्य ( सिद्धान्तस्य संहितायाः होरायाश्च ) कमनीयं निरूपणमस्ति-यत् नारदीयं ज्यौतिषमिति नाम्ना विख्यात मस्ति । निरुक्तसम्बन्धिताः सामग्रयः पुराणेषु अत्यल्पाः सन्ति । नारदपुराणस्य पूर्वभागस्य द्वितीयपादस्य त्रिपञ्चाशत्तमेऽध्याये निरुक्तसम्बद्धाः कतिपयश्लोकाः प्राप्यन्ते, ये मुख्यतया व्याकरणशास्त्रस्य स्वरवैदिकप्रक्रियातो धातुप्रकरणाच्चाभिन्नाः प्रतीयन्ते ।
वेदादीनां पाठविधानस्य, स्वराणामुच्चारणविधेः, सामवेदस्य गान-प्रक्रियायाः वर्णानां स्पष्टोच्चारणस्य विधिर्यस्मिन् शास्त्रे वणिताः स्युः तच्छास्त्रं 'शिक्षाशास्त्रम्' कथ्यते । अस्य वर्णनं नारदपुराणस्य पूर्वभागस्य द्वितीयपादस्य पञ्चाशत्तमेऽध्याये प्रायः शतत्रयश्लोकेषु तथा चाग्निपुराणस्य ३३६तमेऽध्याये विद्यते। कल्पानां वर्णनन्तु प्रायः पुराणेषु विद्यमानं विद्यते । कल्पे वैदिकानां लौकिकानाञ्च कर्मकाण्डानां समन्व योऽस्ति, येषु श्रौतसूत्र-गृह्यसूत्र-स्मार्तसूत्र-शुल्वसूत्राणि चेमानि चत्वारि गृहीतानि भवन्ति । एषां वर्णनं भविष्यपुराणे सर्वाधिकमस्ति । येषु यज्ञस्य, इष्टापूर्तेः, संस्का रस्य च विधयो वणिताः सन्ति । तद्यथा च कल्पानां पञ्चभेदाः भवन्ति । तद्यथा –
(१) नक्षत्रकल्पः,
(२) वैतानकल्पः,
(३) संहिताविधानकल्पः,
( ४ ) आङ्गि रसकल्पः,
(५) शान्तिकल्पश्चेति ।
तत्र नक्षत्रकल्पे- यज्ञ-संस्कारादीनां कर्मणां मुहूर्तानाञ्च निर्णयो भवति । वैतानकल्पे यज्ञानां ( हविर्यज्ञ-सोमयज्ञ-पाकयज्ञानाम् ) साङ्गोपाङ्गविधिनिरूपिता विद्यते । संहिताकल्पे-विशेषतो वेदनिर्दिष्टानामश्वमेध राजसूयादियज्ञानां तद्भिन्नानाञ्चापि सर्वविधीनां सम्पादनप्रक्रिया प्राप्ता भवति । आङ्गिरसकल्पे शत्रुराष्ट्रेभ्यो मारणस्य, मोहनस्य, वशीकरणस्य उच्चाटनादि अभि चारकर्मणाञ्च निर्देशोऽस्ति । शान्तिकल्पे-दैव-अन्तरिक्ष-अद्भुतादि उत्पातानामीति भीत्यादिभयानां निवारणस्य; एवञ्च शत्रुराष्ट्रः कृत-मारणमोहनादिप्रयोगाणां शान्तिविधीनां वर्णनं विद्यते । इमे सर्वेऽपि विषयाः पुराणेषु विशेषतो भविष्ये, अग्नि पुराणे विष्णुधर्मोत्तरे च विस्तरेण प्राप्ता भवन्ति।
शिक्षाशास्त्रस्य इतिहासः
सम्पादयतुशिक्षाशास्त्रस्य इतिहासः प्रातिशाख्यात् आरभ्य अतीव विशालः दरीदृश्यते। अतः 'शिक्षा घ्राणं तु वेदस्य' योग्यम् एव उक्तम्। [शिक्ष भाव अ+टाप् = आ = शिक्षा ] वेदानां प्राणभूतेषु वेदाङ्गेषु शिक्षायाः प्राथमिकमेकं महत्त्वपूर्ण विशिष्टञ्च स्थानमस्ति । शिक्षेयं वेद-पुरुषस्य घ्राणमिति कथिताऽस्ति (शिक्षा घ्राणं तु वेदस्य)। येन प्रकारेण पुरुषः सर्वेषामङ्गानां यथाविधि विनिवेशितेऽपि मुखसौन्दर्यादिभिः परिपूष्टेऽपि घ्राणेन विना चमत्कृति न दधाति, गर्हणीयतामेव भजते तथैव वेद पुरुषस्य स्वरूपं वेदाङ्गेन शिक्षारूपघ्राणेन विना नितान्तमशोभनं विकृताकारं वा परिलक्ष्यते।
शिक्षाया व्युत्पत्तिलभ्यमर्थं व्युत्पादयन् वेदभाष्यकारा: सायणाचार्याः कथयन्ति यत्— 'स्वरवर्णाधुच्चारणप्रकारो यत्र शिक्ष्यते उपदिश्यते सा शिक्षा' इति । एतेनेद मायातं यत्-वेदाङ्गेषु तच्छास्त्रं शिक्षा नाम येन ऋग्वेदादि वेदमन्त्राणामविकलं यथास्थित्युच्चारणं विशुद्धञ्च स्यादिति । अस्मात्कारणादेव सुविज्ञा विद्वांसः कथयन्ति यत्-शिक्षाशास्त्रमिदं वेदाङ्गमिति ।
कल्पशास्त्रस्य इतिहासः
सम्पादयतुकल्पशास्त्रस्य इतिहासः कल्पसूत्राणां विस्तारेण ज्ञानं प्रयच्छति। हस्तौ कल्पोऽथ पठ्यते विपूले वेदाङ्गसाहित्ये कल्पस्य द्वितीयं स्थानमस्ति । क्वचिच्चेतिहासे तीन स्थाने कल्पितोऽयं कल्पः । एष शब्दः कमपि विशिष्टमर्थं व्यनक्ति प्रतिपादयति वात अत एव कल्पस्य वैदिकसाहित्येऽतिशयं महत्त्वपूर्ण स्थानमस्ति । कल्पप्रयोजनीयताया आवश्यकता तदा अनुभूता, यदा शतपथादिब्राह्मणग्रन्थेषु यज्ञ-यागादीनां कर्मकाण्डीय. व्यवस्थायां विस्तृततया तद्व्यवहारे काठिन्यस्यानुभूतिर्जायते स्म। तत्पूत्यै च | कल्पसूत्राणां प्रतिशाखायां रचना सुसम्पन्ना। तद्युगस्य प्रवर्तितं पद्धत्यनुरूपं तद्रचना सूत्रात्मिकाऽभूत् । ऋग्वेदप्रातिशाख्ये वर्गद्वयवृत्तौ कल्पविषये कथितमस्ति यत् 'कल्पो वेदविहितानां कर्मणामानुपूर्वेण कल्पना शास्त्रम्' । अत्रायं निष्कर्षो विद्यते यत् येषां यज्ञयागादिविहितानां विवाहोपनयनादिकर्मणाञ्च महत्त्वपूर्ण प्रतिपादनं वैदिक ग्रन्थेषु कृतमस्ति तेषां सूत्रग्रन्थानामभिधानमस्ति कल्पः ।
व्याकरणशास्त्रस्य इतिहासः
सम्पादयतुव्याकरणशास्त्रस्य इतिहासः अष्ठाध्याय्याः अपि पुरातनः अस्ति। ( मुखं व्याकरणं स्मृतम्) विदन्ति विद्वांसो यद्वेदाश्चत्वारो भवन्ति । यथा कस्यापि शरीरधारिणः पुरुषस्य विभिन्नान्यङ्गानि भवन्ति तद्वत् वेदपुरुषस्याप्यङ्गानि सन्ति । अङ्गानि संयोज्यव पुरुषाकृतिनिर्मीयते । तद्वत् वेदस्य वेदानां वा षडङ्गानि मुख्यानि भवन्ति । तेषु षडङ्गेषु व्याकरणं तृतीयमङ्गमस्ति । तच्च वेदपुरुषस्य प्रधानतममङ्गं मुखमस्ति 'मुखं व्याकरणं स्मृतमिति निर्देशात् । मुखरूपत्वादस्य शास्त्रस्य मुख्यत्वं स्वयमेव सिद्धं भवति ।
निरुक्तशास्त्रस्य इतिहासः
सम्पादयतुनिरुक्तशास्त्रं व्याकरणस्य सहायकं शास्त्रं भवति। (निरुक्तं श्रोत्रमुच्यते) षट्सु वेदाङ्गेषु निरुक्तं चतुर्थस्थानं भजते । तच्च वेदपुरुषस्य श्रोत्रमुच्यते । निरुक्तं श्रोत्रमुच्यते' इति पाणिनीय शिक्षायांस पष्टमुद्घोपितम् । अस्मिन् विपये वेदभाष्यकाराः सायणाचार्याः स्वचतुर्वेदभाष्यभूमिकायां कथयन्ति यत्- 'अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तं तन्निरुक्तम्' इति । निरुक्तस्य शाब्दिकीनिरुक्तिरेव भविष्यति--नि:शेपादुक्तमिति निरुक्तम् । अतो यदि शिक्षादीनि वेदाङ्गानि वेदस्य बाह्यानि तत्त्वानि निरूपयन्ति तदा निरुक्तं वेदविज्ञानस्यान्तरिक स्वरूपं स्पष्टतः उद्घाटयति । एतदपि अस्य वैशिष्टयं विद्यते यदन्यानि वेदाङ्गानि प्रायो विभिन्नेषु सूत्रेषु लिखितानि सन्ति, इदञ्च निरुक्तं गद्यशैली भजते ।
छन्दश्शास्त्रस्य इतिहासः
सम्पादयतुछन्दश्शास्त्रस्य इतिहासः वेदानाम् ऋचाभ्यः आरभ्य अनन्तं यावत् गच्छति। (छन्दः पादौ तु वेदस्य) छन्दो वेदस्य पञ्चममङ्गमस्ति । पाणिनीयशिक्षायां कथितमस्ति यत् 'छन्दः । तु वेदस्य' यथा कोऽपि मनुष्य: पादाभ्यां प्रचलति तद्वत् वेदपुरुषस्य पादौ छन्दांकि पादेन हीनो जनः खञ्जः कथ्यते तथैव छन्दोभ्यो हीनो वेदपुरुषः खञ्ज एव । अर वेदाध्ययने छन्दसां ज्ञानमावश्यकं भवति ।
ज्यौतिषशास्त्रस्य विकासक्रमः
सम्पादयतुज्योतिषशास्त्रस्य विकासक्रमः ग्रहाणां विज्ञानिकतायाः इतिहासः एव। (ज्योतिषामयनं चक्षुः) शास्त्रमर्मज्ञाः विद्वांसो विदन्ति यत् पड् वेदाङ्गेषु ज्योतिषं चरमं वेदाङ्गमस्ति । यथा वेदपुरुषस्य व्याकरणं मुखमस्ति तद्वत् ज्योतिपं नयनं स्मृतम । नेवाश्यांना यथा कोऽपि मानवः स्वयमेव पदात्पदमपि चलितुं न शक्नोति तद्वत ज्योतिषशा विना वेदपूरुषस्यान्धता समापतिष्यति । वेदस्य प्रवृत्तिविशेपेण यज्ञसम्पादनाय भवति । यज्ञस्य च विधानं विशिष्ट कालानामपेक्षां स्थापयति ।