प्रायः समग्रे भारतदेशे आचर्यमाणं पर्व अस्ति गणेशचतुर्थी । कुत्रचित् गौरीपर्वणः आचरणं न भवति चेदपि गणेशचतुर्थीं तु आचरन्ति एव । अयं गणेशः गौरीपुत्रः इत्येव प्रसिद्धः । शिवगणानाम् अधिपतिः, विघ्ननिवारकः, आदिपूज्यः च । आदावेव समस्तकर्मसु बलिं गृह्णाति भक्तार्पितम् इति वाक्यमेव सः आदिपूज्यः इत्यंशं समर्थयति । पञ्चायतनदेवतासु अपि अन्यतमः अस्ति गणेशः । जगतः सृष्टि-स्थिति-लयकारकः अपि सः एव । सर्वमयः सः परमात्मा । त्वमेव केवलं कर्तासि, त्वमेव केवलं धर्तासि, त्वमेव केवलं हर्तासि, त्वमेव सर्वं खल्विदं ब्रह्मासि, त्वं साक्षादात्मासि नित्यं, त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म्भूर्भुवस्सुवरोम् इत्याशयं प्रकाशयति गाणपत्यथर्वशीर्षमहोपनिषत् । पुराणे इतिहासा गमादिषु तस्य रूप-महिमा-उपासनादिकं स्पष्टतया निरूपितम् अस्ति । कलौ दुर्गाविनायकौ इति वाक्यानुसारं गणेशः अस्मिन् कलियुगे सर्वत्रापि विशेषपूजां प्राप्नुवन्नस्ति । न केवलं भारते तस्य आराधनं क्रियते अपि तु बर्मा, मलेश्या, इण्डोनेशिया, चीना, सुमात्रा, जावा, जपान् इत्यादिषु देशेषु अपि पूजां प्राप्नोति गणेशः ।

गणेशचतुर्थी
{{{holiday_name}}}
गणेश महोत्सव
के आचरन्ति हिन्दु
वर्गः धार्मिक/लोक
आरम्भः भद्रपद शुक्ल चतुर्थी
अन्त्यम् अनन्त चतुर्दशी
दिनाङ्कः अगस्त/सितम्बर
आचरणानि पण्डालस्य स्थापना, वीथिशोभायात्राः मूर्तिविसर्जनं च
चतुर्थिपर्वणः मृत्तिकागणपतिः
कर्णाटकस्य तलकाडुनगरे वैद्येश्वरदेवालये विद्यमानं गणेशशिल्पम्
उत्सवानन्तरं विसर्जनार्थं नीयमाना गणेशमूर्तिः
शिलायाम् उत्कीर्णः गणेशः

महाभारतं व्यासविरचितं गणेशलिखितम् इति प्रसिद्धम् । याज्ञवल्क्यस्मृतौ, बोधायनगृह्यसूत्रे, महाभारतस्य वनपर्व-अनुशासनपर्वयोः, गोभिलस्मृतौ, बाणभट्टस्य हर्षचरिते, वामनपुराणे, मत्स्यपुराणे, भविष्यपुराणे, अग्निपुराणे, जैनानाम् “आचारदिनकर"ग्रन्थे च गणेशस्य, तस्य पूजायाः, स्वरूपस्य वा उल्लेखः अस्ति । गणपतिमूर्तिषु अपि २१ वा ३२ विधाः सन्ति इति आगमाः वदन्ति । बालगणपतिः, तरुणगणपतिः, भक्तगणपतिः, वीरगणपतिः, शक्तिगणपतिः, द्विजगणपतिः, सिद्धगणपतिः, उच्छिष्टगणपतिः, विघ्नगणपतिः, क्षिप्रगणपतिः, हेरम्भगणपतिः, लक्ष्मीगणपतिः, महागणपतिः, विजयगणपतिः, नृत्यगणपतिः, ऊर्ध्वगणपतिः, एकाक्षरगणपतिः, वरगणपतिः, त्र्यक्षरगणपतिः, क्षिप्रप्रसादगणपतिः, हरिद्रागणपतिः, एकदन्तगणपतिः, सृष्टिगणपतिः, उद्दण्डगणपतिः, ऋणमोचकगणपतिः, ढुण्डिगणपतिः, द्विमुखगणपतिः, त्रिमुखगणपतिः, सिंहगणपतिः, योगगणपतिः, दुर्गागणपतिः, सङ्कष्टहरगणपतिः इति ।

विशेषावसरेषु यज्ञयागादिषु वा व्रताचरणेषु वा प्रतिदिनं पूजायां वा प्रथमं पूज्यमान: देव: गणेश: । गणेशचतुर्थ्यां पूज्यमान: गणेश: वरसिद्धिविनायक: इति उच्यते । तद्दिने यद्यपि गणेशस्य एव पूजा क्रियते तथापि विघ्नपरिहारकत्वेन प्रथमं सम्पूज्य अनन्तरं विशेषपूजां कुर्वन्ति । तद्दिने विशेषरूपेण मृत्तिकानिर्मितमूर्तीनाम् एव पूजा क्रियते । मृत्तिकाविग्रहे प्राणप्रतिष्ठापनं कृत्वा द्वारपालकपूजां कुर्वन्ति । अनन्तरं महायोगपीठं ध्यात्वा आधारशक्ति-पीठशक्त्यादीनि उपकरणानि सङ्कल्प्य पूजां कुर्वन्ति । तीव्रा-ज्वलिनी-नन्दा-भोगदा-कामरूपिणी-उग्रा-तेजोवती-सत्या-विघ्ननाशिनी इति नव महाशक्ती:, परिवारदेवता:, आयुधानि, वाहनानि, भूषणानि च ध्यात्वा तै: सर्वै: अलङ्कृतं सिद्धिविनायकम् आराधयन्ति । तस्य गणेशस्य वामभागे अवनता गजशुण्डा भवति । स्वर्णकान्तियुक्त: स: कोटिसूर्यप्रभावान्, महाकाय:, एकदन्त:, मूषकवाहन: च । तस्य चतुर्भुजेषु पाश-अङ्कुश-वरदाभयमुद्रा: भवन्ति । ध्यानानन्तरम् आवाहन-आसन-अर्ध्य-पाद्य-आचमनीय-मधुपर्क-पञ्चामृतस्नान-शुद्धोदकस्नान-वस्त्र-यज्ञोपवीत-आभरण-गन्धाक्षता:-हरिद्रा कुङ्कुम-सिन्धूर-पुष्पादीनां समर्पणं कुर्वन्ति । गन्धे रक्तवर्णीय: गन्ध: गणेशस्य प्रिय: । द्वादशनामभि: तस्य द्वादश अङ्गानां पूजां कुर्वन्ति । गणेशस्य प्रियसंख्या २१ । तद्दिने २१ पर्णै: पत्रपूजाम् आचरन्ति । गणेशपूजायाम् उपयुज्यमानानि पर्णानि माचीपुत्र, बृहती (कण्टकारी), बिल्व, दूर्वा, दत्तूर, बदरी, अपामार्ग (उत्तरणी), चूत (आम्र), करवीर, विष्णुक्रान्त, दाडिमी, देवदारु, मरुवक, सिन्धुवार, जाती, गणका, शमी, अश्वत्थ, अर्जुन, अर्क, भृङ्गराज, आश्मातक, गण्डलीकपत्राणि । यद्यपि तुलसी सर्वदेवप्रिया तथापि गणेशपूजायां तुलसीपत्रस्य उपयोगं न कुर्वन्ति ।

यत्रैकतुलसीवृक्ष: तिष्ठति द्विजसत्तम ।
तत्रैव त्रिदशास्सर्वे ब्रह्मविष्णुशिवादय: ॥
केशव: पत्रमध्यषु पत्राग्रेषु प्रजापति: ।
पत्रवृन्ते शिवस्तिष्ठेत्तुलस्या: सर्वदैव हि ॥
लक्ष्मी: सरस्वती चैव गायत्री चूतिका तथा ।
शची चान्या देवपत्न्य: तत्पुष्पेषु वसन्ति वै ॥ (पद्मपुराणम्, क्रियायोगसार:)

गणेशवाक्यम् -

पत्राणां सारभूता त्वं भविष्यसि मनोरमे ।
कलांशेन महाभागे स्वयं नारायणप्रिया ॥
प्रिया त्वं सर्वदेवानां कृष्णस्य च विशेषत: ।
पूजा विमुक्तिदा नृणां मम त्याज्या च सर्वदा ॥ (ब्रह्मवैवर्तम्, गणेशखण्ड:)

इति वदन्ति पुराणानि । अत: गणेशपूजायां तुलसीपत्रस्य उपयोग: न क्रियते | पत्रेषु दूर्वा, पुष्पेषु जपाकुसुमं गणेशस्य प्रियतमम् । अत: अन्येषां पत्राणां पुष्पाणां च अभावे दूर्वाजपाकुसुमयो: तत्स्थाने उपयोगं कुर्वन्ति । पत्रपूजानन्तरं पुष्पपूजां कुर्वन्ति । करवीर, जाती, चम्पक, वकुळ, शतपत्र, पुन्नाग, मालती, केतकी, कल्हार, कुन्द, आतसी, किरिकर्णिका, पारिजातम् सेवन्तिका, सुगन्धराज, जपा, कुरवण्टिका, नन्द्यावर्त, द्रोण, मल्लिका, सुगन्धिकमल इत्यादीनि पुष्पाणि उपयुज्यन्ते । पुष्पपूजानन्तरं द्वादशनामावलि:, अष्ठोत्तरशतनामावलि:, अष्ठोत्तरसहस्रनामावलि: इत्यादिभि:, वेदमन्त्रै:, आगमशास्त्रै:, भक्तिश्लोकै:, स्तोत्रै: पूजां कृत्वा धूप-दीप-नैवेद्यादिकं समर्पयन्ति । नैवेद्यार्थं मोदकम्, अपूपं, शष्कुलीं, पृथुकं, मुद्ग-चणकनिर्मितभक्ष्यं, तिललड्डुकं, विविधफलानि, इक्षुं, दुग्ध-दधि-घृत-मधु-शर्करानिर्मितानि भक्ष्याणि एवं प्रकारेण षड्रसापेतं सर्वमपि समर्पयन्ति । नैवेद्येषु गणेशस्य प्रियं मोदकम् । तत्रापि नैवेद्यानां संख्यापि २१, प्रत्येकमपि २१ संख्याकम् अपि भवितुम् अर्हति ।

एकविंशतिसंख्याकान् मोदकान् घृतपाचितान् ।
नैवेद्यं सफलं दद्यां नमस्ते विघ्ननाशिने ॥ इति उक्तम् अस्ति ।

अनन्तरं करोद्वर्तनं, फल-ताम्बूल-सुवर्णपुष्प-भूषणसमर्पणम्, उत्तरनीराजनं, मन्त्रपुष्पश्रावणं, दूर्वासहितपुष्पाञ्जलिसमर्पणं, दक्षिणां, मनसः इच्छापूर्णफलप्रार्थनां च समर्प्य प्रदक्षिणनमस्करान् समर्पयन्ति । तदनन्तरं छत्र-चामर-नृत्य-गीत-वाद्य-स्तोत्र-आन्दोलिका-अश्ववाहन-गजवाहनादीन् उपचारान् यथाशक्ति प्रत्यक्षं वा संकल्परूपेण वा समर्पयन्ति । पूजानन्तरं सत्पात्राय वस्त्रद्वयसहितस्य गणेशविग्रहस्य दानं कुर्वन्ति । एतत् उपायनदानम् इति उच्यते । पूजान्ते प्रसन्नार्घ्यान् समर्प्य उद्वासनं कुर्वन्ति । उद्वासनावसरे

यान्तु देवगणास्सवेर् पूजामादाय मत्कृतां ।
इष्ठकाम्यार्थसिध्यर्थं पुनरागमनाय च ॥
यथासुखं यथास्थानम् उद्वासयामि ।
शोभनार्थं क्षेमाय पुनरागमनाय च ॥ इति वदन्त: देवविग्रहं दक्षिणभागं प्रति किञ्चित् अपसारयन्ति ।

उद्वासनानन्तरं तं मृत्तिकाविग्रहं घण्टानादादिमङ्गलवाद्यसहितं यथाशक्तिवैभवेन वीथीषु शोभायात्रायां नीत्वा कूप-पुष्करिणी-सरोवर-नदीषु कुत्रचित् विसर्जयन्ति । विसर्जनात् पूर्वं जलाशयतीरे अपि एकवारं संक्षेपपूजां कृत्वा एव विसर्जनपद्धति: अपि अस्ति । विसर्जनम् अपि कुत्रचित् पर्वदिने एव कुत्रचित् दिनत्रयानन्तरं वा सप्ताहनन्तरं वा कुर्वन्ति । मङ्गलवासरे गणेशस्य विसर्जनं न कुर्वन्ति ।

गणेश: आकाशस्य अभिमानिदेवता । अस्य शुण्डा ओङ्कारस्य प्रतीका । बृहत् उदरं ब्रह्माण्डस्य सङ्केतम् । उदरे बद्ध: सर्प: ब्रह्माण्डं वहन् आदिशेष: । विशालौ कर्णौ ज्ञानद्योतकौ । हस्ते विद्यमानपाश: रागम् अङ्कुश: क्रोधं च प्रतिपादयत: । एकदन्त: अद्वैतप्रतीक: च ।

बाह्यसम्पर्कतन्तुः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=गणेशचतुर्थी&oldid=483872" इत्यस्माद् प्रतिप्राप्तम्