शहडोलमण्डलम्

(शहडोलमण्डल इत्यस्मात् पुनर्निर्दिष्टम्)

शहडोलमण्डलम् ( /ˈʃəhədləməndələm/) (हिन्दी: शहडोल जिला, आङ्ग्ल: Shahdol district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य शहडोलविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति शहडोल इति नगरम् ।

शहडोलमण्डलम्

Shahdol District
शहडोल जिला
शहडोलमण्डलम्
शहडोलमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे शहडोलमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे शहडोलमण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि जयसिंहनगर, ब्यौहरी, सोहागपुर
विस्तारः ६,२०५ च. कि. मी.
जनसङ्ख्या (२०११) १०,६६,०६३
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ६६.६७%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४८.५%
Website http://shahdol.nic.in/

भौगोलिकम् सम्पादयतु

शहडोलमण्डलस्य विस्तारः ६,२०५ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे छत्तीसगढराज्यं, पश्चिमे उमरियामण्डलम्, उत्तरे सतनामण्डलं, दक्षिणे अनूपपुरमण्डलम् अस्ति । अस्मिन् मण्डले सोननदी प्रवहति ।

जनसङ्ख्या सम्पादयतु

२०११ जनगणनानुगुणं शहडोलमण्डलस्य जनसङ्ख्या १०,६६,०६३ अस्ति । अत्र ५,४०,०२१ पुरुषाः, ५,२६,०४२ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १७२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १७२ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ६६.६७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७४ अस्ति । अत्र साक्षरता ६६.६७% अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि- जयसिंहनगर, ब्यौहरी, सोहागपुर ।

कृषिः वाणिज्यं च सम्पादयतु

अस्मिन् मण्डले अङ्गारः, श्वेतशैलाः उत्पद्यन्ते ।

वीक्षणीयस्थलानि सम्पादयतु

विराटेश्वर-मन्दिरम् सम्पादयतु

विराटेश्वर-मन्दिरं सोहागपुर-ग्रामे स्थितम् अस्ति । अस्मिन् मन्दिरे भगवतः शिवस्य भव्यं लिङ्गमस्ति । अस्य मन्दिरस्य निर्माणं राज्ञा युवराजदेवेन ई. ९५० तः १०५० पर्यन्तं कारितम् । अस्य मन्दिरस्य उच्चता ७० फीट अस्ति । एतत् प्राचीनवास्तुकलायाः महत्वपूर्णोदाहरणम् अस्ति । अस्मिन् मन्दिरे अनेकानां देवानां प्रतिमाः सन्ति । यथा – महावीरः, शिवः, पार्वती, सरस्वती, गणेशः, विष्णुः, नरसिंहः इत्यादयः ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

http://shahdol.nic.in/
http://www.census2011.co.in/census/district/327-shahdol.html

"https://sa.wikipedia.org/w/index.php?title=शहडोलमण्डलम्&oldid=463994" इत्यस्माद् प्रतिप्राप्तम्