शारदालिपिः (शारदा - 𑆯𑆳𑆫𑆢𑆳 वा 𑆯𑆳𑆫𑆢𑆳 𑆬𑆴𑆥𑆴, Śāradā script) कश्मीरप्रदेशस्य एका पुरातनी लिपिः । इयं च लिपिः प्राचीनब्राह्मीलिपेः परिवृत्तं रूपम् ।

शारदालिपिः
𑆯𑆳𑆫𑆢𑆳
शारदालिपिना लिखितभूर्जपत्रमातृका(Birch bark manuscript):'उत्पत्तिप्रकरणम्' इति
प्रकारः अबुगिडा लेखनप्रकारः
भाषा(ः) संस्कृतम्, कश्मीरीभाषा
स्थितिकालः प्रायः क्रैस्तवीय ६००तः १८०० शतकम्
जननस्रोतः
जन्यलिपयः गुरुमुखीलिपिः, टाकरीलिपिः, लहान्दा
समकालीनलिपिः नागरीलिपिः, सिद्धमातृकालिपिः
लेखनगतिः वर्णानां वामतो गतिः
युनिकोड सूची Unicode.org chart

परिचयः सम्पादयतु

शारदालिपेः उपयोगः भारतीय-उपमहाद्वीपस्य उत्तरपश्चिमप्रदेशपर्यन्तं सीमितः आसीत् । शारदालिपेः उद्भवकालः प्रायः क्रैस्तवीय तृतीयशतके अभूत् । क्रैस्तवीय नवशतकतः पञ्चदशशतकपर्यन्तम् अस्याः लिपेः स्वर्णयुगः आसीत् । चीनदेशीयपर्याटकः 'अल् बरुणी' स्वभारतभ्रमणविषयकग्रन्थे अस्याः लिपेर्नाम सिद्धमातृका इति उल्लिखितवान् । अस्य कारणमासीत् शारदावर्णमालायाः प्रारम्भः सर्वदा "ओम् स्वस्ति सिद्धम्" इति लेखनपश्चात् एव भवति । कश्मीरप्रदेशस्य अधिष्ठात्री देवी 'शारदा' ततः प्रदेशस्य नाम 'शारदादेशः' 'शारदमण्डलम्' वा उच्यते स्म । वस्तुतः शारदादेशे उयुज्यमाना लिपिः 'शारदा' नामप्राप्ता इति विद्वज्जनमतम् । पञ्चदशशतकानन्तरं शारदालिपेः प्रयोगः बहुन्यूनः अभवत् । नागरी-गुरुमुखी-टाकरीलिपीणां जननस्रोतः एषा एव लिपिः ।

वर्णमाला सम्पादयतु

स्वरवर्णाः सम्पादयतु

  a अ   i इ   u उ       e ए   o ओ
  ā आ   ī ई   ū ऊ     ai ऐ   au औ
  aṃ अं   aḥ अः

व्यञ्जनवर्णाः सम्पादयतु

  k क   kh ख   g ग   gh घ  
  c च   ch छ   j ज   jh झ   ñ ञ
    ṭh     ḍh  
  t त   th थ   d द   dh ध   n न
  p प   ph फ   b ब   bh भ   m म
  y य   r र   l ल   v व
  ś श     s स   h ह

लिपेरुत्पत्तिः सम्पादयतु

दक्षिण-एशियाभूखण्डस्य हिमालयपार्वत्यप्रदेशस्य प्राचीनलिपिषु 'शारदा' अतीव समादृता । उत्तरब्राह्मीलिपितः अस्याः लिपेर्जन्म जातम् इति विदुषां मतम् । एषा लिपिः बहुषु देशेषु (पाकिस्ताने,अफगानिस्ताने, कज़ाकिस्ताने अपि) प्रचलिता आसीत् । शारदालिपिना रचिताः बहुपाण्डुलिपयः विभिन्नदेशेषु विद्यन्ते । शारदालिपिना रचितमातृकानां सम्पादनतः तथा शिलालेखोद्धारतः हिमालयप्रदेशस्य संस्कृतिः इतिहासश्च इतोपि सुस्पष्टतया ज्ञायते ।

विस्तारः गुरुत्वञ्च सम्पादयतु

काबुलप्रदेशे (वर्तमाने अफगानिस्ताने) प्राप्तशिलालेखतः प्रसिद्धस्य हिन्दुराजवंशस्य विषये ज्ञायते । 'ओहिन्द'-'गिल्गिट्' राजवंशयोः इतिहासोऽपि अस्याः लिपेः आविष्करणानन्तरं ज्ञातः । क्रैस्तवीय नवमशतकानन्तरवर्तीकाले भाषासाहित्ये तथा विविधशास्त्रेषु कश्मीरप्रदेशः मूर्धनीरूपेण स्थितः आसीत् एवं बह्व्यः कृतयः अनया लिपिना रचिताः आसन् । न तु केवलं शास्त्रकृतयः राजाभिलेखा-राजमुद्रास्वपि शारदालिपेः प्रयोगः आसीत् । एतादृशानि गूढकारणानि अस्याः लिपेः सूक्ष्माध्ययनं प्रति शोधकर्तारं प्रेरयति । प्राचीनब्राह्मी तथा खरोष्ठीलिपिसदृशः अस्याः लिपेर्कालः प्रारम्भिकमध्ययुगे आसीत् । प्राचीनयुगतः मध्ययुगीय-सामाजिकपरिवर्तनकाले एषा लिपिः संयोगसूत्ररूपेण स्थिता । तदानीन्तनस्य हिमालयप्रदेशस्य साहित्य-संस्कृतेः वाहिका एषा एव लिपिः आसीत् । दौर्भाग्यवशतः क्रैस्तवीय पञ्चदश-शतकानन्तरवर्तीकाले एषा गुरुत्वपूर्णा लिपिः लुप्ता जाता ।

प्रतिनिधिलिपयः सम्पादयतु

ब्राह्मीलिपिः प्राचीनभारतस्य राष्ट्रियलिपिरासीत् । एषा लिपिः समयावर्तनेन सह बहुपरिवर्तनस्य स्तराणाम् अतिक्रमणं कृतवती । शारदालिपेरपि विकृतयः आगतासीत् ततः पृथक् लिपीनां जननम् अभवत् । शारदालिपेः प्रतिनिधिलिपयः यथा- नागरीलिपिः, बाङ्गलालिपिः, ओडियालिपिः, माराठीलिपिः इत्याद्याः । वस्तुतः एताः लिपयः उत्तरब्राह्मीतः विकासिताः आसन् ।

शारदालिपेः निदार्शनानि सम्पादयतु

शारदालिपेः यूनिकोड संङ्केतः सम्पादयतु

शारदालिपिः
Unicode.org chart (PDF)
  0 1 2 3 4 5 6 7 8 9 A B C D E F
U+1118x 𑆀 𑆁 𑆂 𑆃 𑆄 𑆅 𑆆 𑆇 𑆈 𑆉 𑆊 𑆋 𑆌 𑆍 𑆎 𑆏
U+1119x 𑆐 𑆑 𑆒 𑆓 𑆔 𑆕 𑆖 𑆗 𑆘 𑆙 𑆚 𑆛 𑆜 𑆝 𑆞 𑆟
U+111Ax 𑆠 𑆡 𑆢 𑆣 𑆤 𑆥 𑆦 𑆧 𑆨 𑆩 𑆪 𑆫 𑆬 𑆭 𑆮 𑆯
U+111Bx 𑆰 𑆱 𑆲 𑆳 𑆴 𑆵 𑆶 𑆷 𑆸 𑆹 𑆺 𑆻 𑆼 𑆽 𑆾 𑆿
U+111Cx 𑇀 𑇁 𑇂 𑇃 𑇄 𑇅 𑇆 𑇇 𑇈
U+111Dx 𑇐 𑇑 𑇒 𑇓 𑇔 𑇕 𑇖 𑇗 𑇘 𑇙
टिप्पणी
१.^ यूनिकोड संस्करणम् ६.१
"https://sa.wikipedia.org/w/index.php?title=शारदालिपिः&oldid=466537" इत्यस्माद् प्रतिप्राप्तम्