शारदालिपिः
शारदालिपिः (शारदा - 𑆯𑆳𑆫𑆢𑆳 वा 𑆯𑆳𑆫𑆢𑆳 𑆬𑆴𑆥𑆴, Śāradā script) कश्मीरप्रदेशस्य एका पुरातनी लिपिः । इयं च लिपिः प्राचीनब्राह्मीलिपेः परिवृत्तं रूपम् ।
शारदालिपिः 𑆯𑆳𑆫𑆢𑆳 | |
---|---|
शारदालिपिना लिखितभूर्जपत्रमातृका(Birch bark manuscript):'उत्पत्तिप्रकरणम्' इति | |
प्रकारः | अबुगिडा लेखनप्रकारः |
भाषा(ः) | संस्कृतम्, कश्मीरीभाषा |
स्थितिकालः | प्रायः क्रैस्तवीय ६००तः १८०० शतकम् |
जननस्रोतः |
ब्राह्मीलिपिः
|
जन्यलिपयः | गुरुमुखीलिपिः, टाकरीलिपिः, लहान्दा |
समकालीनलिपिः | नागरीलिपिः, सिद्धमातृकालिपिः |
लेखनगतिः | वर्णानां वामतो गतिः |
युनिकोड सूची | Unicode.org chart |
परिचयः
सम्पादयतुशारदालिपेः उपयोगः भारतीय-उपमहाद्वीपस्य उत्तरपश्चिमप्रदेशपर्यन्तं सीमितः आसीत् । शारदालिपेः उद्भवकालः प्रायः क्रैस्तवीय तृतीयशतके अभूत् । क्रैस्तवीय नवशतकतः पञ्चदशशतकपर्यन्तम् अस्याः लिपेः स्वर्णयुगः आसीत् । चीनदेशीयपर्याटकः 'अल् बरुणी' स्वभारतभ्रमणविषयकग्रन्थे अस्याः लिपेर्नाम सिद्धमातृका इति उल्लिखितवान् । अस्य कारणमासीत् शारदावर्णमालायाः प्रारम्भः सर्वदा "ओम् स्वस्ति सिद्धम्" इति लेखनपश्चात् एव भवति । कश्मीरप्रदेशस्य अधिष्ठात्री देवी 'शारदा' ततः प्रदेशस्य नाम 'शारदादेशः' 'शारदमण्डलम्' वा उच्यते स्म । वस्तुतः शारदादेशे उयुज्यमाना लिपिः 'शारदा' नामप्राप्ता इति विद्वज्जनमतम् । पञ्चदशशतकानन्तरं शारदालिपेः प्रयोगः बहुन्यूनः अभवत् । नागरी-गुरुमुखी-टाकरीलिपीणां जननस्रोतः एषा एव लिपिः ।
वर्णमाला
सम्पादयतुस्वरवर्णाः
सम्पादयतुa अ | i इ | u उ | ṛ ऋ | ḷ ऌ | e ए | o ओ |
ā आ | ī ई | ū ऊ | ṝ ॠ | ai ऐ | au औ |
aṃ अं | aḥ अः |
व्यञ्जनवर्णाः
सम्पादयतुk क | kh ख | g ग | gh घ | ṅ ङ |
c च | ch छ | j ज | jh झ | ñ ञ |
ṭ ट | ṭh ठ | ḍ ड | ḍh ढ | ṇ ण |
t त | th थ | d द | dh ध | n न |
p प | ph फ | b ब | bh भ | m म |
y य | r र | l ल | v व | |
ś श | ṣ ष | s स | h ह |
लिपेरुत्पत्तिः
सम्पादयतुदक्षिण-एशियाभूखण्डस्य हिमालयपार्वत्यप्रदेशस्य प्राचीनलिपिषु 'शारदा' अतीव समादृता । उत्तरब्राह्मीलिपितः अस्याः लिपेर्जन्म जातम् इति विदुषां मतम् । एषा लिपिः बहुषु देशेषु (पाकिस्ताने,अफगानिस्ताने, कज़ाकिस्ताने अपि) प्रचलिता आसीत् । शारदालिपिना रचिताः बहुपाण्डुलिपयः विभिन्नदेशेषु विद्यन्ते । शारदालिपिना रचितमातृकानां सम्पादनतः तथा शिलालेखोद्धारतः हिमालयप्रदेशस्य संस्कृतिः इतिहासश्च इतोपि सुस्पष्टतया ज्ञायते ।
विस्तारः गुरुत्वञ्च
सम्पादयतुकाबुलप्रदेशे (वर्तमाने अफगानिस्ताने) प्राप्तशिलालेखतः प्रसिद्धस्य हिन्दुराजवंशस्य विषये ज्ञायते । 'ओहिन्द'-'गिल्गिट्' राजवंशयोः इतिहासोऽपि अस्याः लिपेः आविष्करणानन्तरं ज्ञातः । क्रैस्तवीय नवमशतकानन्तरवर्तीकाले भाषासाहित्ये तथा विविधशास्त्रेषु कश्मीरप्रदेशः मूर्धनीरूपेण स्थितः आसीत् एवं बह्व्यः कृतयः अनया लिपिना रचिताः आसन् । न तु केवलं शास्त्रकृतयः राजाभिलेखा-राजमुद्रास्वपि शारदालिपेः प्रयोगः आसीत् । एतादृशानि गूढकारणानि अस्याः लिपेः सूक्ष्माध्ययनं प्रति शोधकर्तारं प्रेरयति । प्राचीनब्राह्मी तथा खरोष्ठीलिपिसदृशः अस्याः लिपेर्कालः प्रारम्भिकमध्ययुगे आसीत् । प्राचीनयुगतः मध्ययुगीय-सामाजिकपरिवर्तनकाले एषा लिपिः संयोगसूत्ररूपेण स्थिता । तदानीन्तनस्य हिमालयप्रदेशस्य साहित्य-संस्कृतेः वाहिका एषा एव लिपिः आसीत् । दौर्भाग्यवशतः क्रैस्तवीय पञ्चदश-शतकानन्तरवर्तीकाले एषा गुरुत्वपूर्णा लिपिः लुप्ता जाता ।
प्रतिनिधिलिपयः
सम्पादयतुब्राह्मीलिपिः प्राचीनभारतस्य राष्ट्रियलिपिरासीत् । एषा लिपिः समयावर्तनेन सह बहुपरिवर्तनस्य स्तराणाम् अतिक्रमणं कृतवती । शारदालिपेरपि विकृतयः आगतासीत् ततः पृथक् लिपीनां जननम् अभवत् । शारदालिपेः प्रतिनिधिलिपयः यथा- नागरीलिपिः, बाङ्गलालिपिः, ओडियालिपिः, माराठीलिपिः इत्याद्याः । वस्तुतः एताः लिपयः उत्तरब्राह्मीतः विकासिताः आसन् ।
शारदालिपेः निदार्शनानि
सम्पादयतुशारदालिपेः यूनिकोड संङ्केतः
सम्पादयतुशारदालिपिः Unicode.org chart (PDF) | ||||||||||||||||
0 | 1 | 2 | 3 | 4 | 5 | 6 | 7 | 8 | 9 | A | B | C | D | E | F | |
U+1118x | 𑆀 | 𑆁 | 𑆂 | 𑆃 | 𑆄 | 𑆅 | 𑆆 | 𑆇 | 𑆈 | 𑆉 | 𑆊 | 𑆋 | 𑆌 | 𑆍 | 𑆎 | 𑆏 |
U+1119x | 𑆐 | 𑆑 | 𑆒 | 𑆓 | 𑆔 | 𑆕 | 𑆖 | 𑆗 | 𑆘 | 𑆙 | 𑆚 | 𑆛 | 𑆜 | 𑆝 | 𑆞 | 𑆟 |
U+111Ax | 𑆠 | 𑆡 | 𑆢 | 𑆣 | 𑆤 | 𑆥 | 𑆦 | 𑆧 | 𑆨 | 𑆩 | 𑆪 | 𑆫 | 𑆬 | 𑆭 | 𑆮 | 𑆯 |
U+111Bx | 𑆰 | 𑆱 | 𑆲 | 𑆳 | 𑆴 | 𑆵 | 𑆶 | 𑆷 | 𑆸 | 𑆹 | 𑆺 | 𑆻 | 𑆼 | 𑆽 | 𑆾 | 𑆿 |
U+111Cx | 𑇀 | 𑇁 | 𑇂 | 𑇃 | 𑇄 | 𑇅 | 𑇆 | 𑇇 | 𑇈 | |||||||
U+111Dx | 𑇐 | 𑇑 | 𑇒 | 𑇓 | 𑇔 | 𑇕 | 𑇖 | 𑇗 | 𑇘 | 𑇙 | ||||||
टिप्पणी
|