संस्कृतविकिपीडियायां सम्प्रति १२,२१८ लेखाः सन्ति।

संस्कृतविकिपीडिया संस्कृतभाषायां विद्यमानः स्वतन्त्रः विश्वकोशः। विकिपीडियानामा विश्वकोशोऽयं बह्वीषु भाषासु उपलभ्यते। अस्य सम्पादनं भवद्भिः स्वयमेव कर्तुं शक्यते। सम्पादनविषये साहाय्यार्थं 'लेखसाहाय्यम्' पश्यन्तु। टङ्कनार्थं 'टङ्कनसाहाय्यम्' पश्यन्तु। एतावता १२,२१८ लेखाः लिखिताः सन्ति।
२०२४ नवेम्बर् ५
सङ्गणकीयशब्दाः शूलयन्ति किम्? उपयुज्यताम् -आङ्ग्लसंस्कृतसङ्गणकशब्दकोशः।    
फलकम्:अक्षरमाला अनुक्रमणिका

प्रमुखः लेखः

वैशेषिकदर्शनं भारतीयदर्शनेषु अन्यतमम्। सकलदर्शनापेक्षया वैशेषिकदर्शनं प्राचीनम्। दर्शनम् एतत् सर्वशास्त्रोपकारकम् अस्ति। एतस्य दर्शनस्य प्रवर्तकः कणादः। कश्यपवंशोत्पन्नः एषः 'काश्यपः' इत्यपि ख्यातः। अयं तु स्वजीवननिर्वाहं कुर्वन् ज्ञानभण्डारात्मकमेतच्छास्त्रं रचितवान्। एतच्छास्त्रं न केवलं भारतदेशे, अपि तु सर्वत्र प्रपञ्चे विराजते। महात्मा कणादः प्रकृत्या स्वयं दरिद्रः सन् क्षेत्रे पतितान्नकणान् लक्षीकृत्य स्वजीवननिर्वाहं कृतवान् इत्यतः अस्य शास्त्रस्य ’कणादशास्त्रम्’ इति व्यवहारः। अन्यदपि नाम शास्त्रस्यास्य भवति वैशेषिकदर्श्नमिति। यतः अस्मिन् दर्शने विशेषः पदार्थत्वेन स्वीक्रियते। (अधिकवाचनाय »)



वार्ताः

ज्ञायते किं भवता ?

सुभाषितम्

मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः।
क्षणमप्यवतिष्ठते श्वसन् यदि जन्तुर्ननु लाभवानसौ ॥

कालिदासस्य रघुवंशम् (८/८७)

सर्वेषां प्राणिनां मरणं स्वभावसिद्धम्। तत् परिहर्तुं केनापि न शक्यते। जातस्य मरणं निश्चितम् एव। किन्तु जीवनं न निश्चितम्। तत् आकस्मिकं, न तु स्वभावसिद्धम्। अद्यैव जीवनं समाप्तं स्यात्, अथवा श्वः। जीवितस्य पुरुषस्य मरणं भवत्येव। किन्तु मृतस्य पुनः जीवितं भविष्यति इत्यत्र न निश्चयः। अतः क्षणकालमपि जीवः यदि देहे तिष्ठति तर्हि तदेव प्राणिनां महालाभः। किञ्च, मरणेऽपि शोकः न कार्यः। यतः मरणं प्राणिनां स्वाभाविकम्। यावज्जीवं सन्तोषेण जीवेत्। यतः दुर्लभं जीवनम् अस्माभिः प्राप्तम् अस्ति।


प्रमुखं चित्रम्

इगुवास्सुजलपातः
इगुवास्सु जलपातः (पुर्तगाली: Cataratas do Iguaçu; स्पैनिश: Cataratas del Iguazú; इगुवासु एवम् इगुवाझ् अन्यनामानि) दक्षिण-अमेरिकाभूभागस्य ब्रेजिल- अर्जेण्टिनादेशयोः सीमामध्ये प्रवहति इगुवास्सुनदी। तस्याः अनेके समूहजलपाताः सन्ति। विश्वस्य नैसर्गिक-अद्भुतेषु अन्यतमम् इति परिगणयन्ति। एते जलपाताः इगुवस्सुनदीम् उपरितनीय-इगुवास्सु एवम् अधस्तरीय-इगुवास्सु इति विभाजयन्ति। बाह्यप्रपञ्चं प्रति अस्य जलपातस्य परिचयश्रेयः बोसेल्लि नामकस्य युरोपीयस्य भवति।

विश्वविज्ञानकोशः

भाषा साहित्यं

भाषाशास्त्रम्संस्कृतम्व्याकरणम्वेदःउपनिषदः

  गणितम्

संख्याबीजगणितम्अङ्कगणितम्त्रिकोणमितिःज्यामितिःकलनम्स्थितिगणितम्भारतीयगणितम्गणितज्ञाः

शास्त्रम्

भौतिकशास्त्रम्रसायनशास्त्रम्जीवशास्त्रम्भूमिशास्त्रम्ज्योतिःशास्त्रम्

साङ्केतिकविद्या

अभिनिर्मितिःयन्त्राभिनिर्मितिःवैद्युत साङ्केतिकविद्याविद्युत्कण साङ्केतिकविद्याआकाश साङ्केतिकविद्या

भूमिशास्त्रम्

भूमिःमहाद्वीपःसागरःपर्वतःअग्निपर्व‌तःनदीसमुद्रःवनम्तडागःविपत्तिः

समाजः

समाजशास्त्रम्राष्ट्रतन्त्रम्अर्थशास्त्रम्

तत्त्वज्ञानम्

दर्शनानिनास्तिकदर्शनानिआस्तिकदर्शनानि

धर्मः

हिन्दुधर्मःइस्लाममतम्सिक्खमतम्क्रैस्तमतम्बौद्धदर्शनम्जैनदर्शनम्

इतिहासः

इतिहासःयुद्धम्चक्रवर्तिनःनागरिकता

जीवनचरितम्

जीवनचरितम्शास्त्रज्ञःशास्त्रज्ञालेखकःलेखिकाकवि:कवयत्रीसंगीतज्ञःसंगीतज्ञागायकःगायिकानर्तकःनर्तकीअभिनेताअभिनेत्री

कला संस्कृतिः च
ललितकलाकाव्यम्• सङ्गीतम्नाटकम्नाट्यम्चलचित्रम्दूरदर्शनम्अन्नम्अन्त‍‍र्जालम्

क्रीडा केली च

क्रीडाःकेलीक्रिकेट्पादकन्दुकम्चतुरङ्गम्

विकि समाजः

संस्कृतभाषासहायी

भ्रातृपरियोजनाः

विकिपीडियायाः आतिथेयत्वे विकिमीडिया फौण्टेषन् नाम लाभरहितं संघटनं कृतमस्ति। एतेन अन्येऽपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषा-परियोजनाः

आंगलेयभाषा परियोजनाः

विकिपीडिया भाषाः