दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् (योगसूत्रम्)

दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् इति योगसूस्य 15 तमं सूत्रम् अस्ति।

योगस्य द्वौ उपयौ वर्णितौ स्तः - अभ्यासः, वैराग्यः च । एतयोः अभ्यासस्य लक्षणं, प्रयोगश्च १३, १४ सूत्रयोः प्रतिादितौ। एतस्मिन् अग्रिमे च सूत्रे द्विविध-वैराग्यस्य वर्णनं क्रियते। वैराग्यस्य द्वौ प्रकारौ स्तः। परन्तु अत्र वैराग्यस्य सामान्यार्थः ज्ञातव्यः।

* वैराग्यम् - ज्ञानस्य पराकाष्ठा एव वैराग्यम्

(१) अपरवैराग्यम् - योगसाधनायाः प्रारम्भाद् विवेकख्यातिपर्यन्तं यस्य वैराग्यस्य आवश्यकता, सम्भाव्यता च मन्यते, तत् 'अपरवैराग्यम्' उच्यते।

(२) परवैराग्यम् (प्रकृष्टवैराग्यम्) - सम्प्रज्ञातसमाधेः सिद्धौ सत्यां प्राप्तायाः विवेकख्यातेः अनन्तरं विवेकख्यातिविषयकम् उत तत्त्वज्ञानविषयकं वैराग्यं 'परवैराग्यम्' उच्यते।

'परवैराग्य'स्य अभ्यस्ते सति असम्प्रज्ञातयोगस्य सिद्धिः भवति। एतस्मिन् १५ सूत्रे 'अपरवैराग्य'स्य लक्षणम् उच्यते।

सूत्रसारः

सम्पादयतु

सूत्रार्थः

सम्पादयतु

ऐहिकेभ्यः, पारलौकिकेभ्यः च विषयेभ्यः निःस्पृह-चित्तस्य वशीकारसंज्ञा ( नामकः ) (अपरः ) वैराग्यः उच्यते। स्त्रियः/पुरुषाः, अन्नं, पानं, प्रभुता - इत्येतेभ्यः दृष्टेभ्यः ( अर्थात् ऐहिकेभ्यः ) विषयेभ्यः निःस्पृहः, एवञ्च स्वर्गाणां, वैदेह्यानां, प्रकृतिलयत्वलाभरूपिणां वेदबोधितानां ( अर्थात् पारलौकिकानां ) च विषयेभ्यः उदासीनता, ( अर्थात् ) एतेषां ऐहिकानाम्, आमुष्मिकानां च विषयाणां सम्पर्के जाते सत्यपि विषयाणां दोषाणां दर्शनकस्य चित्तस्य, विवेकज्ञानस्य बलेन भोगाभावरूपिण्याः ( अर्थात् ) त्यागात्मिकायाः उत ग्रहणात्मिकायाः बुद्धेः शून्यता 'वशीकारसंज्ञा' ( अर्थात् उपेक्षाबुद्धिः ) एव ( अपरः ) वैराग्यः उच्यते।। १५ ॥

व्यासभाष्यम्

सम्पादयतु

स्त्रियोऽन्नं पानमैश्वर्यमिति दृष्टविषये वितृष्णस्य स्वर्गवैदेह्यप्रकृतिलयत्वप्राप्तावानुश्रविकविषये वितृष्णस्य, दिव्यादिव्यविषयसम्प्रयोगेऽपि चित्तस्य विषयदोषदर्शिनः प्रसङ्ख्यान अबलादनाभोगात्मिका हेयोपादेयशून्या वशीकारसंज्ञा वैराग्यम् ॥१५॥

दृष्टाश्च आनुश्रविकाश्चेति दृष्टानुश्रविकाः, त एव (द्विविधाः ) विषयाः इति दृष्टानुश्रविकविषयास्तेषु वितृष्णस्येति दृष्टानुश्रविकविषयवितृष्णस्य ( चित्तस्य )

दृष्टविषयाः - एतस्मिन् लोके सुलभ्यमानाः 'शब्दादि'-विषयाः। आनुश्रविकविषयाः - अनुश्रूयत इति अनुश्रवो वेदः । अनुश्रव + ठक् = आनुश्रविकः, वेदे विदिताः । वेदे उल्लिखिताः 'स्वर्गलोकादयः' विषयाः । इत्येतयोः उभयप्रकारक-विषयोः वितृष्णस्य अर्थात् वीतरागस्य, विरक्तस्य, निःस्पृहस्य उत उदासीनस्य चित्तस्य 'वशीकारसंज्ञा' भवति। एषा 'वशीकारसंज्ञा' एव 'अपरवैराग्यम्' इत्युच्यते ( वशीकारः तु न अपरवैराग्यम्) अपि तु चित्तस्य 'वशीकारसंज्ञा'-नामिका या स्थितिः अस्ति, सा एव 'अपरवैराग्यम्' इत्युच्यते।

अत एव 'वशीकारः संज्ञा यस्य तद्वैराग्यं वशीकारसंज्ञावैराग्यम्' इति विग्रहः 'व्याकरण'स्य, 'योग'स्य च उभयोः शास्त्रयोः दृष्ट्या सर्वथा अशुद्धः भवति; यतः तस्मिन् बहुव्रीहि-समासस्य अन्यपदार्थपरकत्वात् वैराग्यस्य विशेषणत्वात् 'वशीकारसंज्ञम्' - इत्येव शब्दः भवति। एषा तु व्याकरणात्मिका अनूपपत्तिः जाता।

वस्तुतः एषा 'वशीकारसंज्ञा' वितृष्णचित्तस्य ( उपेक्षाबुद्धिरूपिणी ) काचित् स्थितिः अस्ति। एतस्याः अन्वयः 'वितृष्णस्य' पदेन सह भवति। पदमिदं 'वैराग्यम्' शब्दस्य विशेषणम् उत अपरपर्यायः नास्ति। प्रत्युत पदमिदन्तु वितृष्णचित्तस्य कस्याश्चित् विशिष्टस्थितेः वाचकपदम् अस्ति।

वितृष्णस्य चित्तस्य उत वशीकारसंज्ञा अर्थात् वशीकारप्रकारा संज्ञा, बुद्धिः सा एव (अपर-)वैराग्यमिति । अत एव 'वशीकार'म् अपरवैराग्यस्य समानार्थि-नाम न परिगण्यते, तथा चिन्तनं भ्रान्तिपूर्णम् एव।

विशेषार्थः

सम्पादयतु

तथा च रागद्वेषशून्या विषयसाक्षात्कारस्य योग्यता वशीकारसंज्ञाऽऽख्यं वैराग्यमिति पर्यवसितम्।

(१) भाष्यकारः - 'चित्तस्य-अनाभोगात्मिका हेयोपादेयशून्या वशीकारसंज्ञा वैराग्यम्।

चित्ते या भोगत्यागात्मिका हेय-उपादेय-शून्या वशीकारसंज्ञा अस्ति, सा वैराग्यम् इत्युच्यते।

(२) तत्त्ववैशारदीकारः — 'सङ्गदोषरहिता या-उपेक्षाबुद्धिः वशीकारसंज्ञा ।

चित्ते यदा सङ्ग-दोषस्य अभावः भवति, तदा या उपेक्षाबुद्धिः भवति, सा वशीकारसंज्ञा भवति।

(३) भोजदेवः — 'या वशीकारसंज्ञा ममैते वश्या नाहमेतेषां वश्य इति योऽयं विमर्शः तद्वैराग्यमुच्यते ।

एते मम वश्याः न, न चाहम् एतेषां वश्यः इति यः विमर्शः वशीकरासंज्ञायां भवति, सः वैराग्यम् उच्यते।

(४) वार्तिककारः — रागद्वेषशून्या वशीकारसंज्ञा उत वितृष्णा सा वैराग्यमपरमिति शेषः, उत्तरसूत्रे तत्परमिति वचनाद्-अस्यापरत्वम्' ॥१५॥

रागद्वेषशून्या वशीकारसंज्ञा उत वितृष्णा, सा वैराग्यम् उच्यते।

भाष्ये पूर्वं 'दृष्ट'-विषयान् परिगणयन्ति। स्त्रियो विषये - स्त्रियः ( पुरुषसाधकानां दृष्ट्या कथनमिदम्) अन्न-विविधपेयपदार्थाः, ऐश्वर्यम् उत स्वामित्वम् - इत्येतेषां सर्वेषां 'दृष्ट' उत लौकिक-विषयेषु अन्तर्भावः भवति। वितृष्णस्य – वितृष्णः उत निःस्पृहः ( विगता तृष्णा यस्य, तस्य )। स्वर्ग "ऽपि - स्वर्गः, विदेहत्वं, प्रकृतिलीनत्वं ( ये आनुश्रविकाः विषयाः सन्ति, तेषां प्राप्तिः ) च प्राप्यते चेदपि तत्र निःस्पृहस्य चित्तस्य या - अनाभोगात्मिका, हेयोपादेयशून्या, वशीकारसंज्ञा च भवति, सा (अपर-)वैराग्यम् इत्युच्यते।

दिव्यादिव्यविषयसम्प्रयोगेऽपि - एतेषाम् अदिव्यानाम् अर्थात् लौकिकानाम् उत दृष्टानां पदार्थानाम्, एवञ्च दिव्यानाम् अर्थात् स्वर्गादि-आनुश्रविक-विषयाणाम् उपभोगोपस्थितौ अपि। विषयदोषदर्शिनः चित्तस्य - विषयेषु दोषदर्शनकस्य चित्तस्य। प्रसंख्यानबलाद् - विषयाणां दोषाणां प्रकृष्टज्ञानम् एव तस्य प्रसङ्ख्यानम् उच्यते, तस्य प्रसङ्ख्यानस्य बलेन ( अर्थात् ) विषयाणां पूर्णज्ञानस्य कारणेन।

तापत्रयपरीतविषयाणां दोषस्त परिभावनया तत्साक्षात्कारः प्रसंख्यानं तबलादित्यर्थः।

अनाभोगात्मिका आभोगरहिता, भोगाभावरूपिणी । हेयोपादेयशून्या - रागद्वेषशून्या ( हेयशून्यता - द्वेषराहित्यम् एवञ्च उपादेयशून्यता - रागराहित्यम् )। वशीकारसंज्ञा - वशीकारबुद्धिः, 'वशी'करणस्य ( वश्ये न भवनस्य ) बुद्धिः अर्थात् उपेक्षाबुद्धिः भवति। ( सा एव ) वैराग्यम् — सा ( अपर-) वैराग्यम् उच्यते।

एषः वैराग्यः यद्यपि अत्र न तु सूत्रे 'अपरवैराग्यः' इति उक्तः, न तु भाष्ये एवम् उल्लेखः प्राप्यते; तथाऽपि अग्रिमे सूत्रे 'तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम्' मध्ये उक्तः वैराग्यः 'पर' उक्तेः अपेक्षात्वात् एषः वैराग्यः अपरवैराग्यः उच्यते।

'उत्तरसूत्रे तत्परमिति वचनादस्यापरत्वम्। तच्चापरं वैराग्यम् २ ।।

एतस्याः वशीकारसंज्ञा'याः अर्थात् 'अपरवैराग्य'स्य सिद्धेः पूर्वतनाः चित्तस्य याः क्रमिकाः स्थितयः भवन्ति, ताः, निम्नसूच्यां क्रमशः आबद्धाः। यथा अपरवैराग्यस्य क्रमः - 'यतमानसंज्ञा, व्यतिरेकसंज्ञा, एकेन्द्रियसंज्ञा, वशीकारसंज्ञा चेति चतस्त्रः संज्ञा इत्यागमिनः ।

१. यतमानसंज्ञा - रागादयः खलु कषायाश्चित्तवतिनस्तैरिन्द्रियाणि यथास्वं विषयेषु प्रवर्त्यन्त तन्मा प्रातिषतेन्द्रियाणि तत्तद्विषयेष्विति, तत्परिपाचनायारम्भः प्रयत्नः सा यतमान संज्ञा।

यत्र विषयान् त्यक्तुं प्रयत्नः तु भवति, किन्तु त्यागः न भवति, तत्र यतमानसंज्ञा भवति।

२. व्यतिरेकसंज्ञा - तदारम्भे सति केचित् कषायाः पक्वाः, पक्ष्यन्ते च केचित्, तत्र पक्ष्यमाणेभ्यः पक्वानां व्यतिरेकेणावधारणं व्यतिरेक संज्ञा।

शब्दादि-विषयेषु केषाञ्चन रागस्तु व्यपगच्छति, परन्तु केषाञ्चन न व्यपगच्छति, तत्र व्यतिरेकीवैराग्यसंज्ञा स्वीकरणीया।

३. एकेन्द्रियसंज्ञा - इन्द्रियप्रवर्तनासमर्थतया पक्वानामौत्सुक्यमात्रेण मनसि व्यवस्थानमेकेन्द्रियसंज्ञा

मनः अपि एकम् इन्द्रियम् अस्ति। यदा इन्द्रियाणां विषयाणाम् आकर्षणं न भवति, परन्तु मनसि तेषां चिन्तनं भवति, तत्र एकेन्द्रियसंज्ञा भवति। एतस्याम् अवस्थायां प्रतिज्ञायाः बलेन एव मनसः, इन्द्रियाणां निग्रहः भवति।

४. वशीकारसंज्ञा - औत्सुक्यमात्रस्यापि निवृत्तिरूपस्थितेष्वपि दिव्यादिव्यविषयेषपेक्षाबुद्धिः संज्ञात्रयात्परा वशीकारसंज्ञा एतयैव च चरितार्थत्वान्न ताः पृथगुक्ता इति सर्वमवदातम्'

वशीकारसंज्ञा यदा भवति, तदा मनः, इन्द्रियाणि च स्वाधीनानि भवन्ति। अनेकप्रकारकाः चमत्काराः अपि आरभन्ते। एतावत् पर्यन्तम् ‘अपरवैराग्यं’ भवति।

शब्दार्थः

सम्पादयतु

• दृष्ट = seen, perceived

• अनुश्रविक = revealed, scriptural, heard in tradition

• विषय = objects, subjects, matters of experience

• वितृष्णस्य = of one who is free from desire or craving

• वशीकार = supreme, mastery, total control

• संज्ञा = awareness, consciousness, knowing

• वैराग्यम् = non-attachment, desirelessness, dispassion, neutrality or absence of coloring, without attraction or aversion

विशेषव्याख्या

सम्पादयतु

1) चित्तस्य वशीकारसंज्ञा - दृष्टानाम्, अलौकिकानां च विषयाणां प्रति वितृष्णस्य अर्थात् वीतरागस्य, विरक्तस्य, निःस्पृहस्य उत उदासीनस्य चित्तस्य 'वशीकारसंज्ञा' भवति। एषा 'वशीकारसंज्ञा' एव 'अपरवैराग्यम्' इत्युच्यते ( वशीकार तु न अपरवैराग्यम्) अपि तु चित्तस्य 'वशीकारसंज्ञा'-नामिका या स्थितिः अस्ति, सा एव 'अपरवैराग्यम्' इत्युच्यते। वशीकारबुद्धिः एव वशीकारसंज्ञा, उपेक्षाबुद्धिः च।

2) हेयोपायः, हेयोपायशून्यता च -

3) प्रसङ्ख्यानबलम् -

4) -



पातञ्जलयोगसूत्राणि
  पूर्वतनः
----
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् (योगसूत्रम्) अग्रिमः
योगश्चित्तवृत्तिनिरोधः
 
समाधिपादः

१. अथ योगानुशासनम् २. योगश्चित्तवृत्तिनिरोधः ३. तदा द्रष्टुः स्वरूपेऽवस्थानम् ४. वृत्तिसारूप्यमितरत्र ५. वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ६. प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ७. प्रत्यक्षानुमानागमाः प्रमाणानि ८. विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ९. शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः १०. अभावप्रत्ययालम्बना वृत्तिर्निद्रा ११. अनुभूतविषयासंप्रमोषः स्मृतिः १२. अभ्यासवैराग्याभ्यां तन्निरोधः १३. तत्र स्थितौ यत्नोऽभ्यासः १४. स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः १५. दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् १६. तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् १७. वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः १८. विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः १९. भवप्रत्ययो विदेहप्रकृतिलयानाम् २०. श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषां २१. तीव्रसंवेगानामासन्नः २२. मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः २३. ईश्वरप्रणिधानाद्वा २४. क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः २५. तत्र निरतिशयं सार्वज्ञबीजं २६. स पूर्वेषामपि गुरुः कालेनानवच्छेदात् २७. तस्य वाचकः प्रणवः २८. तज्जपस्तदर्थभावनम् २९. ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ३०. व्याधिस्त्यानसंशयप्मादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानिचित्तविक्षेपास्तेऽन्तरायाः (योगसूत्रम्)| ३१. दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ३२. तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ३३. मैत्रीकरुणामुदितोपेक्षणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ३४. प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ३५. विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ३६. विशोका वा ज्योतिष्मती ३७. वीतरागविषयं वा चित्तं ३८. स्वप्ननिद्राज्ञानालम्बनं वा ३९. यथाभिमतध्यानाद्वा ४०. परमाणु परममहत्त्वान्तोऽस्य वशीकारः ४१. क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ४२. तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ४३. स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ४४. एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ४५. सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ४६. ता एव सबीजः समाधिः ४७. निर्विचारवैशारद्येऽध्यात्मप्रसादः ४८. ऋतम्भरा तत्र प्रज्ञा ४९. श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ५०. तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ५१. तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः

सम्बद्धाः लेखाः

सम्पादयतु

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः

सम्पादयतु

उद्धरणम्

सम्पादयतु

अधिकवाचनाय

सम्पादयतु

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine