गर्गः
Native name गर्गः
अपत्यानि गार्ग्यः
पितरौ भरद्वाजः (पिता)
सुशीला (माता)
सम्बन्धिनः द्रोणः (सोदरः)
इल्विदा (सोदरी)
कात्यायनी (सोदरी)

गर्गः प्राचीनभारतस्य प्रसिद्धः वैदिकऋषिः। अयं आयुर्वेदस्यापि प्रमुखः ऋषिः वर्तते। गर्गसंहिता इति ज्यौतिषग्रन्थं च अरचयत्। ज्यौतिषस्य अष्टादशसु प्रमुखग्रन्थकर्तृषु अयम् अन्यतमः इति उल्लेखः वर्तते[]

जन्म जीवनं च

सम्पादयतु

गर्गः ऋग्वेदस्य प्रमुखऋषिषु अन्यतमस्य भरद्वाजस्य पुत्रः। गर्गस्य माता सुशीला। इयं सुशीला क्षत्रिया स्त्री आसीत्। अतः गर्गः बाल्यादेव ब्राह्मणस्य क्षत्रियस्य च गुणान् आवहति स्म। विष्णुपुराणानुसारं भरद्वाजः कदाचित् घृताची नाम्न्याम् अप्सरसि अनुरक्तः सन् द्रोणः इति पुत्रम् अवाप[]। अतः द्रोणः गर्गस्य सोदरः। इल्विदा(देववर्णिनी) एवं कात्यायनी इति गर्गस्य सोदर्यौ। इल्विदा विश्रवसं कात्यायनी याज्ञवल्क्यं च परिणीतवती।

महाभारते द्रोणाचार्यस्य उल्लेखः बहुधा वर्तते। भरद्वाजः द्रोणाचार्यं शस्त्रविद्याम् अपाठयत्। शस्त्रविद्यायां निपुणतासम्पादनायै तं परशुरामस्य गुरुकुलम् अप्रेषयत् च। एतेन द्रोणः शस्त्रविद्यायां निपुणः सञ्जातः। कौरवाणां पाण्डवानां च अस्त्रविद्यागुरुः च अभवत्। परन्तु गर्गः शस्त्रविद्यां जानन्नपि ब्राह्मणसक्य कर्मसु अवधानम् अददात्। वेदान् पठित्वा साधनामार्गे प्रवृत्तः।[] गर्गस्य पत्न्याः नामोल्लेखः स्पष्टतया क्वापि न दृश्यते। परन्तु गार्ग्यः गर्गस्य पुत्रः वर्तते। अयमेव गार्ग्यः अथर्ववेदस्य अनेकेषां सूक्तानां द्रष्टा। गार्ग्यस्य पुत्रः एव कालयवनः।

योगदानानि

सम्पादयतु

ज्यौतिषं वेदस्य षट्सु अङ्गेषु अन्यतम्। एतस्य ज्यौतिःशास्त्रस्य आद्येषु प्रवर्तकेषु गर्गोऽपि अन्यतमः। प्राचीनज्यौतिःशास्त्रस्य नैके ग्रन्थाः प्रसिद्धाः विद्यन्ते। तत्र नारदसंहिता, गर्गसंहिता, भृगुसंहिता, अरुणसंहिता, रामणसंहिता, वराहिसंहिता इत्यादयः ग्रन्थाः प्रसिद्धाः। एतेषु गर्गसंहिता भिन्नराशिः इत्यस्याः गणितप्रक्रियायाः प्रतिपादिका वर्तते। अत्र षड् भिन्नराशयः प्रस्तुताः[]। गर्गपुराणम् अपि ज्यौतिषसम्बद्धः एव ग्रन्थः विद्यते। तत्र ज्यौतिषप्रक्रियानां विस्तृतं विवरणं दृश्यते।

वास्तुशास्त्रे अपि गर्गस्य योगदानं विद्यते। सः सप्तविंशतिसङ्ख्यकानि नक्षत्राणि सन्तीति प्रथमं प्रत्यपादयत्। कृ्त्तिकानक्षत्रस्य प्रथमोल्लेखः गर्गेण कृतः। परन्तु कृत्तिका नक्षत्रमेव नक्षत्राणाम् आवल्यां सर्वप्रथमं इति तेन प्रतिपादितम्। अन्ये ज्यौतिषिकाः तु नक्षत्राणां गणनाम् अश्विनीनक्षत्रतः आरभन्ते।[उद्धरणं वाञ्छितम्]

गर्गः कृष्णश्च

सम्पादयतु

गर्गसंहितायां केवलस्य ज्यौतिःशास्त्रस्य विषयः एव न प्रतिपादितः। अपि च कृष्णभक्तिरपि उत्कृष्टरूपेण प्रकाशिता वर्तते। कृष्णस्य विषये विस्तृतं विवरणं ग्रन्थे विद्यते। भगवतः विष्णोः अष्टमः अवतारः कृष्णः इति अत्र प्रतिपादितम्। कृष्णस्य अग्रजरूपेण बलरामस्य अपि उल्लेखः ग्रन्थे कृतः वर्तते।[]

वसुदेवः यदा कंसस्य कारागारे बद्धः आसीत् तदानीं गर्गम् अस्मरत्। गोकुलं गत्वा नन्दस्य गृहे वर्धमानः कृष्णः सकृत् द्रष्टव्यः इति प्रार्थयत। गर्गः नन्दगोकुलं गत्वा कृष्णस्य दर्शनम् अकरोत्। नन्दः गर्गं स्वागतीकृत्य नूतनयोः बालकयोः नाम करणीयम् इति तम् अयाचत। गर्गः यशोदापुत्रं कृष्ण इति, रोहिणीपुत्रं बलराम इति च नाम्ना समाह्वयत्। गर्गः उभयोः पुत्रयोः महदौन्नत्यं भविष्यति इति भविष्यमपि अकथयत्। तथा च कृष्णस्य वधार्थं बहुविधाः प्रयासाः प्रवर्तिष्यन्ते। तस्मात् कृष्णः रक्षणीयः इति सूचनामपि पितृभ्याम् अददात् [उद्धरणं वाञ्छितम्]

इतरत्र उल्लेखाः

सम्पादयतु

उत्तराखण्डराज्ये पडुखोलीवनप्रदेशेषु वहन्ती गागानदी गर्गमहर्षेः कारणतः इदं नाम प्राप्तवती। रामगङ्गायां सङ्गमात् प्राक् अस्याः नद्याः चतुर्दशधाराः ५० किलोमीटर् परिमिते प्रदेशे वहन्ति। उत्तराखण्डराज्यस्य दुनागिरी इति प्रदेशे गर्गमहर्षेः आश्रमः आसीत्।

उल्लेखाः

सम्पादयतु
  1. "Rishi Garga - The origin of Garga Brahmin Gotra". आह्रियत 10 January 2015. 
  2. "The Early Life of Drona". ApamNapat. आह्रियत 21 October 2004. 
  3. Kisari Mohan Ganguli. "The Mahabharata". Sacred texts. 
  4. गर्गसंहिता (विकिस्रोतः)
  5. "Garg Muni". Sagarworld. आह्रियत 25 June 2018.