प्रमुखा विकल्पसूचिः उद्घाट्यताम्

आश्वयुजमासस्य शुक्लप्रतिपत्त: आरभ्य दशमीपर्यन्तं नवरात्रीन् यावत् एतत् पर्व आचर्यते । (नवानां रात्रीणां समाहार: नवरात्रम्) एतत् पर्व सर्ववर्णजनै: म्लेच्छै: अपि आचर्यते । अस्मिन् पूज्यमाना देवता शक्ति: । तस्मात् शैव-वैष्णव-शाक्त-सौर-गाणपत्य-कौमारपन्थीया: सर्वेपि शक्तिदेव्या: उपासनं कुर्वन्ति । न केवलम् एते अपि तु म्लेच्छा:, बर्बरा:, शका: अपि आचरन्ति इति वदति भविष्योत्तरपुरणम्

नवरात्रपुत्थलिकावलिः
स्नातै: प्रमुदितैर्हृष्टै: ब्राह्मणै: क्षत्रियैर्नृपै: ।
वैश्यै: शूद्रैर्भक्तियुक्तै: म्लेच्छैरन्यै मानवै: ।
एवं नानाम्लेच्छगणै: पूज्यते सर्वदस्युभि: ।
अङ्गवङ्गकलिङ्गै किन्नरै: बर्बरै: शकै: ॥
मातुः दुर्गायाः नवरूपाणि (उत्तरप्रदेशस्य चित्रम्)
नवरात्रावसरे अक्षराभ्यासः
गुजरातराज्ये नवरात्रकालस्य गर्बा नृत्यम्
मङ्गळूरुनगरे गोकर्णनाथमन्दिरे नवरात्रदेवी

एवं सर्वधर्मपरिग्राह्यमेतत् पर्व यदि नवदिनानि न शक्यते तर्हि अन्तिमानि चत्वारि, त्रीणि दिनानि वा, दिनद्वयं वा न्यूनातिन्यूनम् एकं दिनं वा आचरेयु: इति वदति शास्त्रम् । केवलं दुर्गाष्टमीं महानवामीं वा आचरेयु: एव । एतत् पर्व दुर्गोत्सव: इत्यपि कथ्यते । दशमं दिनं विजयदशमीम् अपि योजयित्वा दशहरा, दसरा इति वा वदन्ति । शरत्काले आचर्यते इति शरन्नवरात्रम् इत्यपि वदन्ति । यद्यपि अयं काल: सर्वेषां देवानाम् अपि उपासनार्थं योग्य: तथापि अस्मिन्समये विशेषतया शक्तिदेवतया: उपासनं प्रचलति । अत्र प्रकृतिमातरं प्रथमं त्रीणि दिनानि लक्ष्मी: इति, अनन्तरं त्रीणि दिनानि सरस्वती इति, अन्तिमानि त्रीणि दिनानि पार्वती अथवा दुर्गा इति पूजयन्ति । विवहोपनयनादीनां शुभकार्यार्थम् अपि तिथि-वासर-नक्षत्र-योग-करण-ग्रहमैत्रीनां दर्शनस्य आवश्यकता नास्ति शरन्नवरात्रावसरे । विशेषतया विजयदशमी तु सर्वनिमित्तम् अपि प्रशस्तम् इति उच्यते । तद्दिने बालानाम् अक्षराभ्यासाय, नूतनस्य उद्योगस्य आरम्भाय, विद्यारम्भाय, बीजवपनाय वा उत्तमं दिनम् । तद्दिने यत्किमपि कार्यम् आरब्धं चेदपि तत्कार्यं विजयं प्राप्नोति इति विश्वास: ।

आश्वयुक् शुक्लदशमी विजयाख्याखिले शुभा ।
प्रयाणेतु विशेषेण किं पुन: श्वणान्विता ॥ इत्येव उक्तम् अस्ति ।

नवरात्रावसरे विशेषतया ध्यान-जप-हवन-पारयण-स्तोत्रादिषु कालं यापयन्ति सज्जना: । चण्डीसप्तशतीपाठ-नारायणहृदयपाठ-ल्क्ष्मीहृदयपाठानां पारायणं करोमि इति संकल्पं कृत्वा नारायणस्य, नरोत्तमनरस्य, सरस्वत्या:, व्यासमहर्षेः च पूजां कृत्वा पारायणस्य आरम्भं कुर्वन्ति । पारायणस्य आरम्भे अन्ते च प्रणवोच्चारणं करणीयम् । पारायणावसरे पुस्तकं हस्तेन न ग्रहीतव्यम् । पारायणं मध्ये एव न स्थगनीयम् । ग्रन्थार्थं ज्ञात्वा पारायणं करणीयम् । अतिवेगेन वा अतिमन्दं वा न करणीयम् । रस-भाव-स्वरसहितं पारायणं करणीयम् ।


त्रिकालं द्विकालमेककालं वा स्वस्वकुलदेवतापूजनं सप्तशत्यादि जप: ।
इदं देवीपूजनात्मकं नवरात्रकर्मनित्यम् अकरणे दोष: श्रवणात् ॥ इति वदति धर्मसिन्धुसार:

नवरात्राव्रतम् आचर्यमाणा: प्रतिपत्-दिने प्रात: अभ्यङ्गस्नानं कृत्वा पवित्रं धृत्वा १० घटिकाभ्यन्तरे अथवा अभिजिन्मुहूर्ते संक्ल्पं कृत्वा कलशस्थापनं कुर्वन्ति । कलशे शुद्धं तिर्थं प्रपूर्य चूतादिन् पल्लवान् संस्थापयन्ति । निर्विघ्नताप्राप्त्यर्थं गणपतिपूजां कुर्वन्ति । पुण्याहवाचनं, जपपारयणाय ब्राह्मणरवरणं, पुण्यतीर्थानाम् आवाहनं, वरुणाराधनं च कृत्वा पूर्णकुम्भोपरि कुम्भदेवताया: प्रतिमां संस्थाप्य पूजामाचरन्ति ।

"'जयन्ती मङ्गला काली भद्रकाली कपालिनी ।
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोस्तु ते ॥
आगच्छ वरदे देवि दैत्यदर्पनिषूदिनि ।
पूजां गृहाणसुमुखि नमस्ते शङ्करप्रिये ॥
इति देवीम् आवाह्य पुरुषसूक्त-श्रीसूक्त-ऋग्भि: षोडशोपचारपूजां कुर्वन्ति । माषान्नेन कूष्माण्डेन वा प्रतिदिनम् अथवा अन्तिमदिने बलिं यच्छन्ति । देव्या: पुरत: अखण्डनन्दादीपं ज्वालयन्ति ।

अखण्डदीपकं देव्या: प्रीतये नवरात्रकम् । उज्वालयेऽदहोरात्रमेकचित्तोधृतव्रत: ॥"

देव्यै गन्ध-आमलक-कङ्कतानि अर्पयन्ति । द्वितीये, तृतीये, चतुर्थे, पञ्चमे दिने केशसंस्कारवस्तूनि कौशेयसूत्रं, हरिद्रां, कुङ्कुमं, मधुपर्क, तिलकम्, अञ्जनं, श्रीगन्धलेपं, अङ्गरागाभरणानि च समर्पयन्ति । षष्ठे दिने पूजारम्भावसरे बिल्ववृक्षसमीपे कलशस्थापनं कृत्वा बिल्ववृक्षस्य पूजां कुर्वन्ति । सप्तमे दिने सरस्वतीपूजां कुर्वन्ति । पुस्तकेषु देवीम् आवाह्य पूजयन्ति । मूलानक्षत्रे सरस्वत्या: आवाहनं, पूर्वाषाढनक्षत्रे पूजा, उत्तराषाढनक्षत्रे बलिप्रदानं, श्रवणनक्षत्रे विसर्जनं करणीयम् । अष्टमे दिने विशेषरूपेण दुर्गापूजां कुर्वन्ति । अत: तद्दिनं दुर्गाष्टमी इत्येव उच्यते । तद्दिने मङ्गलवासर: चेत् अत्यन्तं प्रशस्तम् । विस्तरेण षोडशोपचारपूजां कर्तुं न शक्नुवन्ति चेदपि गन्ध-पुष्प-धूप-दीप-नैवेद्यसमर्पणसहितं पञ्चोपचारपूजां वा कुर्वन्ति एव । एतद्दिनम् उपवासदिनम् । किन्तु पुत्रमान् गृहस्थ: रात्रौ हविष्यान्नं स्वीकुर्यात् । प्रतिदिनं ब्राह्मणपूजां कुमारिपूजां कर्तुम् अशक्ता: महाष्टम्यां पूजयन्ति । द्विवर्षीयादारभ्य दशवर्षीयाभ्यन्तरे विद्यमाना: कन्या: एव पूजनीया: । ता: कन्या: कुमारि-त्रिमूर्ति-कल्याणि-राहिणि-कालि-चण्डिका-शाम्भवि-दुर्गा-सुभद्रारूपिण्य: इति मत्वा तासां पूजा क्रियते । नवमे दिने दुर्गानवाक्षरमन्त्रै: दुर्गासप्तशतीश्लोकै: वा हवनम् आचरन्ति । तद्दिनं महानवमी इति वदन्ति । हवनं श्वेततिलघृतयुक्तपायसेन दूर्वा-श्वेततिल-सर्षप-लाजा-बिल्वफल-रक्तचन्दनकाष्ठमिश्रितपायसेन वा कुर्वन्ति । ब्राह्मणा: माषान्नं, कूष्माण्डं, पिष्टपशुं वा बलिं यच्छन्ति । राज्ञ: छत्रचामरादीनि राजचिह्नानि, आयुधानि, गजा श्वान्, वाद्यानि च पूजयन्ति । अश्वपालका: अपि स्वातिनक्षत्रत: अथवा द्वितीयात: आरभ्य नवमीपर्यन्तं वाजीनीराजनम् इति अश्वपूजाम् आचरन्ति । एतद्दिनम् आयुधपूजादिनम् अपि । तद्दिने राज्ञ:, कृषका:, वणिज:, कर्मकरा: सवेर्पि आयुधानि उपकरणानि च पूजयन्ति । महाष्टम्यां यथा उक्तं तथैव महानवम्याम् अपि पूजां कुर्वन्ति । एतद्दिने बलिसंख्या अधिका भवति । शक्यं चेत् १०८ आहुतिदानं भवेत् । तद्दिने मया कृतपूजायां जातान् अपचारान् क्षम्यताम् इति देवीं प्रार्थयन्ति । दशमे दिने पुन: षोडशोपचारपूजां कृत्वा पारणं कृत्वा व्रतविसर्जनं कुर्वन्ति । सङ्गीतवेदपारायणै: सह मृत्तिकानिर्मितविग्रहं नदीसरोवरकूपादिषु विसर्जयन्ति । तद्दिने अपराजितादेव्या: पूजां, ग्रामनगराणां सीमोल्लङ्घनं, शमीपूजां, देशान्तरयात्रां, विजययात्रां च कुर्वन्ति । अपराह्णे ग्रामस्य ईशान्यदिशि शुचिप्रदेशे अपराजितादेव्या: पूजां कुर्वन्ति । मध्ये अपराजितादेवीं दक्षिणभागे क्रियाशक्तिरूपिणीं जयादेवीं, वामभागे उमादेवीं च पूजयन्ति । अनन्तरं शमीवृक्षस्य पूजां कुर्वन्ति ।

अमङ्गलानां शमनीं शमनीं दुष्कृतस्य च ।
दु:खप्रणाशिनीं धन्यां प्रपद्येहं शमीं शुभाम् ॥ इत्येष: शमीवृक्षस्य पूजामन्त्र: ।

अनन्तरं

शमी शमयते पापं शमी लोहितकण्टका ।
धारिण्यर्जुनबाणानां रामस्य प्रियदर्शिनी ॥
करिष्यमाणयात्रायां यथाकालं सुखं मया ।
तत्र निर्विघ्नकर्त्री त्वं भव श्रीरामपूजिते ॥

इति प्रार्थनां कृत्वा अक्षतासहिताम् आर्द्रां शमीवृक्षस्य अधस्तनमृत्तिकां मङ्गलवाद्यपुरस्सरं गृहम् आनयन्ति प्रसादत्वेन । यात्रां गन्तार: विजयमुहूर्ते प्रयाणस्य आरम्भं कुर्वन्ति । पाण्डवा: अज्ञातवासार्थं गमनात् पूर्वं दिव्यास्त्राणि सर्वाणि अस्मिन् वृक्षे स्थापितवन्त: आसन् । अज्ञातवासं समाप्य विजयदशमीदिने एव प्रतिप्राप्य युद्धसन्नद्धा: अभवन् इति । श्रीराम: अपि रावणवधार्थं गमनात् पूर्वम् एतं वृक्षं पूजयित्वा गतवानिति । रावणसंहारादिकं कृत्वा श्रीरामस्य अयोध्याप्रवेश: अभवत् विजयदशमीदिने एव । तस्य स्मरणार्थम् इदानीमपि उत्तरभारते विजयदशमीदिने रामलीलोत्सवम् आचरन्ति ।

"https://sa.wikipedia.org/w/index.php?title=नवरात्रम्&oldid=431909" इत्यस्माद् पुनः प्राप्तिः