कथायाः उद्गमभूमिर्भारतवर्षमेव । अधुना षाश्चात्त्या अपि कथाय गौरवं स्वीकुर्वन्तु नाम, परन्तु ते कथाया आधारं भारतीयकथात् एव लब्धवन्तः । पाश्चात्त्यकथाया इतिहासं जानन्तो विद्वांसः प्रतियन्ति यद् भारतभूमिरेव कथाया उत्पत्तिक्षेत्रम । षष्ठशताब्द्याम् भारते ताः कथाः प्रचुरप्रचारा आसन् यासामुपलब्धिरस्माभिः पञ्चतन्त्रे क्रियते । पञ्चतन्त्रेण विश्वसाहित्ये महदुपयोगि दानं समर्पितम् । वेदादेव प्रवहन्ती पुराणेषु खरस्त्रोतस्त्वमागता कथाधारा नानारुपाऽजायत ।

वेतालपञ्चविंशतिका

संस्कृते कथायाः द्वौ प्रकारौ –उपदेशात्मककथा, मनोरञ्जककथा च । प्रथमा पशुपक्षिकथा, द्वितीया मनोरञ्जनमात्रफला मानवकथा । मनोरञ्जककथानां प्राचीनतमः संग्रहो बृहत्कथा इति नाम्ना प्रथते ।

"https://sa.wikipedia.org/w/index.php?title=कथासाहित्यम्&oldid=465558" इत्यस्माद् प्रतिप्राप्तम्