व्याघ्रपादः प्रचीनभारतस्य ऋषिषु अन्यतमः ।

शार्दूल​पदैः​ व्याघ्रपादः सर्पपादैः पतञ्जलिः च​ अभिवादयन्तं नटराजम्।

सम्प्रदायः सम्पादयतु

व्याघ्रपादः नामा एकः ऋषिः आसीत् इति कथा वर्तते। भारतस्य तमिळनाडुराज्ये चिदम्बरक्षेत्रे विद्यमाने देवालये शिवरुपस्य नटराजस्य​ पूजार्थं मधुमक्षिकाभिः अपि अस्पृष्टानि नूतनानि पुष्पाणि चेतुं तस्मै निवेदितमासीत्। यदा व्याघ्रपादः पुष्पाणि चिनोति स्म तदा कण्टकैः विषमप्रदेशेन च तस्य व्रणः जायते स्म। शिवः तस्मै व्याघ्रस्य पादान् प्रदाय अनुग्रहं कृतवान् च। व्याघ्रस्य पादान् लब्ध्वा सः ऋिषिः सरलतया सर्वत्र गच्छति स्म। अपि च कठिनान् वृक्षानपि आरुह्य मधुमक्षिकाभिः अपि अस्पृष्टानि नूतनानि पुष्पाणि चिनोति स्म।

व्याघ्रपादः केरलराज्ये वैकोम् इति प्रदेशे विद्यमानस्य शिवदेवालस्य स्थापकः इति विश्वासः वर्तते।

मूर्तिविवरणम् सम्पादयतु

तस्य चित्रं मूर्तिविवरणं च चित्रयति यत् सः व्याघ्रपादैः युक्तः मनुष्यः। तस्य व्याघ्रवत् पुच्छः अपि चित्रयति। नटराजरूपं शिवम् अभिवादयन् सः पतञ्जलिना साकं वर्णितः।

तमिळनाडुराज्ये स्थलसयनपेरुमाळ् इति विष्णुदेवालयं व्याघ्रपादः पतञ्जलिना सह गत्वा श्रीरङ्गस्य रङ्गनाथरूपेण विष्णोः दर्शनं प्राप्तवानिति कथा वर्तते।

अपि पश्यन्तु सम्पादयतु

उल्लेखाः सम्पादयतु


फलकम्:Hindu-myth-stub

"https://sa.wikipedia.org/w/index.php?title=व्याघ्रपादः&oldid=463861" इत्यस्माद् प्रतिप्राप्तम्