हरिद्वारमण्डलम्

(हरिद्वारमण्डलं इत्यस्मात् पुनर्निर्दिष्टम्)

हरिद्वारमण्डलम् ( /ˈhərɪdvɑːrəməndələm/) (हिन्दी: हरिद्वार जिला, आङ्ग्ल: Haridwar District) उत्तराखण्डराज्यस्य गढवालविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति हरिद्वार इति नगरम् । हरिद्वारमण्डलं कुम्भोत्सव-गङ्गास्नान-मन्दिर-मठेभ्यः प्रख्यातमस्ति । एतन्नगरं Gateway of God’s Land इत्यपि प्रख्यातमस्ति ।

हरिद्वारमण्डलम्

Haridwar District

Gateway of God’s Land
हरिद्वार जिला
हरिद्वारमण्डलम्
हर की पौडी
देशः  India
राज्यम् उत्तराखण्डः
उपमण्डलानि हरिद्वार, लक्सर, कानपुर, नर्सन, रूर्की, भगवानपुर
विस्तारः २,३६० च.कि.मी.
जनसङ्ख्या(२०११) १८,९०,४२२
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
साक्षरता ७३.४३%
भाषाः गढवाली, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website http://haridwar.nic.in

भौगोलिकम्

सम्पादयतु

हरिद्वारमण्डलस्य विस्तारः २,३६० च.कि.मी.-मितः अस्ति । उत्तराखण्डराज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि देहरादूनमण्डलं, दक्षिणदिशि उत्तरप्रदेशराज्यं, पूर्वदिशि पौरीगढवालमण्डलं, पश्चिमदिशि उत्तरप्रदेशराज्यम् अस्ति ।

जनसङ्ख्या

सम्पादयतु
 

हरिद्वारमण्डलस्य जनसङ्ख्या(२०११) १८,९०,४२२ अस्ति । अत्र १०,०५,२९५ पुरुषाः, ८,८५,१२७ स्त्रियः, २,८३,६९३ बालकाः (१,५०,१७३ बालकाः, १,३३,५२० बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ८०१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ८०१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३०.६३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८८० अस्ति । अत्र साक्षरता ७३.४३% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ८१.०४% स्त्री - ६४.७९% अस्ति ।

उपमण्डलानि

सम्पादयतु

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- हरिद्वार, लक्सर, कानपुर, नर्सन, रूर्की, भगवानपुर

वीक्षणीयस्थलानि

सम्पादयतु

गङ्गोत्री, यमुनोत्री, बदरीनाथः, केदारनाथः एतच्चतुर्धाम्नां द्वारत्वात् अस्य नगरस्य नाम हरिद्वारं, हरद्वारं वा । हिन्दुधर्मस्य सप्तमोक्षदानगरीषु हरिद्वार-नगरी अन्यतमा । पुराणे उक्तम् –

समुद्रमन्थनपश्चात् विष्णोः वाहनं गरुडः यदा अमृतकलशं नीत्वा गच्छन् आसीत्, तदा चतुर्षु स्थानेषु अमृतबिन्दवः पतिताः । उज्जयिनी-नासिक-प्रयाग-हरिद्वाराणि तानि चतुस्स्थानानि सन्ति । यस्मिन् यस्मिन् स्थले अमृतबिन्दवः पतिताः आसन्, तस्मिन् तस्मिन् स्थले कुम्भोत्सवः (कुम्भमेला) भवति । प्रति चतुर्थे वर्षे क्रमेण उज्जयिनी-नासिक-प्रयाग-हरिद्वारेषु अर्धकुम्भयोगकाले कुम्भोत्सवस्य आयोजनं भवति । द्वादशे (१२) वर्षे व्यतीते सति अर्थात् प्रति द्वादशे वर्षे क्रमेण उज्जयिनी-नासिक-प्रयाग-हरिद्वारेषु महाकुम्भोत्सवस्यायोजनं भवति । कुम्भोत्सवः प्रायशः सार्धैकमासपर्यन्तं चलति । कुम्भोत्सवे कोटिशः भक्ताः भागं वहन्ति । कुम्भोत्सवकाले गङ्गास्नानस्य महत्वमस्ति । अतः भक्ताः मोक्षपुरुषार्थस्य लक्ष्यं साधयितुं गङ्गास्नानं कुर्वन्ति । हरिद्वारस्य ब्रह्मकुण्डनामके स्थले अमृतबिन्दवः पतिताः आसन् । ब्रह्मकुण्डः हरिद्वारस्य ‘हर की पेड़ी’- नामके गङ्गाघट्टे स्थितोऽस्ति ।

राजाजी 'नेशनल् पार्क्'

सम्पादयतु

एतन्मण्डलमं प्राणिसङ्ग्रहालयाय अपि प्रसिद्धमस्ति । प्राकृतिकसौन्दर्येण परिपूर्णम् एतत् मण्डलम् । हरिद्वारे राजाजी 'नेशनल् पार्क्' अस्ति । तस्मिन् प्राणिसङ्ग्रहालये विभन्नाः प्राणिनः सन्ति, यथा – व्याघ्रः, चित्रकः, सिंहः, हरिणः, भल्लूकः

सम्बद्धाः लेखाः

सम्पादयतु

शिव

विष्णु

गङ्गा

यमुना

बाह्यानुबन्धः

सम्पादयतु

http://haridwar.nic.in/

http://www.mapsofindia.com/maps/uttaranchal/districts/haridwar.htm

http://www.euttaranchal.com/uttaranchal/haridwar.php Archived २०१२-०९-२० at the Wayback Machine

http://dchar.uk.gov.in/ Archived २०१४-०२-०८ at the Wayback Machine

"https://sa.wikipedia.org/w/index.php?title=हरिद्वारमण्डलम्&oldid=489809" इत्यस्माद् प्रतिप्राप्तम्