अनुभूतविषयासंप्रमोषः स्मृतिः (योगसूत्रम्)

अनुभूतविषयासंप्रमोष: स्मृति:

शब्दार्थः

सम्पादयतु

अनुभूतः प्रमाणादिभिः ज्ञातः यो विषयः घटादिः, तस्य असम्प्रमोषः (नञ् + सम् +प्र+/मुष् + घञ्) = अनपह्नवः, अविकला उपस्थितिः।

अनुभूतविषयाणां ( चित्ते ) उपस्थितिः ( अलोपः ) 'स्मृति'-नामिका वृत्तिः भवति।

(Memory is when the perceived (अनुभूत) objects do not slip away and through impressions come back to consciousness.)

सूत्रार्थः

सम्पादयतु

अनुभूतविषयस्य ( चित्ते ) उपस्थितिः ( अस्तेया ) 'स्मृतिः'-नामकवृत्तिः उच्यते ॥ ११ ॥

Recollection or memory (स्मृतिः) is mental modification caused by the inner reproducing of a previous impression of an object, but without adding any other characteristics from other sources.

व्यासभाष्यम्

सम्पादयतु

किं प्रत्ययस्य चित्तं स्मरत्याहोस्विद्विषयस्येति ? ग्राह्योपरक्तः प्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासस्तथाजातीयकं संस्कारमारभते । स संस्कारः स्वव्यञ्जकाञ्जनस्तदाकारामेव ग्राह्यग्रहणोभयात्मिकां स्मृतिं जनयति । तत्र ग्रहणाकारपूर्वा बुद्धिः, ग्राह्याकारपूर्वा स्मृतिः । सा च द्वयी—भावितस्मर्तव्या चाभावितस्मर्तव्या च । स्वप्ने भावितस्मर्तव्या, जाग्रत्समये त्वभावितस्मर्तव्येति । सर्वाश्चैताः स्मृतयः प्रमाणविपर्ययविकल्पनिद्रास्मृतीनामनुभवात्प्रभवन्ति । सर्वाश्चैता वृत्तयः सुखदुःखमोहात्मिकाः । सुखदुःखमोहाश्च क्लेशेषु व्याख्येयाः । सुखानुशयी रागः, दुःखानुशयी द्वेषः, मोहः, पुनरविद्येति । एताः सर्वाः वृत्तयो निरोद्धव्याः । आसां निरोधे सम्प्रज्ञातो वा समाधिर्भवत्यसम्प्रज्ञातो वा ॥११॥

भावार्थः

सम्पादयतु

किं चित्तं ज्ञानस्य स्मरणं करोति? अथवा (ज्ञानस्य) विषयस्य स्मरणं करोति?

ग्राह्यविषयात् उपरक्तः, ग्राह्यविषयश्च, तस्य ज्ञानं च उभयोः भास्यमानः विषयानुभवः तादृश्यस्य संस्कारस्य एव आरम्भं करोति। स्वस्य अभिव्यञ्जकात् उद्बुद्धः सः संस्कारः विषयस्य, अनुभवस्य च उभयात्मिकां स्मृतिम् उत्पादयति। तत्र ज्ञानाकारप्रधानः अंशः तु (ज्ञानस्य) अनुभवः एव भवति, एवञ्च अनुभूत-विषयाकारप्रधानः अंशः ( शुद्ध-)स्मृतिः भवति। स्मृतिः द्विधा भवति।

1) कल्पित-स्मृतिविषययुक्ता

2) यथार्थस्मृतिविषययुक्ता

स्वप्ने कल्पितस्मृतिविषययुक्ता, जाग्रत्काले च यथार्थस्मृतिविषययुक्ता स्मृतिः भवति। उभयप्रकारक-स्मृती प्रमाणस्य, विपर्ययस्य, विकल्पस्य, निद्रायाः, स्मृतेः च अनुभवेन एव भवति। एताः सर्वाः वृत्तयः सुखदुःखमोहात्मक्यः एव भवन्ति। सुखस्य, दुःखस्य, मोहस्य च व्याख्यानं क्लेशानां प्रसङ्गे (विस्तारेण) भवेत्। सूखस्य अनुगामी रागः भवति, दु:खानुवर्ती द्वेषः भवति, मोहः तु अविद्या एव अस्ति। एतासां सर्वासां वृत्तीनां निरोधः करणीयः भवति। एतां ( सर्वासां ) वृत्तीनां निरोधे सत्येव सम्प्रज्ञातः उत असम्प्रज्ञातः समाधिः ( सिद्धः ) भवति ॥ ११ ॥

'प्रमाणादिभिरनुभूते विषये योऽसम्प्रमोषः अस्तेयः सा स्मृतिः' ।'

अनुभूतविषयाणाम् अचौर्यम् अर्थात् बुद्धितः अलोपः 'स्मृतिः' कथ्यते। फलतः चित्ते अनुभूतविषयाणाम् उपस्थितिः एव 'स्मृतिः' उच्यते॥ ११ ॥

विशेषावबोधः

सम्पादयतु

अत्र समस्या अस्ति यत्, अनुभूतविषयस्य चित्ते, या उपस्थितिः भवति, तत्र 'विषय'स्य उपस्थितिः भवति? अथवा ( विषयस्य) 'अनुभव'स्य ? यथा -- ( अनुभूतस्य ) 'घट'स्य स्मृतिः भवति उत घटस्य यः अनुभवः जातः, तस्य 'अनुभव'स्य स्मृतिः भवति?

उक्तायाः शङ्कायाः समाधानाय भाष्यकारः आरम्भे एव कथयति यत् - प्रत्ययस्य चित्तं स्मरत्याहोस्विद्विषयस्येति इति।

स्मृतेः प्रक्रिया

सम्पादयतु

किं स्मृतिकाले चित्तं विगतस्य ( 'पूर्वं मम घटादीनाम् अनुभवः जातः आसीत्' - इति रूपस्य) अनुभवस्य स्मरणं करोति अथवा ( येषाम् अनुभवः जातः आसीत्, तेषां ) घटादीनां स्मरणं करोति?

एतस्याः शङ्कायाः स्पष्टतायै स्मृतेः पूर्णा प्रक्रिया ज्ञातव्या भवति। स्मृतिः कथं, केन कारणेन च भवति। तस्य उत्तरं भाष्यकारः वदति यत्,

ग्राह्योपरक्तः प्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासस्तथाजातीयकं संस्कारमारभते।

अनुभवकाले ग्राह्यविषयेभ्यः ( घटादिभ्यः ) उपरक्तम् (मानुषान्यतरपीडायुक्तम् - influenced or affected by) उत उपरजितम् एव ज्ञानं भवति। अतः घटाद्यनुभवरूपः ग्राह्यविषयः 'घटादिः' एवञ्च ग्रहणात्मकः 'अनुभवः' इत्येतयोः आकारे भासते, स्वस्य च विषयाकारतायाः, अनुभवाकारतायाः च ( अर्थात् ग्राह्य-ग्रहणयोः रूपेण जातत्वात्) कारणेन। तथाजातीयकम् - स्वप्रकारकाणाम् उत तत्सदृशानाम् एव संस्काराणां निर्माणं करोति, यतः 'सांख्ययोग'स्य अनुसारं, यत् वस्तु स्वयं यथा अस्ति, सा तथैव कार्यम् उत्पादितुं शक्नोति। उक्तञ्च - 'शक्तस्य शक्यकरणात् ।' 'न्यायवैशेषिक'-सिद्धान्तयोः अपि ‘कारणगुणाः कार्यगुणानारभन्ते' – एषा चर्चा एव प्राप्यते। (आरभते--जनयति, उत्पादयति।)

स संस्कारः स्वव्यञ्जकाञ्जनस्तदाकारामेव ग्राह्यग्रहणोभयात्मिकां स्मृतिं जनयति -

घटादिविषयाणाम् अनुभवात् उत्पन्नाः ये संस्काराः भवन्ति, ते एव अग्रे स्मृतिम् उत्पादयन्ति। यतो हि एते संस्काराः अपि 'ग्राह्यग्रहणोभयाकार'-रूपेण निर्मिताः सन्ति, अत एव एते संस्काराः "विषय'स्य, 'अनुभव'स्य च उभयोः आकारयुक्तानां (तत्स्वरूपानां) स्मृतीनाम् उत्पादनं कुर्वन्ति किम्? यतः ते 'स्वव्यञ्जकाञ्जनाः' भवन्ति। स्वव्यञ्जकाञ्जनः - स्वस्य व्यञ्जकैः उत उद्बोधकैः अञ्जनाः उत अभिव्यक्ताः भवन्ति, येन सः स्वव्यञ्जकाञ्जनः भवति । स्वस्य उद्बोधक-कारण-द्वारा अभिव्यक्ताः जाताः संस्काराः। स्वस्य व्यञ्जकः उद्बोधक इति स्वव्यञ्जकस्तेन अञ्जनम्, अभिव्यक्तिः (उद्बोधः = स्मृत्युपस्थापने सामर्थ्यम्) यस्यासौ तथोक्तः स्वव्यञ्जकाञ्जनः । 'स्वस्य व्यञ्जकेनोद्बोधकेन ( कारणेन ) अञ्जनं व्यक्तीभवनं यस्य तादृशः' ।'

'व्यञ्जकम् उद्बोधकम् अञ्जनं फलाभिमुखीकरणं यस्येत्यर्थ.' ।

विज्ञानभिक्षुः 'स्वव्यञ्जकाञ्जनः'-पदं संस्काराणां सार्वकालिकं विशेषणं न स्वीकृत्य स्थितिविशेषे विशेषणत्वेन स्वीकरोति। तस्यानुसारम् एतस्य अर्थः एवं भवति, यथा -

'स्वाभिव्यञ्जकेन कालादिना अभिव्यक्तो भवति तदा, तदाकारां स्वसमानाकारामेव ग्राह्यग्रहणोभयात्मिकां तदुभयविर्षायणी स्मृतिः जनयतीत्यर्थः'।

उभय-प्रकारकौ अर्थौ एनं विषयं स्वीकुर्वतः यत्, उद्बोधकद्वारा उत अभिव्यञ्जकद्वारा अभिव्यक्ताः उत भविष्यमाणाः 'संस्काराः' स्मृतिं जनयन्ति इति। तदाकारामेव — तदाकारा स्मृतिः एव। अर्थात् ग्राह्यग्रहणोभयात्मिकां स्मृतिम् – ग्राह्याकारः, ग्रहणाकारः इत्योतयोः अर्थः अस्ति यत्, अनुभूतविषयस्य, अनुभवस्य च इत्येतयोः आकारस्य स्मृतिं जनयति/ उत्पादयति। एवं प्रकारेण उभयाकारानुभवजन्येभ्यः, उभयाकारेभ्यः च संस्कारेभ्यः उभयाकारात्मिका स्मृतिः एव उत्पद्यते।

तत्र ग्रहणाकारपूर्वा बुद्धिः - तस्याम् उभयाकारस्मृतौ अनुभवाकारप्रधानः अंशः तु बुद्धिः अर्थात् 'अनुभवः' भवति, स्मृतिः न; यतः एतस्मिन् अंशे तु पूर्वं जातस्य अनुभवस्य अननुभूतपूर्वः (अर्थात् प्रथमवारस्य) अनुभवः जायमानः अस्ति। अत्र स्मृतिकाले जायमानस्य ज्ञानस्य विषयः 'अनुभवः' अस्ति, यः एतस्मात् स्मृतिकालात् पूर्वं यावत् अनधिगतः (अज्ञातः) एव आसीत्। अत एव एतस्मिन् अंशे तु अनधिगतार्थस्य (अज्ञातार्थस्य) एव ज्ञानं भवति। अत एव एषा 'स्मृतिः' न भवति।

ग्राह्याकारपूर्वा स्मृतिः — ग्राह्यस्य अनुभूतविषयस्य आकारः घटादेः रूपं पूर्वप्रधानं यस्याः सा।

या घटादिविषयानाम् आकारस्य प्राधान्ययुक्तः अंशः अस्ति, सः अंशः एव शुद्धा 'स्मृतिः' भवति। 'स्मृतिस्तु ग्राह्याकार-विशेष्यिका भवति ‘स घट' इत्येव स्मरणात्। घटादिविषयाः पूर्वमेव अनुभवकाले अनुभूताः भवन्ति। या एतेषां विषयाणां वृत्तिः जाता, सा वृत्तिः पूर्वाधिगतार्थस्य वृतिः जाता, अत एव एषा 'स्मृतिः' जाता। एवं प्रकारेण 'वास्तविकस्मृतिः' अनुभूतविषयाणां भवति, विषयानुभवस्य न — इति निश्चितं भवति। सा च द्वयी - सा स्मृतिः द्विधा विभज्यते।

स्मृतेः प्रकारौ

सम्पादयतु

१. भावितस्मर्तव्या (Imaginary) - कल्पितः स्मर्तव्यो यस्याः सा तथोक्ता। कल्पिता (स्मरणीया) विषययुक्ता स्मृतिः । यस्याः स्मृतेः विषयः कल्पितः उत अयथार्थः भवति, सा 'भावितस्मर्तव्यास्मृतिः' उच्यते। स्वप्ने भावितस्मर्तव्या, जाग्रत्समये तु अभावितस्मर्तव्या इति - स्वप्नावस्थायां भावितस्मर्तव्यास्मृतिः भवति, यतः स्वप्नकाले वस्तूनां यथार्था स्मृतिः न भवति। घटनानां, वस्तूनां च अन्वितिः (following after) स्वप्नेषु यथाभूता उत यथार्था न भवति। अन्वितेः अन्वयने ((अनु + अय् + ल्युट्) संयोगे) महती विसङ्गतिः भवति। कुत्रचित् ज्ञातं वस्तु कस्मिन्नपि भिन्ने परिप्रेक्ष्ये, भिन्ने घटनाक्रमे च मिश्रितम् अस्ति इति स्मृतिः भवति। एतत् याथातथ्यस्य परिवर्तनं तु मनसः उद्भावना एव वक्तुं शक्यते। अत एव स्वप्नकालस्य स्मृतिः 'भावितस्मर्तव्या' उच्यते।

२. अभावितस्मर्तव्या (Real) - अभावितः अकल्पितः पारमार्थिकः यथार्थः स्मर्तव्यः यस्याः सा तथोक्ता। यथार्थ-(स्मरणीय-)विषययुक्ता स्मृतिः । यस्याः स्मृतेः विषयः अकल्पितः उत सद्भूतः भवति, सा स्मृतिः 'अभावितस्मर्तव्यास्मृतिः' उच्यते। जागरणकालस्य स्मृतौ यत् वस्तु यथानभूतं भवति, तस्य तस्मिन्नेव क्रमे, तस्मन्नेव परिप्रेक्ष्ये स्मरणं भवति। अत एव जागरणकालस्य स्मृतिः 'अभावितस्मर्तव्या' उच्यते।

उक्तज्ञाने सति यदि एषः प्रश्नः भवति यत्, किं जागरण-काले सर्वाः स्मृतयः यथार्थरूपाः भवन्ति किं, अत एव यथार्थरूपेण ताः 'अभावितस्मर्तव्याः' इति उच्यन्ते किम्? तर्हि एतस्य उत्तरं स्पष्टमस्ति यत्, एतत् तु वास्तविक-स्मृतेः निरूपणं जायमानम् अस्ति इति। यदि जागरणकाले यथार्था स्मृतिः न भवति, तर्हि अपूर्णा उत अशुद्धिपूर्णा स्मृतिः भवति, तर्हि सा तु स्मृतिः एव नास्ति। तस्याः अपूर्णायाः उत अशुद्धिपूर्णायाः स्मृतेः तु अत्र लक्षणं न दीयते। अत्र तु 'अनुभूतविषय+असम्प्रमोषः' - एतल्लक्षणयुक्तायाः 'स्मृतेः' वर्णनं भवति। जागरणकाले जायमानाम् अयथार्थस्मृतिं वयं 'विपर्ययवृत्तौ' अन्तर्भावयामः।

स्मृतेः उत्पत्तिस्रोतांसि

सम्पादयतु

स्मृतयः सर्वप्रकारस्य अनुभवेभ्यः उत्पन्नाः भवन्ति। प्रमाणरूपानुभवः, विपर्ययरूपानुभवः, विकल्परूपानुभवः, निद्रारूपानुभवः, स्मृतिरूपानुभवः च - एतेषां सर्वेषाम् अनुभवानां स्मृतिः भवति। यथा — अस्माकं मनसि कस्यचित् जनस्य स्मरणं भवति स्म इत्येतस्य स्मृत्यात्मकस्य अनुभवसस्य स्मृतिः भवति। सर्वाश्चैता वृत्तयः सुखदुःखमोहात्मिकाः - एताः सर्वाः अपि वृत्तयः ( प्रमाण-विपर्यय-विकल्प-निद्रा-स्मृतयः) बुद्धेः (चित्तस्य) त्रिगुणात्मकतायाः कारणेन सुखात्मिकाः (सत्त्वत्वात्), दुःखात्मिकाः (तमस्त्वात्), मोहात्मिकाः (रजस्त्वात्) च त्रिप्रकारकाः भवितुम् अर्हन्ति। सुखदुःखमोहाश्च क्लेशेषु व्याख्येयाः - एतेषां सुख-दुःख-मोहानां व्याख्यानं (पञ्च)क्लेशानां प्रसङ्गे विस्तारेण करिष्यते। सुखानुशयी रागः, दुःखानुशयी द्वेषः, मोहः पुनरविद्येति - सुखस्य अनुगमनकर्ता क्लेशः 'रागः' उच्यते। अनुशयी - अनुशयितुं शीलमस्येति (अनु+Vशी+णिनिः ) अर्थात् अनुसरणकरणं यस्य शीलम् अस्ति, यः सर्वदा अनुसरणं करोति इति।

विशेषम्

सम्पादयतु

• अनुभव = experienced

• विषयः = objects of experience, impressions

• असम्प्रमोषः = not being stolen, not being lost, not having addition

सम्प्रमोषः इत्युक्तेः नाशः, असम्प्रमोषः इत्युक्ते अलोपः/अनाशः/उपस्थितिः/योजनस्य(addition) अभावः।

• स्मृतिः = memory, remembering

विशेषव्याख्या

सम्पादयतु

ग्राह्याकारः, ग्रहणाकारः इत्योतयोः अर्थः अस्ति यत्, अनुभूतविषयस्य, अनुभवस्य च इत्येतयोः आकारस्य स्मृतिं जनयति/ उत्पादयति।

विशेषशब्दाः

सम्पादयतु

1) अनुशयी - अनुशयितुं शीलमस्येति (अनु+Vशी+णिनिः ) अर्थात् अनुसरणकरणं यस्य शीलम् अस्ति, यः सर्वदा अनुसरणं करोति इति।

पातञ्जलयोगसूत्राणि
  पूर्वतनः
----
अनुभूतविषयासंप्रमोषः स्मृतिः (योगसूत्रम्) अग्रिमः
योगश्चित्तवृत्तिनिरोधः
 
समाधिपादः

१. अथ योगानुशासनम् २. योगश्चित्तवृत्तिनिरोधः ३. तदा द्रष्टुः स्वरूपेऽवस्थानम् ४. वृत्तिसारूप्यमितरत्र ५. वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ६. प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ७. प्रत्यक्षानुमानागमाः प्रमाणानि ८. विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ९. शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः १०. अभावप्रत्ययालम्बना वृत्तिर्निद्रा ११. अनुभूतविषयासंप्रमोषः स्मृतिः १२. अभ्यासवैराग्याभ्यां तन्निरोधः १३. तत्र स्थितौ यत्नोऽभ्यासः १४. स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः १५. दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् १६. तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् १७. वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः १८. विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः १९. भवप्रत्ययो विदेहप्रकृतिलयानाम् २०. श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषां २१. तीव्रसंवेगानामासन्नः २२. मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः २३. ईश्वरप्रणिधानाद्वा २४. क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः २५. तत्र निरतिशयं सार्वज्ञबीजं २६. स पूर्वेषामपि गुरुः कालेनानवच्छेदात् २७. तस्य वाचकः प्रणवः २८. तज्जपस्तदर्थभावनम् २९. ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ३०. व्याधिस्त्यानसंशयप्मादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानिचित्तविक्षेपास्तेऽन्तरायाः (योगसूत्रम्)| ३१. दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ३२. तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ३३. मैत्रीकरुणामुदितोपेक्षणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ३४. प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ३५. विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ३६. विशोका वा ज्योतिष्मती ३७. वीतरागविषयं वा चित्तं ३८. स्वप्ननिद्राज्ञानालम्बनं वा ३९. यथाभिमतध्यानाद्वा ४०. परमाणु परममहत्त्वान्तोऽस्य वशीकारः ४१. क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ४२. तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ४३. स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ४४. एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ४५. सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ४६. ता एव सबीजः समाधिः ४७. निर्विचारवैशारद्येऽध्यात्मप्रसादः ४८. ऋतम्भरा तत्र प्रज्ञा ४९. श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ५०. तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ५१. तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः


सम्बद्धाः लेखाः

सम्पादयतु

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः

सम्पादयतु

उद्धरणम्

सम्पादयतु

अधिकवाचनाय

सम्पादयतु

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine