सदस्यः:SiBr4/प्रयोगपृष्ठम्
संस्कृतविकिपीडिया
स्वतन्त्रविश्वकोशः
२००३ तमवर्षस्य डिसेम्बरमासे अस्याः आरम्भः जातः । सम्प्रति संस्कृतविकिपीडियायां १०,१८१ लेखाः सन्ति ।
अग्ने नय सुपथा राये ॥
हे जगदग्रणीः ! सौभाग्यप्राप्तये सन्मार्गे नीयताम् । -यजुर्वेदः ५-३६
शास्त्रीयलेखःन्यायदर्शनम् भारतीयदर्शनेषु अन्यतमम् । वैदिकदर्शनेषु न्यायशास्त्रस्यापि गणना विधीयते । प्राचीनैरप्युक्तं यत् आन्वीक्षिकी सर्वासां विद्यानां मूलमस्ति । काव्यमीमांसायाः लेखकः राजशेखरोऽपि कौटिल्यसम्मतान् विद्याभेदान् आन्वीक्षिकी-त्रयीवार्त्ता-दण्डनीतिसंज्ञाभिरभिहितवान् । स्वयं कौटिल्यः आन्वीक्षिकीं सर्वासां विद्यानां प्रदीपभूतां सर्वेषां कार्याणाम् उपायरूपां, सर्वेषां धर्माणां आश्रयरूपां च प्रतिपदितवान् । फलतः विद्यायाः आन्वीक्षिकीत्याख्यं रूपं स्वरूपं न्यायशास्त्रस्य प्रतिपादनाय परमोपयोगी अस्ति । प्रमाणैः पदार्थानां परीक्षणं न्याय उच्यते । वार्ताः
अद्यतनं चित्रम्कोट्टराम-प्रासादः
|
आधुनिकलेखःअन्ताराष्ट्रिययोगदिवसः जून-मासस्य एकविंशतितमे (२१/६) दिनाङ्के जनैः आचर्यते । योगः अनन्तकालात् प्रचलितः शारीरिक-मानसिक-आध्यात्मिक-अभ्यासः अस्ति । योगस्य मूलानि भारतदेशे सर्वत्र प्राप्यन्ते । भारतीयसंस्कृतिः भौतिकसुखस्य अपेक्षया आध्यात्मिकसुखाय अधिकं बलं यच्छति । परन्तु शरीरमेव आध्यात्मिकक्षेत्रे उन्नतिं कर्तुम् एकमात्रं साधनं वर्तते इत्यपि भारतीयसंस्कृतेः मतम् । अतः मनसः शान्तिः, शरीरस्य स्वस्थता च मनुष्यस्य आवश्यकता भवति । तस्याः आवश्यकतायाः पूर्त्यै भारतीयतत्वचिन्तकैः योगशास्त्रस्य रचना कृता । अनेन योगशास्त्रेण मनसः शान्तिः, शरीरस्य स्वस्थता च वैज्ञानिकरीत्या प्राप्यते । ज्ञायते किं भवता...प्रसिद्धाः काश्चन स्मृतयः - सुभाषितम्
|
|
सहपरियोजनाः
|