अनर्घराघवं नाम सप्ताङ्कविस्तरं नाटकं वर्धमानस्य तनूजन्मा मुरारिः प्रणीय बालवाल्मीकिरिति नामापि लेभे । रामकथायाः विकासमुद्दिश्य कृतेन विचारेणायं भवभूति-राजशेखरयोर्मध्ये क्वापि विराजत इति मन्यते। तथा च प्रायेण ८७५ ख्रीष्टाब्दे स्थितिरित्यपि निश्चीयते, भवभूतिर्हि अष्टमे ख्रीष्टाब्दे राजशेखरश्च नवमे ख्रीष्टाब्दे बभूवतुरिति निश्चितप्रायम् । अनर्घरावस्य स्थलेषु महिष्मती नगरी कलचुरि-राजश्चोल्लिखिताविति स तदाश्रितो बभूवेत्यपि अनुमीयते।

अनर्घराघवम्  
Taraka Ramayana.jpg
ताटकावधस्य दृश्यम्
लेखकः मुरारिः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

मुरारेरेकमेव नाटकं यत् कथया भवभूतेर्महावीरचरितमनुकरोति । यदि भवभूतेः कविता सरला मनोहरा च कथ्यते तदाऽस्य कविता प्रौढा साऽलङ्कारा झ्ङ्कारशालिनी च । मुरारेः कवितायाः कठिनता तद्रसानुभवपरिपन्थिनीति सत्यं भवितुमर्हति, परन्तु तस्या श्रूयमाणायां सत्यामेव कोऽपि हर्षमिश्रोऽवधानसम्मुखीभावः प्रादुर्भवति । दृश्यताम् –

                क्रियाणां रक्षायै दशरथमुपस्थाय विमुखे
                         मुनौ विश्वामित्रे भगवति गते सम्प्रति गृहान् ।
                तपोलेशक्लेशादुपशमितविध्नप्रतिभये,
                          प्रवृत्ते वा यष्टुं रघुकुलयैवास्तमयते ॥

कीदृशी प्रसन्नता, कीदृशं च वाक्यपाटवम् ! रामे वनवासप्रस्थानकाले गङ्गां तरति सति कविनोक्तम् –

                 तीर्त्त्वा भूतेशमौलिस्रजममरधुनीमात्मनाऽसौ तृतीय
                          स्तस्मै सौमित्रिमैत्रीमयमुपहृतवानातरं नाविकाय
                 व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदञ्चदक्ष
                          कृच्छादन्वौयमानः क्षणमचलमथो दक्षिणेन प्रतस्थे ॥

अस्य कवेर्गाढबन्धता पाश्चात्येभ्यो न रोचते, बिल्सनमहोदयोऽस्य कवितायाः सम्बन्धेऽभिहितवान् – साम्प्रतिका हिन्दवो विचारप्रकर्षमनुतिमार्दवं कल्पनाकामनीयकञ्च विभावयितुं मनागिव क्षमाः, अत एव हिन्दुविद्वांसोऽन्याय्यं गौरवं मुरारये प्रदत्तवन्तः । ये पुनरिदमीयमनर्घराघवमधीयते ते मुरारेः प्रशंसामुचितामेव मन्यते । अनर्घराघवस्य प्रस्तावनातोऽस्य जननीजनकयोर्नामनी 'वर्धमानतन्तुमती’ इति ज्ञायेते

कथावस्तुसम्पाद्यताम्

वसिष्ठो वामदेवेदशरथमादिशद् - न तव द्वाराद् याचको विमुखो गच्छेदिति । तदनु समागत्य विश्वामित्रो यज्ञरक्षायै राम-लक्ष्मणौ स्वमाश्रममनयत् । वाली रावण-मैत्रं चकारेति जाम्बवान नासहत। स च सुग्रीवं हनुमन्तं चान्वमन्यत वालिनं विहाय ऋष्यमूकं गन्तुम् । वालिने दुर्बलं वीक्ष्य रावणः खरं दूषणं त्रिशिरसं च सेनासंवलितान् कृत्वा समुद्रस्योत्तरस्यां दिशि स्थापयामास । तत् एव ताटका मनुष्यमण्डले विहर्तुं विश्वामित्राश्रमं समागता। तत्कृतान् प्रत्यूहान् वारयितुं मुनिराहूतवान् रामम्, दिव्यानि चास्त्राणि तस्मै प्रादात् । निशीथे सुबाहु-मारीचाभ्यां सहागतां ताटकां परिचित्य मुनिः तान् हन्तुं राममादिशत् । मारीचादृते रामो हतवान् तौ मातापुत्रौ।

विश्वामित्रो रामलक्ष्मणौ जनकपुरमनयत् जनकश्च रामं सीतायोग्यं वरं मन्वानोऽपि तस्य धनुषः सज्यीकरणं प्रति संदिग्धः आसीत् । अत्रान्तरे रावणस्य पुरोधाः शोकल आगत्य रावणाय सीतां जनके ययाचे, शतानन्दाद् धनुः सज्यं कर्तुं जनकस्य प्रतिज्ञां श्रुत्वा तेनोक्तं माहेश्वरो दशाननो न शिवस्य चापमवमन्तुमुत्सहते स्म इति । स यावदवद्यप्रयोगे व्यापृत एवासीत् तावदेव रामो धनुर्बभञ्ज । सीरध्वजस्य कन्ये सीतोर्मिले क्रमेण रामलक्ष्मणाभ्यां दत्ते। रावणदूतो जनकं सीरध्वजं तर्जितवान् - "पोलस्त्य-हस्तवर्तिन्या सीतया तु भविष्यते।"

रामं प्रति चाकथयत् - "अरे राम त्वं, मा जनकपति-पुत्रीमुपयथाः।।"

तदनु जाम्बवान् शबरीं नियुक्तवान् – भरतं प्रति कैकेय्या प्रेषिताया निदाघदाहेन मृताया मन्थराया देहं प्रविश्य कैकेय्याः कुटपत्रं मिथिलायां प्रेषिताय दशरथाय समर्पयेति । तत्रैव दशरथो रामं राज्येऽभिषेक्तुं स्वयं च वनाय प्रस्थातुमियेष, किन्तु कुटपत्रेण सीतया लक्ष्मणेन च सार्धं रामं चतुर्दश वर्षाणि वने प्रवासयितुं भरतं चाभिषेक्तुं विवशीकृतः । मन्थरायाः शरीरं विहाय शबरी हनूमता रक्षितं स्वशरीरं प्रविश्य शृङ्गवेरपुरे यथावत् स्थितिं लेभे । शृङ्गवेरपुर एव गङ्गां तीर्त्वा रामचन्द्रश्चित्रकूटं प्राप्तवान् । भरतश्चित्रकूटं गत्वा कूटपत्रं प्रति कैकेयीं निर्दोषं न्यवेदयत्, राज्यं स्वीकतुं च रामं प्रार्थयत, परन्तु रामः प्रवासं पितुरादेशमेवामन्यत । भरतोऽपि रामस्य पादुके प्रतिष्ठाप्य नन्दिग्रामे वसन् न्यासमिव कोसलराज्यमरक्षत्।

परिशीलनम्सम्पाद्यताम्

शेषपरिशीलनेन कथायोजनायां न कश्चनावापश्चमत्कारपदवीमारोहति । रामो वालिनं द्वन्द्वयुद्धे परास्यन्न तु तरुतिरोहितवपुरनार्यमाचचारेत्यपि किंचित् किंचिदावर्जयति सहृदयानां मनांसि । दशकण्ठं निहत्य सीतामग्नौ परीक्ष्य रामः पुष्पकेण प्रत्याजगामायोध्यामितिविदितचर एव वृतान्तः । मध्यमार्गे भौगोलिक-स्थानानां वर्णने नूतनता प्रतिभाति । मुरारिविश्वामित्रकृतां प्रार्थनामारभ्यान्ते रामराज्याभिषेकान्तां कथामनर्घराघवेऽवर्णयत्। मुरारी राममुखान्नाटकान्ते काव्यालोकस्य लक्षणं व्याख्यातवान् -

"न शब्दब्रह्मोत्थं परिमलमनाघ्राय च जनः ।

कवीनां गम्भीरे वचसि गुणदोषौ रचयतु॥"[१]

इत्यसौ समीक्षकान् भर्त्सयत्येव । किन्तु शब्दब्रह्मवाद एव न कैवल्येन काव्यनिकषत्वमादधाति । तत्कृतेऽर्थगौरवमपेक्ष्यते, न केवला पदयोजना-चातुरी, यथा केचन निर्दिशन्ति -

मुरारिपदचिन्तायां भवभूतेस्तु का कथा।

भवभूतिं परित्यज्य मुरारिमुररीकुरु॥ इति ।।

अथ पदचिन्तापरत्वमेव लक्ष्यते, न रसनिष्पत्ति-प्रावीण्यम् । अत एवेदमप्याहुः -

मुरारिपदचिन्ता चेत् यदा माघे मतिं कुरु।

अस्ति मुरारेर्माघस्य शब्दकोश-पाण्डित्यं महितं शक्तिश्चापूर्वा राघवस्यानर्धामनघां च कथां परिवर्त्य योजयितुं, किन्तु नैतावतैवासौ भवभूति वा माघं वोभौ वा प्रतियोक्तुं क्षमते । भवभूतेश्छायैव क्वचित् कदाचित् केषाञ्चिन्मनो हरेत् -

स्फुरति जडता, बाष्पायेते दृशौ, गलति स्मृति-

र्मयि रसतया शोको भावश्चिरेण विपच्यते।।[२]

इत्यहो अनुभावमुखेन स्थायिभावस्य रसात्मको विपाक एव काव्यत्वं नीयमानो विलोक्यते ।

नात्र सन्देहो यत्कविर्यौवनस्य रामणीयकं प्रत्यग्रयैव तूलिकया चित्रयांचकार, किन्तु नाटकस्य विस्तारे ईदृशान्येवाङ्गप्रथनानि नायकौशलं प्रबन्धपाटवं च तिरयन्ति। प्रमदाः (महिलाः) प्रति लोलायमाना मुरारेलाः सर्वत्र प्रसृताः प्रतिभान्ति । यथा -

पौलोमी-कुच-पत्रभङ्ग-रचना-चातुर्यमध्यापितः।

तथापि सन्ति तथाभूतानि काव्य-बन्ध-व्यतिकर-चेष्टितानि यथा वशंवदयन्ति रसिकानां चेतांसि -

अभेदेनोपास्ते कुमुदमुदरे वा स्थितवतो

विपक्षादम्भोजादुपगतवतो वा मधुलिहः।

अपर्याप्तः कोऽपि स्व-पर-परिचर्या-परिचयः

प्रबन्धः साधूनामयमनभिसन्धान-मधुरः।।[३]

अतिरञ्जनामनूरीकृत्य सूक्ष्मेक्षिकया निरीक्षितश्चेन्मुरारिस्तर्हि भवभूतेः लालित्यं माघस्य पदसौष्ठवमुरीकृत्यापि कामपि नवामभिख्यां पुष्णाति।

सम्बद्धाः लेखाःसम्पाद्यताम्

बाह्यसम्पर्कतन्तुःसम्पाद्यताम्

उद्धरणानिसम्पाद्यताम्

  1. ७.१५१
  2. ५.२२
  3. ६.६
"https://sa.wikipedia.org/w/index.php?title=अनर्घराघवम्&oldid=436949" इत्यस्माद् प्रतिप्राप्तम्