सदस्यसम्भाषणम्:Brijesh 1810282/प्रयोगपृष्ठम्

उत्तराखण्डराज्यम्
उत्तराखण्ड
—  राज्यम्  —
उत्तराखण्डराज्यस्य चित्रदीर्घा
उत्तराखण्डराज्यस्य चित्रदीर्घा
Coordinates (देहरादून्): ३०°२०′उत्तरदिक् ७८°०४′पूर्वदिक् / 30.33°उत्तरदिक् 78.06°पूर्वदिक् / ३०.३३; ७८.०६
Country भारतम्
Established ९ नवेम्बर् २०००
Capital देहरादून्
Largest city देहरादून
Districts १३
सर्वकारः
 • Governor अझीझ् खुरेशि
 • मुख्यमन्त्री त्रिवेन्द्रसिंहरावत:
 • विधानमण्डलम् 70 seats
 • Parliamentary constituency 5
 • High Court Uttarakhand High Court
विस्तीर्णता
 • संहतिः ५१,१२५ km
क्षेत्रविस्तारः 18th
जनसङ्ख्या (2011)
 • संहतिः १,०१,१६,७५२
 • रैङ्क् 19th
Indian Standard Time (IST) (UTC+05:30)
ऐ एस् ओ ३१६६ कोड् IN-UT
HDI 0.515
मानवविकाससूचकाङ्कः (HDI rank) सप्तमः (२०११)
साक्षरता ७९.६३
लिङ्गानुपातः ९६३
भाषाः हिन्दीभाषा, गर्वाली, कुमोनि,
राजभाषा हिन्दीभाषा, संस्कृतम्
जालस्थानम् uk.gov.in


उत्तराखण्डः सम्पादयतु

उत्तराखण्डराज्यं हिन्दी उत्तराखण्ड राज्य,आङ्ग्ल: भारतीय राज्येषु अन्यतमं राज्यम् । एतस्य राज्यस्य २००० तमे वर्षे 'नवम्बर'-मासस्य नवमे दिनाङ्के रचना जाता । उत्तरप्रदेशराज्यस्य रचनार्थं हिमालयः प्रान्तस्य, उत्तराखण्डराज्यस्य च विभागः कृतः । राज्यस्यास्य उत्तरे टिबेट्, पूर्वे नेपाल, दक्षिणपश्चिमयोः उत्तरप्रदेशः अस्ति । अस्य राज्यस्य नाम २००७ तमे संवत्सरे 'जनवरी'-मासे उत्तराञ्चलात् उत्तराखण्डः इति परिवर्तनं कृतम् । राज्यस्य उच्चन्यायालयः नैनिताल् नगरे अस्ति । अस्मिन् राज्ये विभागद्वयं भवति गढवाल तथा कुमाऊं इति । अस्मिन् राज्ये १३ मण्डलानि सन्ति । गढवालविभागे चमोलीमण्डलं, देहरादूनमण्डलं, हरिद्वारमण्डलं, पौडीगढवालमण्डलं, रुद्रप्रयागमण्डलं, टिहरीगढवालमण्डलं, उत्तरकाशीमण्डलं चास्ति । कुमाऊंविभागे अल्मोडामण्डलं, बागेश्वरमण्डलम्, नैनितालमण्डलं, पिथौरागढमण्डलं, चम्पावतमण्डलम्, उधमसिंहनगरमण्डलं चास्ति । राज्यस्य मुख्यराजभाषा हिन्दी, उपराजभाषा संस्कृतभाषा चास्ति । “चिप्को” आन्दोलनस्य आरम्भः उत्तराखण्डराज्ये ऐदम्प्राथम्येन जातः । उत्तराखण्डस्य विस्तारः ५१,१२५ चतुरस्रकि.मी अस्ति । जनसंख्या ८५ लक्षमस्ति । देहरादून-हरिद्वार-नैनिताल-नगराणि अस्य राज्यस्य प्रमुखनगराणि सन्ति । राज्यस्य ९२.५७% भागः पर्वतीयः अस्ति । ६३% भागः अरण्यम्प्रदेशः अस्ति । उत्तराखण्डस्य मुख्याः पर्वताः नन्दादेवी (७८१६ मी.), बदरीनाथः(७१४० मी.), चौखम्बा(७१३८ मी.) तथा त्रिशूल्(७१२० मी.) सन्ति । प्राचीनहिन्दूग्रन्थेषु केदार-मानसखण्डयोः मिलित्वा उत्तराखण्ड इति उल्लेखः दृश्यते । उन्नतपर्वताः, दर्दराः, नद्यः, पवित्रक्षेत्राणि अस्मिन् राज्ये सन्ति । अतः “देवभूमिः” इति अस्य नामान्तरमस्ति । ’कोल्’ इति जनाः अस्य राज्यस्य पूर्विकाः आसन् । तस्मिन् काले ऋषीणां, साधूनाण्च इष्टतमं स्थानम् आसीदेतत् । व्यासमहर्षिः अस्मिन्नेव स्थले महाभारतकाव्यं रचितवान् इति प्रतीतिः अस्ति। अस्मात् स्थलादारभ्यॅव स्वर्गारोहणयात्रा आरब्धा पाण्डवॅः इति जनानां विश्वासः ।

प्राकृतिकवर्णनम् सम्पादयतु

 
नन्दादेवीशिखरप्रदेशः

उत्तराखण्डः अतीवप्रकृतिरमणीयः प्रदेशः अस्ति । प्रायः राज्यस्य उत्तरभागस्य प्रदेशः हिमालयस्य अङ्गप्रदेशः अस्ति । अस्मिन् भागे उन्नतशिखराणि, हिमनद्यश्च विलसन्ति । हिमालयस्य सानुप्रदेशः पूर्वम् आकुलारण्यप्रदेशः आसीत् इति । अरण्यविभागस्य यत्नेन अरण्यस्य वृद्धिः जायमाना अस्ति । हिमालयस्य परिसरे विविधवन्यजन्तवः आश्रिताः । वन्यजन्तुषु व्याघ्राः, चित्रकाः, हिमचित्रकाः इत्यादयः अत्र आश्रिताः । अमूल्यानि सस्यानि, वनस्पतयश्च विलसन्त्यत्र। भारतीयपवित्रतमौ महानद्यौ गङ्गा, यमुनाच उत्तराखण्डस्य हिमपर्वतमूले उद्भूते । हिमालयपर्वतश्रेण्याः दक्षिणे भागे उत्तराखण्डः अस्ति । उन्नतप्रदेशाः हिमेन, शिलया च आवृताः सन्ति । नैनितालमण्डलस्य रामनगरे जिम् कार्बेट् राष्ट्रियोद्यानम् अस्ति । चमोलीजनपदे पुष्पकन्दरराष्ट्रियोद्यानम्, नन्दादेवीराष्ट्रियोद्यानञ्च आस्ति । उत्तरकाशीमण्डले गोविन्दपशुराष्ट्रियोद्यानम्, गङ्गोत्रीराष्ट्रियोद्यानञ्च अस्ति । हरिद्वारमण्डले राजाजि राष्ट्रियोद्यानम् अस्ति ।

प्रवासोद्यमविभागः सम्पादयतु

उत्तराखण्डस्य धनादायस्य प्रमुखविभागः प्रवासोद्यमविभागः भवति । सर्वदा अत्र तीर्थयात्रिकाः, पर्वतारोहिसाधकाः, पर्यटकाश्च भवन्ति । नैनिताल्, मस्सूरी, अल्मोरा तथा राणिखेत् इत्यादीनि गिरिधामानि प्रसिद्धानि सन्ति । हेमकुण्डस्य "श्वेतपुष्पकन्दरः" तथा नन्दादेवी राष्ट्रियोद्यानञ्च स्तः। विश्वपरम्परास्थानेषु नन्दादेवी राष्ट्रियोद्यानमपि अन्यतमम् । अधिकानां पर्यटकानाम् आकर्षणस्थानम् एतत् ।

धार्मिकक्षेत्राणि सम्पादयतु

हिन्दवानां पवित्रतमपुण्यक्षेत्रेषु कानिचन क्षेत्राणि उत्तराखण्डराज्ये राराजन्ते । तानि गङ्गोत्री, यमुनोत्री, केदारनाथः, बदरीनाथः(चारधाम) इति सुप्रसिद्धानि पवित्रक्षेत्राणि सन्ति । तथैव हरिद्वारं, हृषीकेशः च पवित्रक्षेत्रे स्तः । सिक्खधर्मस्य 'हेमकुण्डसाहेब्' पुण्यस्थानम् अस्मन्नेव राज्ये अस्ति । बौद्धधर्मस्य बुद्धस्तूपसहितं मिण्ड्रोलिङ्गपवित्रस्थानम् अत्रैव अस्ति ।

नैनिताल सम्पादयतु

'कुमाहिल्' प्रदेशे स्थितं सुन्दरं गिरिधाम एतत् उत्तराखण्डराज्यस्य किञ्चन नगरम् । नैनिताल इत्यस्य देवानां नेत्रे इत्यर्थः । नैनादेवी-तः नैनिताल इति नाम । अत्र ६० सरांसि सन्ति । अतः सरसः मण्डलम् इति अस्य नामान्तरमस्ति । नैनिताल-नगरस्य बृहत्तमः तडागः अस्ति 'भीमताल'-तडागः । अत्र नौकाविहारः, मीनग्रहणमित्यादिकम् अतीव आकर्षकाणि सन्ति । नैनिताल-नगरे मेघाच्छादितशिखराणि, सरोवराणि, तृणावृतप्रदेशाः, अरण्यानि, समतलभूमिः च अतीवसुन्दराणि सन्ति । शिवालिकपर्वतश्रेणिः, पर्वताः, प्रपाताः च मनोहराणि सन्ति । बहुकालपर्यन्तम् एतत् गिरिधाम अदृष्टमीव आसीत् । 'ब्यारन्' इति अधिकारी मार्गभ्रष्टः अत्र आगत्य अपूर्वप्रदेशं दृष्ट्वा सन्तुष्टः अभवत् । अनन्तरं यूरोपियन् जनाः अत्र आगतवन्तः । सा.श.१८४१तमे काले एषः लघुग्रामः आसीत् । इदानी विश्वे प्रसिद्धं नगरम् अस्ति । 'क्याटर्पिल्लर्' इति धूमशकटयानं नगरदर्शनार्थम् अस्ति । अनेन सञ्चारः बालानाम् अतीव हर्षदायकः अस्ति । नैनितालनगरे किञ्चन पक्षिधाम अपि अस्ति । शतशः विविधाः पक्षिणः तत्र दर्शनीयाः सन्ति । नैनिताल-तः पश्चिमे रामनगरम् इत्यस्मिन् स्थले राष्ट्रियोद्यानं 'जिम् कार्बेट् न्याशनल् पार्क्' अस्ति । अत्र भल्लूकाः, व्याघ्राः, गजादयः प्राणिनः सन्ति । समीपे 'राणीखेत्' अल्मोडादीनि गिरिधामनि सन्ति ।


https://www.euttaranchal.com/uttarakhand https://en.wikipedia.org/wiki/Uttarakhand

 
सदस्य "Brijesh 1810282/प्रयोगपृष्ठम्" के सदस्य पृष्ठ पर वापस जाएँ