द्राविडीयभाषाः
द्राविडीयभाषाः वा द्राविड़ीयभाषाः (अथवा कदाचित् द्राविडिकभाषाः[१]) मुख्यतया दक्षिणभारते, ईशान्यश्रीलङ्कायां, नैर्ऋत्यपाकिस्थानदेशे २५ कोटिः (250 मिलियन्) जनानां भाषितानां भाषाणां कुटुम्बः अस्ति ।[२] औपनिवेशिकयुगात् आरभ्य, मारिषसदेशे, ब्रह्मादेशे (म्यान्मारदेशे), सिंहपुरदेशे (सिङ्गापुरदेशे), मलेशियादेशे, इण्डोनेशियादेशे, कलिङ्गद्वीपे (फिलीपीन्सदेशे), संयुक्ताधिराज्ये, आस्ट्रेलियादेशे, फ्रान्सदेशे, केनडादेशे, शर्मण्यदेशे (जर्मनीदेशे), दक्षिण-आफ्रिकादेशे, संयुक्तराज्येषु च लघु किन्तु महत्त्वपूर्णाः आप्रवासीसमुदायाः अभवन् ।
द्राविडीय | |
---|---|
द्राविड़ीय वा द्राविडिक | |
भौगोलिकविस्तारः | दक्षिणजम्बुद्वीपः आग्नेयजम्बुद्वीपः च, मुख्यतः दक्षिणभारतम्, ईशान्यश्रीलङ्का, पाकिस्थानं च |
भाषायाः श्रेणीकरणम् | विश्वस्य प्राथमिक-भाषाकुटुम्बानां अन्यतमम् |
आदि-भाषाः | आद्यद्राविडीय |
उपश्रेण्यः |
उत्तर
केन्द्रीय
दक्षिणकेन्द्रीय
दक्षिण
|
आइसो ६३९-२ व ६३९-५: | dra |
द्राविडीयभाषाणां वितरणम् |
वर्गीकरणम्
सम्पादयतुदक्षिण
सम्पादयतु- तमिळ्-कन्नड -
- तमिळ्-मलयाळम् -
- तमिळ्भाषाः (तमिळ्, इरुळा, वेट्टै कुरुम्ब, कुर्रु (ऐरुकल), ऐरवल्लन्, मलम् (कणिक्कारन्), मुथुवन्, सोलिग (शोलग), कैक्काडि, सङ्केति, श्रीलङ्कातमिळ्, जाफनी)
- मलयाळभाषाः (मलयाळम्, पणिय, रवुल, ब्यारि, एरनाटन्, येहूद्यमलयाळं, काटर्, मलप्पणडारं, मलर्यन्, मलवेडन्, मन्नन्, अरबिमलयाळं, पालियन्, जसरि (द्वीपभाषा), मुळ्ळु कुरुम्बा, सुरियानि मलयाळम्)
- कोडगु - कोडव (कोडगु), कुरुम्ब
- कन्नड-बडग - कन्नड, बडग, ऊराळि, होलिय, कुन्दगन्नद
- तोड-कोत - तोड (तोता) , कोत
- तमिळ्-मलयाळम् -
- तुळुभाषाः - तुळु, कोरग, कुडिया
दक्षिण-केन्द्रीय
सम्पादयतुकेन्द्रीय
सम्पादयतु- कोलामी-नेयेकी - कोलामी, नेयेकी
- पार्जी-गाडब - ओल्लारी, दुरुवा (धुरवा)
उत्तर
सम्पादयतु- कुरुख-माल्टो - कुरुख (कुंड़ुख़), माल्टो (कुमारभाग पहाड़िया, सौरिया पहाड़िया)
- ब्राहुई
अवर्गीकृताः
सम्पादयतु- अवर्गीकृताः द्राविडीयभाषाः (एथ्नोलॉग्-अनुसारम्) - अल्लर्, बाजिगर्, भारिया, मलङ्कुरवन्, विषावन्
- अवर्गीकृताः दक्षिणद्राविडीयभाषाः (एथ्नोलॉग्-अनुसारम्) - मल मलैसर्, मलैसर्, थचनदन्, उल्लतन्, कलनदि, कुम्बरन्, कुण्डुवडि, कुरिचिया, अट्टपडि कुरुम्ब, मुदुगा, पाथिया, वयनाडु चेट्टि, पट्टपु
वितरणम्
सम्पादयतु१९८१ तमे वर्षात् आरभ्य भारतस्य जनगणनायां केवलं १०,००० तः अधिकाः वक्तारः युक्ताः भाषाः एव ज्ञापिताः, यत्र १७ द्राविडीयभाषाः अपि सन्ति | १९८१ तमे वर्षे एतेषु भारतस्य जनसङ्ख्यायाः प्रायः २४% भागः आसीत् ।[३]
२००१ तमे वर्षे जनगणनायां तेषु २१.४ कोटिः (214 मिलियन्) जनाः आसन्, ये भारतस्य कुलजनसङ्ख्यायाः १०२ कोटिः (1.02 बिलियन्) जनसङ्ख्यायाः २१% भागः आसीत् ।[४] तदतिरिक्तं भारतात् बहिः बृहत्तमः द्रविडीयभाषिणां समूहः श्रीलङ्कादेशे तमिळ्भाषिणां सङ्ख्या प्रायः ४७ लक्षं (4.7 मिलियन्) भवति । द्रविडीयभाषाभाषिणां कुलसङ्ख्या २२.७ कोटि- (227 मिलियन्) जनानाम् अस्ति, यत् भारतीय उपमहाद्वीपस्य जनसङ्ख्यायाः १३% परिमितम् अस्ति ।
द्राविडीयभाषानां बृहत्तमः समूहः दक्षिणद्राविडीयः अस्ति, यत्र प्रायः १५ कोटि-(150 मिलियन्) भाषिणः सन्ति । तमिळ्, कन्नड, मलयाळभाषाः भाषिणः ९८% भागं भवन्ति, यत्र क्रमशः ७.५ कोटयः (75 मिलियन्), ४.४ कोटयः (44 मिलियन्), ३.७ कोटयः (37 मिलियन्) देशीभाषिणः सन्ति ।
तदनन्तरं बृहत्तमं दक्षिण-केन्द्रीयशाखा अस्ति, यत्र ७.८ कोटयः (78 मिलियन्) देशीभाषिणः सन्ति, येषु बहुसङ्ख्यकाः तेलुगुभाषिणः सन्ति । येषां प्रथमभाषा तेलुगुभाषा नास्ति तेषां सह तेलुगुभाषाभाषिणां कुलसङ्ख्या ८.४ कोटयः (84 मिलियन) जनानाम् अस्ति । अस्मिन् शाखायां मध्यभारते भाष्यमाणा आदिवासीभाषा गोण्डी अपि अन्तर्भवति ।
द्वितीया लघुशाखा उत्तरशाखा अस्ति, यत्र प्रायः ६३ लक्षं (6.3 मिलियन्) वक्तारः सन्ति । एषः एव उपसमूहः अस्ति यस्य भाषा पाकिस्थानदेशे भाष्यते — ब्राहुईभाषा ।
लघुतमा शाखा केन्द्रीयशाखा अस्ति, यत्र केवलं प्रायः लक्षद्वयं (200,000) वक्तारः सन्ति । एताः भाषाः अधिकतया आदिवासीः सन्ति, मध्यभारते भाष्यन्ते च ।
सम्बद्धाः लेखाः
सम्पादयतुसन्दर्भाः
सम्पादयतु- ↑ "Definition of Dravidic | Dictionary.com" [द्राविडिक इत्यस्य परिभाषा]. www.dictionary.com (in आङ्ग्ल). Archived from the original on 2023-04-09. आह्रियत 2022-04-10.
- ↑ "Overview of Dravidian languages [द्राविडीयभाषाणां अवलोकनम्]". Encyclopædia Britannica. https://www.britannica.com/topic/Dravidian-languages. Retrieved ४ जुलाई २०१८.
- ↑ Ishtiaq, M. (१९९९). Language Shifts Among the Scheduled Tribes in India: A Geographical Study [भारते अनुसूचितजनजातीनां मध्ये भाषापरिवर्तनम् - एकं भौगोलिकाध्ययनम्]. देहली: मोतिलाल बनारसीदास प्रकाशनः. pp. 26–27. ISBN 978-81-208-1617-6. आह्रियत ७ सितम्बर २०१२.
- ↑ "Abstract of speakers' strength of languages and mother tongues –2001" [भाषाभाषिणस्य मातृभाषाभाषिणस्य च बलस्य सारम् - २००१]. जनगणना २००१. महानिबन्धकस्य जनगणनायुक्तस्य च कार्यालयं, भारतम्. आह्रियत १४ अक्तुबर २०१७.