प्राकृतिकी आपद्
प्राकृतिकी आपद् ( शृणु) /ˈprɑːkrtɪkiː ɑːpəd/) (हिन्दी: प्राकृतिक आपदा, आङ्ग्ल: Natural Disaster ) सर्वप्राणिभ्यः क्लेशकारिणी भवति । किन्तु इयम् आपद् प्राकृतिका भवति । तेन कारणेन वैज्ञानिकाः अपि आपदः रक्षणार्थं संशोधनं कुर्वन्तः सन्ति । “परिवर्तनम् एव संसारस्य नियमः” इति उक्त्या प्रकृतिं जेतुम् अशक्यम् । अतः वैज्ञानिकाः प्राकृतिकीः आपदः प्राग् एव ज्ञातुं शक्नुवन्ति, किन्तु आपदः अवरोद्धुं न शक्याः कैरपि । साम्प्रतम् अपि आपद्भिः रक्षणार्थं संशोधनानि प्रचलन्ति । संशोधने विभिन्नानाम् उपकरणानां, यन्त्राणाम् आवश्यकता भवति । वैज्ञानिकैः तानि उपकरणानि, यन्त्राणि च निर्मापितानि । तेषाम् उपकरणानां यन्त्राणां साहाय्येन आपदां स्थितिः ज्ञातुं शक्यते ।[१]
आपदां स्थितिः
सम्पादयतुआपदः प्रायः एका अनपेक्षिता घटना वर्तते । मानवाः तस्याः आपदः नियन्त्रणं कर्तुम् असमर्थाः सन्ति । प्राकृतिकशक्त्याः समक्षं मानवानां शक्तिः न्यूना वर्तते । आपदः स्वल्पे समये पूर्वसूचनया विना एव भवन्ति । ताभिः मानवजीवनस्य कार्याणि अवरूद्धानि भवन्ति । सांसारिकजनानां सम्पत्तेः हानिः भवति ।
परिवर्तनस्य प्रक्रिया गतिशीला वर्तते । इयं परिवर्तनस्य प्रक्रिया लघुगुरुतत्त्वेषु, पदार्थापदार्थेषु च प्रचलति । तया प्रक्रियया अस्माकं प्राकृतिकं, सामाजिकं, सांस्कृतिकं पर्यावरणं प्रभावितं भवति । मन्दगत्या अपि परिवर्तनानि भवन्ति । यथा – स्थलाकृतिषु, जीवेषु च । तीव्रगत्या परिवर्तनानि अपि भवन्ति । यथा – ज्वालामुखिविस्फोटः, सुनामी, भूकम्पः, चण्डवातः (तूफान) च ।[२]
कानिचित् परिवर्तनानि समीचीनानि अपि भवन्ति । यथा – ऋतूनां परिवर्तनं, फलानां पक्वता च । किन्तु अनिष्टैः परिवर्तनैः मानवाः भयभीताः सन्ति । काश्चित् आपदः प्राकृतिक्यः न सन्ति । मनुष्यः अपि आपदां कारकः अस्ति । आपदाम् उत्पत्तेः सम्बन्धः मानवीयक्रियाकलापैः सह अपि अस्ति । भोपाल गैस काण्डः, चेरनोबिल् नाभिकीय आपदा, सी. एफ्. सी. (क्लोरोफलोरो कार्बन्) वायोः वायुमण्डले निकासः, ध्वनिप्रदूषणं, वायुप्रदुषणं, जलप्रदूषणम् इत्यादीनि मानवनिर्मितानि पर्यावरणप्रदूषणानि आपदां कारकाणि सन्ति । केचन मानवीयगतिविधयः अपि आपदः आह्वयन्ति । आपदां प्रबन्धनाय "भारतीय राष्ट्रिय आपदा प्रबन्धन संस्थान" इत्यस्याः संस्थायाः स्थापना कृता अस्ति भारतसर्वकारेण । ततः परं १९९३ तमे वर्षे रियो डि जेनेरो, ब्राजील इत्यत्र भूशिखरसम्मेलनं, १९९४ तमस्य वर्षस्य मई-मासे यॉकोहामा, जापान् इत्यत्र आपदां प्रबन्धनविषये सङ्गोष्ठी इत्यादीनि कार्याणि विभिन्नेषु स्तरेषु चलन्ति ।[३]
आपद्, प्राकृतिकं सङ्कटम् इत्येतयोः भिन्नता
सम्पादयतुबहवः विद्वांसः अपि आपद्, प्राकृतिकसङ्कटम् इत्येतयोः भिन्नतां न जानन्ति । यद्यपि इमे द्वे परस्परं सम्बन्धिते स्तः । तथापि भिन्नता अस्ति । अतः एतयोः भिन्नतायाः ज्ञानम् आवश्यकम् । प्राकृतिकसङ्कटैः जनानां धनानां च हानिः भवति । यथा – महासागरीयधाराः, हिमालयपर्वतस्य हिमपातः, मरुस्थलेषु, हिमाच्छादितक्षेत्रेषु च विषमजलवायोः दशाः इत्यादीनि प्राकृतिकसङ्कटानि सन्ति । प्राकृतिकसङ्कटानां तुलनया प्राकृतिक्यः आपदः तीव्रगतिभिः भवन्ति । जनानां, धनानां च हानिः अपि अधिका भवति । तेषां सङ्कटानाम् उपरि मनुष्याणां नियन्त्रणम् अपि नास्ति ।
प्राकृतिकीनाम् आपदाम् अवगमनेन परिवर्तनानि अभवन् । पुरा प्राकृतिक्यः आपदः, सङ्कटानि च परस्परम् अन्तस्सम्बन्धिपरिघटनाः सन्ति इति जानन्ति । तस्मिन् काले मानवाः प्रकृत्याः स्थितौ हस्तक्षेपं न कुर्वन्ति स्म । अतः आपद्भिः हानिः न्यूना भवति स्म । तकनीकीविकासैः मानवेभ्यः बहुक्षमता प्रदत्ता अस्ति । तेन कारणेन पर्यावरणं प्रभावितं भवति । मनुष्यैः आपद्कारकक्षेत्रेषु गहनानि क्रियाकलापानि आरब्धानि । तेन प्राकृतिक्यः आपदः वर्धिताः ।[४]
प्राकृतिकिभिः आपदाभिः हानिः
सम्पादयतु- १९४८ तमे वर्षे सोवियत् सङ्घ (रूस्)-देशे भूकम्पेन १,१०,००० जनानां मृत्युः जातः ।[५]
- १९४९ तमे वर्षे चीन-देशे अतिवृष्ट्या ५७,००० जनानां मृत्युः जातः ।
- १९५४ तमे वर्षे चीन-देशे अतिवृष्ट्या ३०,००० जनानां मृत्युः जातः ।
- १९६५ तमे वर्षे पूर्वी पाकिस्तान-देशे (बाङ्ग्लादेश) उष्णकटिबन्धीयचक्रवातेन ३६,००० जनानां मृत्युः जातः ।
- १९६८ तमे वर्षे ईरान्-देशे भूकम्पेन ३०,००० जनानां मृत्युः जातः ।
- १९७० तमे वर्षे पेरू-देशे भूकम्पेन ६६,७९४ जनानां मृत्युः जातः ।
- १९७० तमे वर्षे पूर्वी पाकिस्तान-देशे (बाङ्ग्लादेश) उष्णकटिबन्धीयचक्रवातेन ५,००,००० जनानां मृत्युः जातः ।
- १९७१ तमे वर्षे भारत-देशे उष्णकटिबन्धीयचक्रवातेन ३०,००० जनानां मृत्युः जातः ।
- १९७६ तमे वर्षे चीन-देशे भूकम्पेन ७,००,००० जनानां मृत्युः जातः ।
- १९९० तमे वर्षे ईरान्-देशे भूकम्पेन ५०,००० जनानां मृत्युः जातः ।
- २००४ तमे वर्षे इण्डोनेशिया-देशे, श्रीलङ्का-देशे, भारत-देशे च सुनामी इत्यनया ५,००,००० जनानां मृत्युः जातः ।
- २००५ तमे वर्षे पाकिस्तान्-देशे, भारत-देशे च भूकम्पेन ७०,००० जनानां मृत्युः जातः ।
- २०११ तमे वर्षे जापान्-देशे सुनामी इत्यनया १५,८४२ जनानां मृत्युः जातः ।
आपदां विशालरूपेण जनानां, धनस्य च हानिः अभवत् । एकाकिने राष्ट्रे आपद्भ्यः रक्षणार्थं शक्तिः नास्ति । अतः १९८९ तमे वर्षे संयुक्त राष्ट्र सामान्य असेम्बली इत्यस्मिन् अस्य विषयस्य प्रस्तावः प्रस्थापितः । १९९४ तमे वर्षस्य मई-मासे जापान्-देशस्य यॉकोहामा-नगरे आपत्प्रबन्धनस्य विश्वसम्मेलने अस्य विषयस्य योजना कृता । तदा इयं योजना "यॉकोहामा रणनीति तथा सुरक्षित संसार के लिए कार्य योजना” इति कथ्यते स्म [६]।
१९९४ तमे वर्षे मई-मासे २३ तः २७ दिनाङ्कपर्यन्तं जापान्-देशस्य यॉकोहामा-नगरे संयुक्तराष्ट्रस्य सदस्यदेशानाम्, अन्यदेशानां च “प्राकृतिक आपदा न्यूनीकरण” इत्यस्मिन् विषये विश्वसम्मेलनम् अभवत् । ’पूर्वं केषुचिद् वर्षेषु प्राकृतिकीभिः आपद्भिः मानवीयजीवने, आर्थिकस्थितौ च क्षतिः अभवत्’ इति प्रस्तावः स्वीकृतः । तेन अस्यां गोष्ठ्यां भविष्यत्कालं विचार्य आपद्भ्यः रक्षणार्थं, क्षतीनां न्यूनीकरणार्थं च नीतयः रचिताः ।’यॉकोहामा रणनीति’ इति तस्याः नाम प्रदत्तम् ।[७]
विश्वसम्मेलने प्राकृतिकीनाम् आपदां न्यूनीकरणार्थं प्रस्तावाः -
- एकैकस्य देशस्य कर्तव्यम् अस्ति यत्, सः प्राकृतिकीभ्यः आपद्भ्यः देशवासिनां रक्षणं कुर्यात् ।
- इयं योजना विकासशीलदेशानां, अल्पविकसितानां देशानां साहाय्येन अग्रणीः भविष्यति ।
- यत्र कुत्रापि साहाय्यार्थम् आवश्यकता भविष्यति, तत्र जनेभ्यः नियमाः भविष्यन्ति । अस्मिन् कार्ये स्वैच्छिकसङघटनानां, सामुदायिकसङ्घटनानां च एकीकरणं भवितव्यम् इति ।
- प्राकृतिकीभिः आपद्भिः रक्षणार्थं, न्यूनीकरणार्थं च उपक्षेत्रीयाणां, क्षेत्रीयाणाम् अन्ताराष्ट्रियसहयोगेन तेषां कार्याणां प्रोत्साहनं भवितव्यम् ।
१९९९-२००० वर्षम् आपन्न्यूनीकरणस्य अन्ताराष्ट्रियदशकत्वेन उद्घोषितम् ।
भारतदेशे प्राकृतिकी, सामाजिकी, सांस्कृतिकी च विविधता वर्तते । भारतस्य बृहत् भौगोलिकः आकारः, पर्यावरणीयाः विविधताः, सांस्कृतिक्यः बहुलताः च इत्येतैः कारणैः भारतम् उपमहाद्वीपः कथ्यते । भारतदेशे विविधाः आपदः सन्ति । ताः आपदः अधः वर्णिताः सन्ति ।
भूकम्पः एका अपूर्वसूचनीया विध्वंसिकी प्राकृतिकी आपद् वर्तते । भूकम्पेन विस्तृतक्षेत्राणि प्रभावितानि भवन्ति । विवर्तनिकगतिविधिभिः उत्पन्नाभिः ऊर्जाभिः भूकम्पः भवति । भू-स्खलनं, भूमेः अवतलनम् इत्यादिभिः निर्मितेन भूकम्पेन अल्पप्रभावः भवति । हानिः अपि अल्पा भवति ।
इण्डियन् प्लेट् इति इदं प्रतिवर्षम् उत्तरे, उत्तर-पूर्व दिशि १ से. मी. सर्पति । उत्तरस्यां दिशि स्थितं यूरेशियन् प्लेट् इति इदम् इण्डियन् प्लेट् इति इदम् अवरोधयति । तेन द्वयोः प्लेट् इत्येतयोः कोणाः उपरुन्धन्ति (lock) । अतः बहूषु स्थानेषु ऊर्जासङ्ग्रहणं भवति । अधिकमात्रायाम् ऊर्जासङ्ग्रणेन द्वयोः उद्वेगः वर्धते । उद्वेगः प्लेट् इत्येतयोः कोणान् उद्घाटयति । तेन कारणेन सहसा कम्पनं भवति । इदं कम्पनम् एव भूकम्पः इति कथ्यते । यत्र कम्पनस्य आरम्भः भवति । तत्स्थानम् उद्गमकेन्द्रं कथ्यते । उद्गमकेन्द्रस्य उपरि भूस्तरे निकटतमं स्थानम् अधिकेन्द्रं कथ्यते । कम्पनम् अधिकेन्द्रात् बहिः तरङ्गरूपेण गच्छति । अधिकेन्द्रस्य निकटतमस्थानेषु सर्वाधिका हानिः जायते । अधिकेन्द्रात् दूरवर्तिषु भागेषु कम्पनस्य तीव्रता न्यूना भवति ।
भूकम्पेन प्रभावितेषु भारतदेशस्य राज्येषु जम्मू-काश्मीरराज्यं, हिमाचलप्रदेश-राज्यं, उत्तराखण्डराज्यं, सिक्किम-राज्यं, पश्चिमबङ्गाल-राज्यस्य दार्जिलिङ्ग-उपमण्डलम्, उत्तरपूर्वदिशि सप्त राज्यानि च सन्ति । मध्यपश्चिमक्षेत्रेषु अपि भूकम्पस्य प्रभावः भवति । गुजरात-राज्यं (१८१९, १९५६, २००१), महाराष्ट्रराज्यं (१९६७, १९९३) च मध्यपश्चिमराज्ये स्तः ।[८]
पुरातनस्य स्थिरशैलप्रस्थस्य भूकम्पानां व्याख्यायां भूवैज्ञानिकाः कष्टम् अनुभवन्ति । "राष्ट्रिय भूभौतिकी प्रयोगशाला, भारतीय भूगर्भीय सर्वेक्षण, मौसम विज्ञान विभाग, भारत सरकार, राष्ट्रीय आपदा प्रबन्धन संस्थान" इत्येताभिः संस्थाभिः भारतस्य १२०० भूकम्पानां गहनतापूर्वकं विश्लेषणं कृतम् । ततः परं ताभिः संस्थाभिः पञ्चभूकम्पीयक्षेत्रेषु भारतं विभक्तम् ।
- अत्यधिकविनष्टसन्दिग्धक्षेत्रम्
- अधिकविनष्टसन्दिग्धक्षेत्रम्
- मध्यमविनष्टसन्दिग्धक्षेत्रम्
- निम्नविनष्टसन्दिग्धक्षेत्रम्
- अतिनिम्नविनष्टसन्दिग्धक्षेत्रम्[९]
भूकम्पस्य सामाजिकाः पर्यावरणीयाः च परिणामाः
सम्पादयतुभूकम्पस्य अपरं नाम भयम् । यतः भूकम्पेन पृथिव्यां बहुतीव्रतया विनाशः भवति । यत्र जनसङ्ख्या अधिका वर्तते तत्र तु भूकम्पेन बहुहानिः भवति । यदि जनसङ्ख्या अधिका वर्तते, तर्हि निवासाय भवनानि अपि अधिकानि भवन्ति । तेन कारणेन हानिः अधिका । भूकम्पेन परिवहनस्य व्यवस्था, सञ्चारस्य व्यवस्था, उद्योगस्य विकासशीलप्रक्रिया च नश्यति । अनेन जनाः गृहहीनाः भवन्ति । विकासशीलदेशानाम् अर्थव्यवस्था अपि प्रभाविता भवति ।[१०]
भूकम्पस्य प्रभावाः
सम्पादयतुभूकम्पेन पृथिव्याः जलमण्डलं, स्थलमण्डलं च प्रभावितं भवति । भूकम्पेन स्थलमण्डले भूमौ अन्तरं (gap), भूस्खलनं, द्रवीकरणं, भू-प्रबलता च भवति । मानवनिर्मितेषु भवनेषु अन्तरं (gap), आकुञ्चनं, निपातः च भवति । जलमण्डले अपि तरङ्गाः, जलस्य गतिशीलप्रबलता, सुनामी च भवति ।
भूकम्पेन भू-पर्पट्याम् अन्तरं भवति । तेन कारणेन भूम्याः जलं, अन्यः ज्वलनशीलपदार्थः च बहिः आगच्छति । जलेन समीपस्थस्य स्थलस्य नाशः भवति ।[११]
भूकम्पात् न्यूनीकरणं संरक्षणम् च
सम्पादयतुअन्यासाम् आपदां तुलनया भूकम्पः अधिकः विध्वंसकारी वर्तते । कारणं भूकम्पेन परिवहनव्यवस्था, सञ्चारव्यवस्था च नष्टा भवति । अतः जनेभ्यः सुरक्षाव्यवस्थायां काठिन्यं भवति । भूकम्पात् संरक्षणं कर्तुं शक्यते, किन्तु तस्य अवरोधनम् अशक्यं भवति । अतः तस्मात् संरक्षणं करणीयम् एव । जनाः पूर्वजागरूकाः भवेयुः । भूकम्पस्य पूर्वसूचना प्राप्तुं शक्यते । यथा -
- भूकम्पनियन्त्रणकेन्द्रस्य स्थापना करणीया । तेन कारणेन भूकम्पसम्भावितक्षेत्रेषु सूचना प्रसारणीया । जी. पी. एस्. (Geographical Positioning System) अनेन उपकरणेन प्लेट् इत्यस्य परिवर्तनस्य ज्ञानं प्राप्यते ।
- भूकम्पेन प्रभावितक्षेत्राणां मानचित्रस्य निर्माणं करणीयम् । जनेभ्यः भूकम्पस्य प्रभावन्यूनीकरणार्थं शिक्षणं दातव्यम् ।
- भूकम्पेन प्रभावितक्षेत्रेषु भवनानाम् आकृतिः परिवर्तनीया । तत्र उच्चभवनानां निर्माणं न करणीयम् ।
- भूकम्पेन प्रभावितक्षेत्रेषु भूकम्पप्रतिरोधिभवनानां निर्माणं करणीयम् ।[१२]
त्सुनामी
सम्पादयतुभूकम्पेन ज्वालामुखिना महासागरीये भूतले सहसा चापल्यं भवति । तेन महासागरीयजलस्य विस्थापनं भवति । तेन परिणामेन ऊर्ध्वाधः उच्चतरङ्गाः उत्पन्नाः भवन्ति । ते तरङ्गाः सुनामी इति कथ्यन्ते । सामान्यतः प्रारम्भे एक एव ऊर्ध्वाधः तरङ्गः जायते । समयान्तरे तरङ्गाणां शृङ्खला भवति ।
महासागरे जलतरङ्गस्य गतिः जलस्य गहनतायाः उपरि निर्भरा । अस्य तरङ्गस्य गतिः सामान्यसागरे अधिका, गहनसागरे न्यूना च भवति । तेन कारणेन महासागरस्य आन्तरिकभागे तरङ्गैः न्यूनः प्रभावः भवति । तटीयक्षेत्रेषु तरङ्गाः अधिकाः प्रभाविनः भवन्ति । तेन कारणेन अधिका क्षतिः भवति । सुनामी इति इदं सामान्यतः प्रशान्तमहासागरे, हिन्दमहासागरे च भवति । अलास्का, जापान्-देशः, फिलिपाइन-देशः, दक्षिण-पूर्व एशिया, इण्डोनेशिया, मलेशिया च प्रशान्तमहासागरस्य तटवर्तीनि क्षेत्राणि सन्ति । म्यांमार-देशः, श्रीलङ्का-देशः, भारतदेशः च हिन्दमहासागरस्य तटवर्तीनि क्षेत्राणि सन्ति । तरङ्गाः तटं प्राप्य बह्व्यः उर्जाः उत्पादयन्ति । तेन कारणेन जलं तटीयनगरेषु स्थलेषु च शीघ्रं प्रविशति । अतः तरङ्गाः भवनानि नाशयन्ति । विश्वस्मिन् तटीयक्षेत्रेषु जनसङ्ख्यायाः प्रमाणम् अधिकं भवति । तानि क्षेत्राणि मानवगतिविधीनां केन्द्राणि भवन्ति । सुनामी इत्यस्य प्रमाणम् अन्याभिः आपद्भिः अधिकं भवति । अतः सुनामी इत्यस्य प्रभावस्य न्यूनीकरणे काठिन्यं भवति ।
सुनामी इत्यस्मात् संरक्षणार्थम् अन्ताराष्ट्रियस्तरीयाः प्रयासाः आवश्यकताः आसन् । अतः २००४ तमस्य वर्षस्य दिसम्बर-मासस्य २६ तमे दिनाङ्के चैन्नै-महानगरे सुनामी इत्यस्य काले अन्ताराष्ट्रियप्रयासाः अभुवन् । यद्यपि पूर्वसूचनानुसारं सतर्कता आसीत्, तथापि तस्मिन् सुनामी इत्यस्मिन् ३ लक्षं जनाः मृताः । ततः भारतदेशः "अन्ताराष्ट्रिय सुनामी चेतावनी तन्त्र" इत्यनेन सह संयुक्तः जातः ।[१३]
उष्णकटिबन्धीयः चक्रवत्
सम्पादयतुउष्णकटिबन्धीयः चक्रवत् ३०º उत्तरे, ३०º दक्षिणे अक्षांशयोः मध्ये प्राप्यते । अयं प्रायः ५०० कि. मी. तः १००० कि. मी. पर्यन्तं विस्तृतः वर्तते । अस्य औन्नत्यं १२ कि. मी. तः १४ कि. मी. पर्यन्तं भवति इति अनुमानम् । उष्णकटिबन्धीयचक्रवत् उष्मायन्त्ररूपेण विद्यते । समुद्रतलात् प्राप्य जलबाष्पस्य सङ्घननप्रक्रियया अयम् उष्मां प्राप्नोति ।
उष्णकटिबन्धीयचक्रवतः उत्पत्तिविषये वैज्ञानिकानां मतभेदाः सन्ति । अस्य उत्पत्तौ निम्नलिखिताः परिस्थितयः आवश्यक्यः वर्तन्ते ।
- पर्याप्तमात्रायाम् उष्णार्द्रवायोः निरन्तरं प्राप्तिः भवेत् , येन अधिकमात्रायां गुप्तोष्मा मुक्ता भवेत् ।
- क्षोभमण्डलस्य स्थिरता, यया स्थानीयस्तरे निम्नवायुप्रबलताक्षेत्रं निर्माति । इमं क्षेत्रं परितः अपि चक्रवत् भवितुं शक्नोति ।
- प्रबलशम्यायाः अनुपस्थितिः, यया गुप्तार्द्र-उष्मवायोः उष्मा अवरुध्यते ।[१४]
उष्णकटिबन्धीयचक्रवतः संरचना
सम्पादयतुउष्णकटिबन्धीयचक्रवति वायुप्रबलतायाः प्रवणता अत्यधिका वर्तते । चक्रवतः केन्द्रे उष्णवायोः निम्नवायुप्रबलतायाः मेघरहितः क्रोड इति विद्यते । अयं ’चण्डवातस्य चक्षुः’ इति कथ्यते । सामान्यतः समप्रबलतायाः रेखाः परस्परं समीपाः भवन्ति । ताः उच्चवायुप्रबलताप्रवणतायाः प्रतीकं वर्तन्ते । वायुप्रबलता प्रवणता १४ तः १७ मिलिबार् वा १०० कि. मी. पर्यन्तं भवितुं शक्नोति । कस्मिंश्चित् समये ६० मिलिबार वा १०० कि. मी. पर्यन्तं भवितुं शक्नोति ।[१५]
भारतस्य आकृतिः प्रायद्वीपीया अस्ति । अस्य पूर्वदिशि बङ्गाल प्रदेशस्य गर्तः , पश्चिमदिशि अरब-सागरः वर्तते । अतः अनयोः स्थलयोः एव चक्रवतः उत्पद्यते । वर्षर्तौ १०º तः १५º उत्तराक्षांशेषु चक्रवत् उत्पद्यते । बङ्गाल राज्यस्य गर्ते अधिकतमः अक्टुबर्-नवम्बरमासयोः चक्रवत् उत्पद्यते । तत्र १६º तः २१º उत्तरे, ९२º पूर्वदेशान्तरतः पश्चिमदिशि उत्पद्यते । किन्तु जुलाई-मासे अयं चक्रवत् सुन्दरवन-डेल्टा इत्यस्य समीपं १८º उत्तरे, ९०º पूर्वदेशान्तरतः पश्चिमदिशि उत्पद्यते ।[१६]
उष्णकटिबन्धीयचक्रवतां परिणामाः
सम्पादयतुउष्णकटिबन्धीयः चक्रवत् समुद्रस्य गुप्तोर्जया उत्पद्यते । अतः समुद्रात् दूरं चक्रवतः प्रभावः न्यूनः भवति । भारत-देशे अपि चक्रवत् यदा अरब-सागरात् दूरं गच्छति, तदा तस्य प्रभावः न्यूनः भवति । तटीयक्षेत्रेषु प्रायः उष्णकटिबन्धीयचक्रवत् १८० कि. मी. प्रतिघण्टा इति गत्या आविध्यति । तेन कारणेन चण्डवातीयक्षेत्रेषु समुद्रतले परिवर्तनं भवति । तत् परिवर्तनं “तूफान महोर्मि” इति कथ्यते । तेन तटीयक्षेत्राणि जलमग्नानि भवन्ति । सस्यानां, मानवीयरचनायाः अपि नाशः भवति ।[१७]
अतिवृष्टिः
सम्पादयतुवर्षर्तौ नदीनां जलस्य स्तरः वर्धते । स्तरसीमायाः परं जलं बहिरागच्छति । तेन कारणेन नदीनां जलं मानवीयप्रदेशं प्रविशति । निरन्तरं वर्षायाः कारणेन जलस्य स्तरः बहु वर्धते । तेन कारणेन अतिवृष्ट्याः स्थितिः निर्मीयते । अतिवृष्टिः सहसा न भवति । केषुचित् क्षेत्रेषु एव भवति । अन्याभ्यः आपद्भ्यः अतिवृष्ट्याः कारणानि मिलन्ति । यदा नदीषु जलवाहिकासु क्षमतायाः अधिकः जलप्रवाहः भवति, तदा अतिवृष्टिः कथ्यते । अतिवृष्ट्याः अन्यानि बहूनि कारणानि अपि सन्ति । यथा –
- तटीयक्षेत्रेषु ’तूफान महोर्मि’ इति ।
- दीर्घकालं यावत् वर्षा भवेत् ।
- हिमद्रवः भवेत् ।
- भूमेः अन्तःस्पन्दनमाने अल्पता ।
- मृत्तिकायाः अपरदने वृद्धिः भवेत्, तर्हि नदीनां जलस्तरे वृद्धिः ।[१८]
अतिवृष्टिः विशेषतः विस्तृतक्षेत्रेषु आगच्छति । तदा विनाशः अपि अधिकः भवति । अस्याः आपदः मानवः स्वयम् एव कारणम् अस्ति । वनच्छेदनेन, अवैज्ञानिककृषिपद्धत्या च अतिवृष्टौ तीव्रता आगच्छति । अतिवृष्ट्याः विध्वंसतायां वृद्धिः भवति
भारतस्य विभिन्नराज्येषु पौनःपुन्येन अतिवृष्ट्या बहुविधा हानिः भवति । "राष्ट्रिय बाढ आयोग" इत्यनेन देशस्य ४ कोटि हैक्टेयर् मिती भूमिः अतिवृष्ट्याः प्रभावितक्षेत्ररूपेण उद्घोषिता अस्ति । तेषु असम-राज्यं, पश्चिमबङ्गाल-राज्यं, बिहार-राज्यम् अस्ति । अनन्तरम् उत्तरभारतस्य अधिकतमाभिः नदीभिः पञ्जाब-राज्ये, उत्तरप्रदेश-राज्ये च अतिवृष्टिः भवति ।[१९]
अतिवृष्टेः परिणामाः नियन्त्रणं च
सम्पादयतुअसम-राज्ये, पश्चिमबङ्गाल-राज्ये, बिहार-राज्ये, उत्तरप्रदेश-राज्ये, ओडिशा-राज्ये, आन्ध्रप्रदेश-राज्ये, तमिळनाडु-राज्ये, गुजरात-राज्ये, हरियाणा-राज्ये इत्यादिषु राज्येषु अतिवृष्टेः प्रभावः अधिकः वर्तते । तेन कारणेन भारतस्य अर्थव्यवस्था शिथिला जाता । अतिवृष्ट्या केवलं सस्यानि न नश्यन्ति, अपि तु मानवीयसंरचनायाः अपि नाशं भवति । यथा – परिवहनतन्त्रम्, जनानाम् आवासः इति । अतिवृष्ट्या ग्रसितक्षेत्रेषु बहवः रोगाः उत्पद्यन्ते । यथा – हैजा, आन्त्रशोथ, हेपेटाईटिस् इत्यादयः रोगाः भवन्ति । किन्तु अतिवृष्ट्या लाभः अपि अस्ति । अतिवृष्टिः क्षेत्रेषु उर्वरमृत्तिकाः आनयति । तेन सुसस्यानि भवन्ति । ब्रह्मपुत्रनद्यां स्थितः मजौली-नामकः एकः नदीयद्वीपः अस्ति । सः सदा अतिवृष्ट्या ग्रसितः भवति, परन्तु तत्र तण्डुलानां कृषिः समीचीना भवति । तथापि अयं लाभः गौणः गण्यते ।
भारतसर्वकारः, राज्यसर्वकारः च अस्याः आपदः अवगतः अस्ति । अस्याः आपदः निवारणार्थं सर्वकारेण निम्नलिखितानि महत्वपूर्णानि आयोजनानि कृतानि ।
- अतिवृष्ट्याः प्रभावितक्षेत्रेषु तटबन्धनिर्माणम् ।
- नदीषु जलबन्धनिर्माणम् ।
- नद्याः समीपवर्तिनां जनानाम् अन्यत्र आवासव्यवस्था करणीया ।[२०]
अनावृष्टिः
सम्पादयतुदीर्घकालं यावत् वर्षायाः अभावेन, अधिकबाष्पीकरणेन, जलाशयानां भूमिगतजलस्य अत्यधिकप्रयोगेण च पृथिव्यां जलस्य अभावः भवेत् । सा अनावृष्टिः कथ्यते ।
इयम् आपद् एका जटिला परिघटना वर्तते । अस्याः परिघटनायाः बहवः प्रकाराः सन्ति । यथा – वृष्टिः, बाष्पीकरणं, बाष्पोत्सर्जनं, कृषिपद्धतिः इत्यादयः ।[२१]
अनावृष्टेः प्रकाराः
सम्पादयतुऋतुविज्ञानसम्बद्धा अनावृष्टिः
सम्पादयतुअस्यां स्थितौ दीर्घकालं यावत् अपर्याप्तवर्षा भवति । अस्याः सामयिकं स्थानिकं च वितरणम् अपि असन्तुलितं भवति ।
कृषिसम्बद्धा अनावृष्टिः
सम्पादयतुइयं भूमि-आर्द्रता अनावृष्टिः अपि कथ्यते । मृत्तिकायाम् आर्द्रतायाः अभावेन सस्यानि नश्यन्ति ।
जलविज्ञानसम्बद्धा अनावृष्टिः
सम्पादयतुयदा जलाशयानां, नदीनां, तडागानाम् च स्तरे न्यूनता भवेत्, तदा इयं स्थितिः उत्पद्यते ।
पारिस्थितिकी अनावृष्टिः
सम्पादयतुयदा प्राकृतिकपारिस्थितिकतन्त्रे जलस्याभावे उत्पादकतायां न्यूनता भवेत्, तदा पारिस्थितिकी अनावृष्टिः कथ्यते । तेन कारणेन तत्क्षेत्रं शुष्कं भवति ।[२२]
भारतदेशस्य अनावृष्ट्या प्रभावितानि क्षेत्राणि
सम्पादयतुभारतीया कृषिः वर्षायां निर्भरा वर्तते । भारतीयजलवायोः तन्त्रे अनावृष्टिः, अतिवृष्टिः च महत्वपूर्णं तत्त्वम् अस्ति । वैज्ञानिकानाम् अनुमानानुसारेण भारत-देशे भौगोलिकक्षेत्रस्य १९% भागः, जनसङ्ख्यायाः ३०% भागः च अनावृष्ट्या प्रभावितः भवितुं शक्नोति । अतः भारतस्य ५ कोटिः जनाः अनावृष्ट्या प्रभाविताः सन्ति । प्रायः एतावत् अपि दृष्टम् अस्ति यत्, केषुचित् भागेषु अतिवृष्टिः भवति, अन्यत्र केचित् भागाः अनावृष्ट्या प्रभाविताः भवन्ति । एतादृशी स्थितिः वर्षर्तौ परिवर्तनशीलतायाः कारणेन भवति । तेन कारणेन भारतस्य विभिन्नक्षेत्राणां त्रिषु भागेषु विभाजनं कृतम् अस्ति ।[२३]
अत्यधिक-अनावृष्टिप्रभावितक्षेत्रम्
सम्पादयतुराजस्थान-राज्यस्य अधिकतमः भागः, गुजरात-राज्यस्य कच्छक्षेत्रं च अत्यधिक-अनावृष्टिप्रभावितक्षेत्रं वर्तते । तेषु राजस्थान-राज्यस्य जैसलमेर-मण्डलं, बाडमेर-मण्डलं च अपि प्रभावितम् अस्ति । तत्र ९० मि. मी. इत्यस्मात् अपि न्यूना वर्षा भवति ।
अधिक-अनावृष्टिप्रभावितक्षेत्रम्
सम्पादयतुराजस्थान-राज्यस्य पूर्वीभागः, मध्यप्रदेश-राज्यस्य अधिकतमः भागः, महाराष्ट्र-राज्यस्य पूर्वीभागः, आन्ध्रप्रदेश-राज्यस्य आन्तरिकभागः, कर्नाटक-राज्यस्य शैलप्रस्थः, तमिळनाडु-राज्यस्य औत्तरीयभागः, झारखण्ड-राज्यस्य दक्षिणभागः, ओडिशा-राज्यस्य आन्तरिकभागः च अधिक-अनावृष्टिप्रभावितक्षेत्रम् अस्ति ।
मध्यम-अनावृष्टिप्रभावितक्षेत्रम्
सम्पादयतुराजस्थान-राज्यस्य औत्तरीयभागः, हरियाणा-राज्यं, उत्तरप्रदेश-राज्यस्य कानिचित् मण्डलानि, गुजरात-राज्यस्य अन्यानि शेषमण्डलानि, महाराष्ट्र-राज्यं, झारखण्ड-राज्यं, तमिळनाडु-राज्यस्य कोयम्बटुर-शैलप्रस्थः, कर्नाटक-राज्यस्य आन्तरिकभागः मध्यम-अनावृष्टिप्रभावितक्षेत्रं वर्तते ।
भारतस्य शेषाः भागाः अल्पप्रभाविताः सन्ति ।
अनावृष्ट्याः परिणामाः
सम्पादयतुअनावृष्ट्याः समाजे प्रभावः भवति । सस्यानां नाशात् अन्नस्य अल्पता भवति | तादृशी स्थितिः अकालः कथ्यते । तृणानाम् अभावे जन्या स्थितिः तृण-अकालः कथ्यते । जलस्याभावे जन्या स्थितिः जल-अकालः कथ्यते । एताः तिस्रः स्थितयः मिलित्वा त्रि-अकालः कथ्यन्ते । इयं स्थितिः विध्वंसिका भवति । अनावृष्ट्या पशूनां, पशुपालकानां मृत्युः भवति । जलस्य अभावेन जनाः दूषितजलं पिबन्ति । दूषितजलस्य पानेन आन्त्रशोथ, हैजा, हेपेटाईटिस् च इत्यस्मात् रोगैः जनाः पीडिताः भवन्ति । सामाजिकं, प्राकृतिकं च पर्यावरणम् अनावृष्ट्या तात्कालिकम् एव प्रभावितं भवति । अस्य प्रभावः दीर्घकालिकः भवति ।[२४]
भूस्खलनम्
सम्पादयतुपृथिव्याः सर्पणप्रक्रिया भूस्खलनं कथ्यते । भूस्खलनेन समीपस्थं स्थलं प्रभावितं भवति । अन्याभ्यः आपद्भ्यः भूस्खलनं सामान्यं वर्तते । किन्तु प्राकृतिकपर्यावरणे, राष्ट्रियार्थव्यवस्थायां च अस्य प्रभावः अधिकः भवति । भूस्खलनं मुख्यत्वेन स्थानीयकारणैः उत्पद्यते । अस्याः आपदः अनुमानं कर्तुं कठिनं भवति । भारतस्य विभिन्नक्षेत्राणां चतुर्षु क्षेत्रेषु विभाजनं कृतम् अस्ति ।[२५]
अत्यधिकभूस्खलनसुभेद्यताक्षेत्रम्
सम्पादयतुहिमालयपर्वतस्य अस्थिरपर्वतशृङ्खलाः, अण्डमान-निकोबारद्वीपसमूहः, पश्चिमीघट्टः, उत्तर-पूर्वीक्षेत्रम् च अत्यधिकभूस्खलनसुभेद्यताक्षेत्रे सम्मिलितम् अस्ति । मानवीयसंसाधनम् अपि अस्मिन् क्षेत्रे सम्मिलितं वर्तते । यथा – मार्गनिर्माणं, जलबन्धनिर्माणम् इत्यादीनि कार्याणि सन्ति ।
अधिकभूस्खलनसुभेद्यताक्षेत्रम्
सम्पादयतुअस्य क्षेत्रस्य परिस्थितिः अत्यधिकभूस्खलनसुभेद्यताक्षेत्रस्य स्थित्या सह किञ्चित् समाना दृश्यते । हिमालयक्षेत्रस्य सर्वाणि राज्यानि, भारतस्य उत्तरपूर्वीभागः (असम-राज्यं विहाय) च अस्य क्षेत्रे सम्मिलितानि सन्ति ।
मध्यमन्यूनभूस्खलनसुभेद्यताक्षेत्रम्
सम्पादयतुभारत-देशस्य झारखण्ड-राज्यम्, ओडिशा-राज्यं, छत्तीसगढ-राज्यं, मध्यप्रदेश-राज्यं, महाराष्ट्र-राज्यम्, आन्ध्रप्रदेश-राज्यं, कर्नाटक-राज्यं, तमिलनाडु-राज्यं, गोवा-राज्यं, केरल-राज्यं च मध्यमन्यूनभूस्खलनसुभेद्यताक्षेत्रम् अस्ति ।[२६]
अन्यक्षेत्रम्
सम्पादयतुभारत-देशस्य अन्यानि क्षेत्राणि भूस्खलनात् पीडितानि सन्ति । यथा – राजस्थान-राज्यं, हरियाणा-राज्यम्, उत्तरप्रदेश-राज्यं, बिहार-राज्यं, पश्चिमबङ्गाल-राज्यं (दार्जिलिङ्ग-मण्डलं विहाय), असम-राज्यं च ।
भूस्खलनस्य परिणामाः
सम्पादयतुभूस्खलनस्य प्रभावः लघुक्षेत्रेषु दृश्यते । मार्गेषु अवरोधेन, रेलमार्गे अवरोधेन, जलवाहिकासु शैलानां पतनेन च गम्भीरपरिणामाः भवन्ति । भूस्खलनेन नदीनां मार्गे अवरोधः भवति । तेन कारणेन नदीनां जलं नगरं प्रविशति । अतः जनानां, मानवीयसम्पत्तेः च नाशः भवति । नाशात् परम् आवागमने अवरोधः भवति । अवरोधेन विकासकार्याणां गतिः न्यूना भवति ।[२७]
निवारणम्
सम्पादयतुभूस्खलन्यात् रक्षणार्थं विभिन्नक्षेत्रेषु विभिन्नाः उपायाः चिन्तनीयाः । अधिकभूस्खलनसम्भावितक्षेत्रेषु मार्गाणां जलबन्धानां च निर्माणे प्रतिबन्धः करणीयः । बृहद्विकासपरियोजनासु नियन्त्रणं भवितव्यम् ।[२८]
निष्कर्षः
सम्पादयतु- आपदः मानवीयाः प्राकृतिक्यश्च सन्ति । आपदां नियन्त्रणं कठिनं भवति । तेषु अपि प्राकृतिकीनाम् आपदां नियन्त्रणम् असम्भवम् एव । किन्तु आपद्भ्यः रक्षणार्थं मानवैः प्रयासः करणीयः । अतः तेषां निवारणार्थं तिस्रः अवस्थाः कृताः । आपदां पूर्वं, आपत्समये, आपदः परं च ।
- आपदः पूर्वम् आपद्विषयिकीः सूचनाः एकीकृत्य आपत्सम्भावितक्षेत्राणां मानचित्राणि निर्मापणीयानि । जनेभ्यः अस्याः आपदः सूचना दातव्या । आपदः पूर्वम् आपद्योजना निर्मापणीया । आपदः रक्षणार्थम् उपायाः करणीयाः ।
- आपत्समये अर्थसाहाय्यार्थं कार्याणि करणीयानि । आपद्ग्रस्तजनानाम् आश्रयस्य , जलस्य, भोजनस्य, औषधीनां च व्यवस्था करणीया ।
- आपदः परम् आपदः प्रभावितजनानां रक्षणं, पुनर्वासं च विधेयः ।
- भारत-देशस्य ६६% जनाः आपदाभ्यः प्रभाविताः सन्ति । अतः एते उपायाः महत्वपूर्णाः सन्ति ।[२९]
सम्बद्धाः लेखाः
सम्पादयतुबाह्यानुबन्धः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये प्राकृतिकी आपद् सम्बन्धिताः सञ्चिकाः सन्ति। |
सन्दर्भः
सम्पादयतु- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 81. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 82. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 82. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 83. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 83. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 83. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 84. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 85. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 85. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 85. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 87. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 87. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 87-88. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 88. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 88-89. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 89. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 89. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 89. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 91. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 91. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 91. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 93. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 93. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 95. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 95. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 96. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 96. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 96. ISBN 8174505598.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 97. ISBN 8174505598.