विष्णुः

(Vishnu इत्यस्मात् पुनर्निर्दिष्टम्)

विष्णुः सनातनधर्मस्य मुख्यदेवतासु अन्यतमः अस्ति, यः नारायणः हरिः इति अपि प्रसिद्धः अस्ति। समकालीनहिन्दुधर्मस्य अन्तः प्रमुखपरम्परासु अन्यतमस्य वैष्णववादस्य अन्तः सः सर्वोच्चः अस्ति।

विष्णु:
  • रक्षणस्य देवः
  • धर्मस्य रक्षकः
  • कर्म दाता
  • परब्रह्म
  • सृष्टेः रक्षकः
Member of त्रिमूर्ति:
भगवान विष्णु:
अन्यनामानि
  • हरि
  • नारायण
  • माधव
  • केशव
  • अच्युत
  • जनार्दन
सम्बन्धः
  • त्रिमूर्ति:
  • ईश्वर
  • ब्रह्म
  • परब्रह्म
  • दशावतार
गृहाणि
  • बैकुंठ (नारायण)
  • गरबोधक सागर (गर्भोदक्षयी विष्णु)
  • क्षीर सागर (क्षीरोदकशायी विष्णु)
मन्त्रः
  • ॐ वैष्णवे नमः
  • ॐ नमो भगवते वासुदेवाय
  • ॐ नमो नारायणाय
  • ॐ श्री हरि विष्णो
  • हरि ॐ
शस्त्रम्
  • सुदर्शन चक्र
  • नंदक
  • पाञ्चजन्य
  • शार्ङ्ग धनुष
  • कौमोदकी
Symbols
  • पद्मा (विष्णु)
  • शालीग्राम
दिनम् गुरुवासरः (बृहस्पतिवार)
Color नील
पर्वतः
  • गरुड़
  • शेषनाग
साहित्यम्
पर्वाणि
  • अक्षय तृतीया
  • होली
  • दीपावली
  • एकादशी
  • कार्तिक पूर्णिमा
  • तुलसी विवाह
  • अनंत चतुर्दशी
  • अवतारों की जयंती
व्यक्तिगतविवरणम्
सहचारी लक्ष्मी
अपत्यानि
  • कामदेव
  • देवसेना
  • वल्ली
  • दत्तक पुत्र गणेश
सहोदराः पार्वती या दुर्गा (शैववाद के अनुसार आनुष्ठानिक बहन)

हिन्दुधर्मस्य मूलग्रन्थेषु लोकप्रियपुराणानां अनुसारं विष्णुः ईश्वरस्य मुख्यत्रयरूपेषु अन्यतमः अस्ति। पुराणेषु त्रिमूर्तिविष्णुः संसारस्य वा जगतः रक्षकः इति उच्यते। त्रिमूर्तेः अन्ये द्वे रूपे ब्रह्मा शिवौ स्मृतौ। यत्र ब्रह्मा जी जगतः सृष्टिकर्ता मतः, तत्र शिव जी नाशक इति मतः। मूलतः विष्णुः शिवः च ब्रह्मा च अपि समानौ स्तः, एषः प्रत्ययः अपि बहुधा स्वीकृतः अस्ति। न्यायस्य रक्षणाय, अन्यायस्य विनाशाय, जीवस्य (मनुष्यस्य) परिस्थित्यानुसारं सम्यक् मार्गं ग्रहीतुं मार्गदर्शनाय च विविधरूपेण अवतारं कृत्वा विष्णुः स्वीकृतः अस्ति। कल्कि अवतार इति १० (अन्तिम) अवतारः।

पौराणिककथानां अनुसारं विष्णुस्य पत्नी लक्ष्मी अस्ति। आख्यायिकानुसारं तुलसी अपि भगवतः विष्णुस्य लक्ष्मी इव प्रियः अस्ति अतः सा 'विष्णुप्रिया' इति ज्ञायते। क्षीरसागरं विष्णोः निवासस्थानम् अस्ति। तस्य शयनं शेषनागस्य उपरि अस्ति। तस्य नाभितः कमलं जायते यस्मिन् ब्रह्मा स्थितः।

अधो वामहस्ते पद्मं, अधोदक्षिणे गदां (कौमोदकी), ऊर्ध्ववामहस्ते शङ्खशंखं (पञ्चजन्यं) ऊर्ध्वदक्षिणे च चक्रं (सुदर्शनं) धारयति।

दशावताराः सम्पादयतु

स: सतां संरक्षणाय दुष्टानां विनाशाय च भूमौ पुनः पुनः जायते। सः उवाच

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥

तेन दश अवताराः गृहीताः । ते

  • मत्स्यः - प्रलयसमये नारायणः सोमकनामकं राक्षसं हत्वा जीविनः अपालयत्।
  • कूर्मः - कूर्मावतारे विष्णुः समुद्रमन्थने देवान् उपाकरोत्।
  • वराहः - हरिः वराहरूपेण आविर्भूय हिरण्याक्षं हत्वा भुवम् अरक्षत्।
  • नृसिंहः - नारयणः असुरं हिरण्यकशिपुम् अमारयत्।
  • वामनः - दानशूरस्य बले: गर्वहरणं कृत्वा तम् पातालं प्रति प्रेषितवान्।
  • परशुरामः - २१ पृथिवीप्रदक्षिणा कृत्वा १०८ तीर्थक्षेत्राणां संशोधित:।
  • रामः - रावणम् अमारयत् । युगे एकमेव पुरुषोत्तम:।
  • कृष्णः - कंसं बाल्ये एव अमारयत्। महाभारतयुद्धे सहभाग: गीतोपदेशकर्ता च।
  • बौद्धः - कलियुगे सिद्धपुरुष: जनहितकर्ता च ।
  • कल्किः - कलियुगे दुष्टानां संहारं कर्तुं आविर्भविष्यति।

नाम सम्पादयतु

निरुक्ते "यद्विषितो भवति तद्विष्णुर्भवति"इति कथ्यते। आदिशङ्करः विष्णोः अर्थः सर्वत्रगतः इति अवदत्।

लक्षणानि सम्पादयतु

विष्णुः चतुर्भुजः अस्ति। तेषु पाञ्चजन्यम्-शङ्खम् सुदर्शन-चक्रम् कौमोदकी-गदाम् पद्मम् च धारयति। उक्तञ्च "वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी श्रीमान् नारायणोर्विष्णुः वासुदेवोभिरक्षतु” इति। सः मेघश्यामः अस्ति। तस्य वक्षः श्रीवत्सेन अङ्कितः। सः कौस्तुभमणिं वनमालां च धारयति। सः अनन्तनागे शेते।

सहस्रनामानि सम्पादयतु

भीष्मः युधिष्ठिरस्य विज्ञप्तिम् अनुमन्यमानः विष्णोः सहस्रानामस्तुतिम् अकरोत्। यः विष्णोः सहस्रनामानि जपेत् सः जन्मसंसारबन्धनात् विमुच्यते इति मन्यते। एष: सहस्रनामावली महाभारते अनुशासनिके पर्वणि अस्ति।

श्रीहरेः सर्वैः वर्णैः आरभ्यमाणानि नामानि सम्पादयतु

<poem> अज आनन्द इन्द्रेशावुग्र ऊर्ज ऋतम्भरः ॠघलृशौल्लृजीरेकात्मैर ओजोभृदौरसः । अन्तोऽर्धगर्भः कपिलः खपतिर्गरुडासनः घर्मो ङ्सारश्छार्वङ्गश्छन्दोगम्यो जनार्दनः । झाटतारिर्ञमष्टङ्की ठलको डरको ढरी णात्मा तारस्तभो दण्डी धन्वी नम्यः परः फली । बली भगो मनुर्यज्ञो रामो लक्ष्मीपरिर्वरः शान्तसंवित्षड्गुणश्च सारात्मा हंसळाळुकौ । पञ्चाशन्मूर्तयस्त्वेताः ममाकारादिलक्षकाः ।

  • अजः, आनन्दः, इन्द्रः, ईशानः, उग्रः, ऊर्जः, ऋतम्बरः, ॠघः, लृशः, लॄजिः, एकात्मा, ऐरः, ओजोभृत्, औरसः, अन्तः, अर्धगर्भः - एतानि ओङ्कारस्य अकारात् प्रकटिताः भगवद्रूपाः ।
  • कपिलः, खपतिः, गरुडासनः, घर्मः, ङसारः - एतानि पञ्च ओङ्कारस्य उकारतः प्रकटिताः भगवद्रूपाः ।
  • चार्वाङ्गः, छन्दोगम्यः, जनार्दनः, झटतारिः, ञमः - एतानि पञ्च मकारतः प्रकटिताः भगवद्रूपाः ।
  • टङ्की, ठलकः, डरकः, ढरी, णात्मा - एतानि पञ्च नादतः
  • तारः, थभः, दण्डी, धन्वी, नम्यः - एतानि पञ्च बिन्दुतः
  • परः, फली, बली, भगः, मनुः - एतानि पञ्च घोषतः
  • यज्ञः, रामः, लक्ष्मीपतिः, वरः - एतानि चत्वारि शान्ततः
  • शान्तसंवित्, षड्गुणः, सारात्मा, हंसः, ळाळुकः - एतानि पञ्च अतिशान्ततः
  • क्षकारतः नृसिंहरूपः ।

आङ्कोरवतमन्दिरम् सम्पादयतु

 
आङ्कोरवते समुद्र-मन्थनस्य वर्णनम् - मध्ये विष्णु: अस्ति।

आङ्कोरवतमन्दिरं सूर्यवर्मन: नाम्ना कम्बोजस्य राज्ञा कृतम्। एतन्मन्दिरं विष्णो: एव।

फलकम्:हिन्दू धर्म

"https://sa.wikipedia.org/w/index.php?title=विष्णुः&oldid=485045" इत्यस्माद् प्रतिप्राप्तम्