कुन्थुनाथः
कुन्थुनाथः( ( शृणु) /ˈkʊnθʊnɑːθəhə/) (हिन्दी: कुन्थुनाथ,आङ्ग्ल: Kunthunath) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु सप्तदशः तीर्थङ्करः अस्ति । भगवतः कुन्थुनाथस्य वर्णः सुवर्णः आसीत् । जैनधर्मानुसारं भगवतः चिह्नम् अजः अस्ति । भगवान् कुन्थुनाथः इक्ष्वाकुवंशीयः, काश्यपगोत्रीयः च आसीत् । भगवतः कुन्थुनाथस्य पञ्चत्रिंशत् गणधराः आसन् । तेषु गणधरेषु साम्बस्वामी प्रथमः गणधरः आसीत् ।
कुन्थुनाथः | |
---|---|
सप्तदशः जैनतीर्थङ्करः | |
कुन्थुनाथस्य प्रतिमा | |
विवरणम् | |
परिवारः | |
पिता | सूरसेन |
माता | श्रीदेवी |
वंशः | इक्ष्वाकुः |
स्थानम् | |
जन्म | हस्तिनापुरी |
निर्वाणम् | सम्मेदशिखरम् |
लक्षणम् | |
वर्णः | सुवर्णः |
चिन्हम् | अजः |
औन्नत्यम् | ३५ धनुर्मात्रात्मकम् (१०५ मीटर्) |
आयुः | ९५,००० वर्षाणि |
शासकदेवः | |
यक्षः | गन्धर्वः |
यक्षिणी | बला |
जैनध्वजः | |
जैनधर्मस्य प्रतीकम् | |
धर्मावलम्बीनां संख्या | |
---|---|
प्रायः ५० लक्षजनाः | |
प्रवर्तकः | |
आदिनाथः | |
विस्तारः | |
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः | |
शिल्पकृतयः | |
जैनागमः | |
भाषा(ः) | |
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी |
कौमारावस्थायां कुन्थुनाथस्य शरीरस्य औन्नत्यं पञ्चत्रिंशत् (३५) धनुर्मात्रात्मकम् आसीत्[१] । भगवतः धार्मिकपरिवारे “गन्धर्व” इत्याख्यः यक्षः, “बला” इत्याख्या यक्षिणी च आसीत् ।
जन्म, परिवारश्च
सम्पादयतुत्रयस्त्रिंशत्सागरमात्रात्मकानां वर्षाणाम् आयुष्यं पूर्णं कृत्वा भरतक्षेत्रस्य हस्तिनापुर-नगरे चैत्र-मासस्य कृष्णपक्षस्य चतुर्दश्यां तिथौ कृत्तिका-नक्षत्रे मध्यरात्रौ भगवतः कुन्थुनाथस्य जन्म अभवत् [२]।
कुन्थुनाथस्य पितुः नाम सूरसेनः, मातुः नाम श्रीदेवी च आसीत् । सूरसेनः हस्तिनापुरस्य राजा आसीत् । सूरसेनः एकः तेजस्वी राजा आसीत् । तस्य शासनकाले जनाः आनन्देन जीवन्ति स्म । एकदा आषाढ-मासस्य कृष्णपक्षस्य नवम्यां तिथौ कृत्तिकानक्षत्रे रात्रौ अर्धसुषुप्तावस्थायां श्रीदेव्या तीर्थङ्करत्वसूचकाः चतुर्दश स्वप्नाः दृष्टाः । राजा, राज्ञी च अतीव प्रसन्नौ अभवताम् । तौ स्वप्नानां फलं न जानीतः स्म । तथापि स्वप्नान् दृष्ट्वा राज्ञी प्रफुल्लिता जाता ।
राजा सूरसेनः आगामिदिवसे स्वप्नशास्त्रिणः आहूतवान् । स्वप्नशास्त्रिभिः चतुर्दशस्वप्नानां फलम् उक्तम् यत् – “एते स्वप्नाः साधारणाः न सन्ति । कस्यचित् तीर्थङ्करस्य जन्म भविष्यति इति स्वप्नाः सूचयन्ति । स्वप्नानां फलादेशं श्रुत्वा राजा, राज्ञी च प्रफुल्लितौ अभवताम् । राज्ये आनन्दस्य वातावरणम् अभवत् । शुभं समाचारं प्राप्य राज्ञा सम्पूर्णे राज्ये दानं कृतम् । बालकस्य जन्मनः सर्वे प्रतीक्षां कुर्वन्तः आसन् ।
नवमासानन्तरं भगवतः कुन्थुनाथस्य जन्म अभवत् । प्रसवसमये काचिदपि पीडा न जाता । यदा प्रसवः अभवत्, तदैव इन्द्राः आगतवन्तः आसन् । तस्मिन् समये एव इन्द्राः नवजातशिशुं सुमेरुपर्वते पाण्डुकवनं नीतवन्तः । तत्र तैः इन्द्रैः विविधस्थलानां जलैः शिशोः उपरि अभिषेकः कृतः । पुनश्च इन्द्राः तं शिशुं मातुः क्रोडे स्थापितवन्तः ।
यदा राजा पुत्रजन्मनः सन्देशं प्राप्तवान्, तदा पुत्रप्राप्त्याः उत्साहेन राज्ञा राज्ये पुत्रोत्सवस्य आयोजनं कृतम् । सर्वप्रथमं तु सूरसेनः कारागारात् सर्वेभ्यः बन्दीभ्यः मुक्तिम् अददात् । उत्सवे राजा जनेभ्यः दानं करोति स्म । पुत्रोत्सवे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः चापि समुपस्थिताः आसन् । देवैः, इन्द्रैः च बालकाय आशीर्वादाः प्रदत्ताः ।
पूर्वजन्म
सम्पादयतुजम्बूद्वीपस्य पूर्वमहाविदेहे आवर्तदेशस्य खड्गी-नामिका नगरी आसीत् । तस्याः नगर्याः राजा सिंहावह आसीत् । सः अत्यन्तं प्रतापी राजा आसीत् । राज्ये तस्मै भोगस्य सर्वाः सामग्र्यः आसन् । तथापि तस्य मनसि कदापि मोहः नासीत् । सः प्रियजनानां, बान्धवानां च सौकर्याय एव प्रवृत्तः आसीत् ।
सद्भिः सह राज्ञः बहुवारं सम्पर्कः भवति स्म । साधूनाम् अध्यात्मवाण्या राज्ञः मनसि अपि वैराग्यस्य भावना उद्भूता । “अहम् अपि दीक्षां गृहीत्वा साधनां कुर्याम्” इति सिंहावहस्य मनसि विचारः आगतः । किन्तु राज्यसञ्चालनस्य दायित्वत्वात् सः विस्मृतवान् । अन्ते यदा तस्य पुत्रः राज्यसञ्चालनाय समर्थः अभवत्, तदा राज्ञा पुत्रस्य राज्याभिषेकः कृतः । तस्मै राज्यस्य दायित्वं प्रदत्तम् । अन्ते राजा संवराचार्यात् दीक्षां गृहीत्वा श्रमणत्वम् अङ्गीकृतवान् ।
बहुभिः अनुष्ठानैः राजर्षिणा आत्मनः पवित्रीकरणं कृतम् । तेन तीर्थङ्करगोत्रस्य बन्धनं कृत्वा अन्ते मोक्षः प्राप्तः ।
भगवतः कुन्थुनाथस्य जन्मनः एकादशदिनानाम् अनन्तरं राज्ञा सूरसेनेन नामकरणसंस्कारस्य विधिः आयोजितः । नामकरणविधौ बालकस्य नामकरणं क्रियते । तस्मिन् दिने जनैः उत्सवः अपि आचरितः आसीत् । स्वर्गलोकात् अपि बहवः देवाः समागताः । लोकान्तिकदेवाः चापि उत्सवम् आचरितवन्तः आसीत् । उत्सवे देवानाम् उपस्थितिः आवश्यकी वर्तते । नामकरणोत्सवे नगरस्य प्रतिष्ठितजनाः अपि आमन्त्रिताः आसन् ।
राज्यस्य नागरिकाः अपि प्रसन्नाः आसन् । राजा नामकरणाय देवतानां, जनानां च परामर्शं पृष्टवान् । श्रीदेवी बालकं नीत्वा आयोजितं स्थलं प्राप्तवती । बालकं दृष्ट्वा जनाः स्तब्धाः अभवन् । बालकस्य तेजः विस्मयकरः दृश्यते स्म । बालकस्य शरीरम् अपि कुन्थु-नामकं रत्नमिव प्रतिभाति स्म । नामकरणाय सर्वैः स्वमतानि प्रदत्तानि आसन् । सर्वेषां मतानि श्रुत्वा राजा स्वविचारम् उक्तवान् आसीत् ।
गर्भकालस्य घटनां विचार्य राज्ञा स्वस्य विचारः उक्तः यत् – “यदा अयं बालकः गर्भे आसीत् तदा कस्यांश्चित् रात्रौ श्रीदेवी स्वप्ने कुन्थु-नामकानां रत्नानां बृहत्समूहम् अपश्यत् । अतः अस्य बालकस्य नाम कुन्थुकुमारः इति करणीयम् इति । सर्वैः जनैः, देवैः च समर्थनं प्रदत्तम् । ततः एव एषः "कुन्थुनाथः" इति नाम्ना ख्यातः अस्ति [३]।
श्रीदेव्या श्रेष्ठतया कुन्थुनाथस्य पालनं कृतम् आसीत् । समयान्तरे भगवतः कुन्थुनाथस्य बाल्यावस्था, किशोरावस्था च व्यतीता । कुन्थुनाथः यत्र यत्र गच्छति तत्र निवसन्तः जनाः तस्मिन् आकृष्टाः भवन्ति स्म । भगवतः शरीरम् उज्ज्वलम् आसीत् ।
किशोरावस्थायां कुन्थुनाथे प्रविष्टे सति राजा सूरसेनः अनेकाभिः राजकन्याभिः सह तस्य विवाहम् अकारयत् । विवाहानन्तरं राज्ञः सूरसेनस्य मनसि राज्यात् निवृत्तेः विचारः आगतः । अतः तेन कुन्थुनाथस्य राज्याभिषेकः कृतः, कुन्थुनाथाय राज्यस्य दायित्वं चापि प्रदत्तम् आसीत् । ततः परं सूरसेनः दीक्षां स्व्यकरोत् ।
राज्यम्
सम्पादयतुकुन्थुनाथः यदा राजपदं प्रापत्, तावदेव तेन श्रेष्ठतया शासनं कृतम् आसीत् । कुन्थुनाथेन राज्यस्य मातृवत् पालनं कृतम् आसीत् । तेन सत्यनिष्ठया राज्यं पालितम् आसीत् । राज्ये कस्यापि वस्तुनः अभावः एव नासीत्, अतः अपराधाः अपि न भवन्ति स्म । तेन कारणेन कुन्थुनाथस्य राज्ये अपराधिनः अपि अल्पसङ्ख्यकाः आसन् । जनाः अपि आन्तरिकविवादान् स्वयम् एव निवारयन्ति स्म । जनाः परस्परम् एव विवादान् निवारयन्ति स्म ।
राजा कुन्थुनाथः अपि राज्यस्य सञ्चालनेन सन्तुष्टः आसीत् । राजा सर्वेषां जनानां प्रियः आसीत् । राज्ञः मनसि सन्तोषः अपि आसीत् । प्रजाजनानाम् एकात्मतायाः कारणेन एव सम्पूर्णं राज्यं कुटुम्बः इव प्रतिभाति स्म । भगवतः कुन्थुनाथस्य प्रभावेण राज्ये कदापि अतिवृष्ट्याः, अनावृष्ट्याः वा कस्याः अपि प्राकृतिक्यापदः प्रकोपः नासीत् । तस्य राज्यम् आपद्विहीनम् आसीत् । राज्ये जनाः सुखिनः आसन् ।
एकदा कुन्थुनाथस्य राज्यस्य आयुधशालायां चक्ररत्नं समुद्भूतम् । किन्थुनाथः परम्परागतरीत्या सम्पूर्णं विश्वं जेतुं प्रस्थितवान् । सर्वत्र कुन्थुनाथस्य स्वागतं कृतम् । आहत्य द्वात्रिंशद्देशेषु तस्य शासनम् आसीत् । सम्पूर्णे भूमण्डले कुन्थुनाथस्य साम्राज्यम् आसीत् । सर्वत्र शासनतन्त्रमपि व्यवस्थितरीत्या चलत् आसीत् ।
राजत्यागः, दीक्षा च
सम्पादयतुभगवान् कुन्थुनाथः पञ्चशताधिकसप्तचत्वारिंशत्सहस्रं वर्षाणि यावत् राज्यस्य सञ्चालनं कृतवान् आसीत् । कुन्थुनाथस्य मनसि वैराग्यस्य भावना उद्भूता । अतः सः विरक्तः जातः । सः दीक्षायाः समयं ज्ञातवान् आसीत् । चक्रीपदस्य भोगावलीकर्मणां समाप्त्यनन्तरं सः स्वस्य उत्तराधिकारिणः राज्याभिषेकं कृत्वा तस्मै राज्यस्य दायित्वम् अददात् ।
कुन्थुनाथः वार्षिकीदानं कर्तुं सज्जः अभवत् । स्वर्गलोकात् लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च तत्र समागताः । इन्द्रैः, देवैः च वार्षिकीदानस्य व्यवस्था कृता । ततः परं भगवता कुन्थुनाथेन वार्षिकीदानम् आरब्धम् । एकवर्षं यावत् तेन वार्षिकीदानं कृतमासीत् । वार्षिकीदाने सः सुवर्णमुद्रिकानां दानं कुर्वन् आसीत् । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।
राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः, दुःखिनश्च अभवन् । यतः राज्ञः स्वभावः शान्तः, प्रभावी च आसीत् । यदा वार्षिकीदानं पूर्णमभवत्, तदा चैत्र-मासस्य कृष्णपक्षस्य पञ्चम्यां तिथौ कृत्तिका-नक्षत्रे भगवान् कुन्थुनाथः सहस्रजनैः सह हस्तिनापुर-नगरस्य सहस्राम्रोद्यानं प्राप्तवान् । उद्याने देवाः, इन्द्राः चापि समुपस्थिताः आसन् । सर्वेषां समक्षं भगवता कुन्थुनाथेन दीक्षा स्वीकृता [४]।
दीक्षायाः दिवसे भगवान् षष्ठ्याः तपः कृतवान् । अपरे दिने भगवता कुन्थुनाथेन चक्रपुर-नगरस्य राज्ञः व्याघ्रसिंहस्य गृहे प्रथमः क्षीराहारः गृहीतः । दीक्षानन्तरं षोडशवर्षाणि यावत् भगवान् कुन्थुनाथः रहसि आसीत् । भगवता कुन्थुनाथेन षोडशवर्षाणि यावत् विविधाः तपस्याः, साधनाः च कृताः । षोडशवर्षाणाम् अनन्तरं सः पुनः हस्तिनापुरस्य सहस्राम्रोद्यानं प्राप्तवान् ।
हस्तिनापुरे चैत्र-मासस्य कृष्णपक्षस्य तृतीयायां तिथौ कृत्तिका-नक्षत्रे तस्मै कैवल्यज्ञानम् अभवत् [५]। तस्मिन् दिवसे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः, नगरजनाः च समुपस्थिताः आसन् । सर्वैः मिलित्वा कैवल्यमहोत्सवस्य आयोजनं कृतम्, उत्सवः आचरितः च । भगवता कुन्थुनाथेन तत्र तीर्थस्य स्थापना कृता । अतः तदा सः तीर्थङ्करपदं प्राप्तवान् ।
ततः परं भगवता कुन्थुनाथेन प्रथमं प्रवचनं कृतम् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः संसारसागरात् निवृत्तिं प्राप्तुम् ऐच्छन् । भगवतः कुन्थुनाथस्य प्रवचनस्य तादृशः प्रभावः आसीत्, येन जनाः मुग्धाः, लीनाः च अभवन् ।
धार्मिकः परिवारः
सम्पादयतुयदा भगवान् कुन्थुनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा कुन्थुनाथेन धार्मिकपरिवारस्य अपि रचना कृता[६]।
- ३५ गणधराः
- ३,२०० केवलज्ञानिनः
- ३,३४० मनःपर्यवज्ञानिनः
- २,५०० अवधिज्ञानिनः
- ५,१०० अवैक्रियलब्धिधारिणः
- ६७० चतुर्दशपूर्विणः
- २,००० चर्चावादिनः
- ६०,००० साधवः
- ६०,६०० साध्व्यः
- १,८०,००० श्रावकाः
- ३,८१,००० श्राविकाः
निर्वाणम्
सम्पादयतुतीर्थङ्कराः त्रिकालज्ञानिनः भवन्ति । अतः पूर्वमेव तेभ्यः समयस्य ज्ञानं भवति । यदा भगवता कुन्थुनाथेन अपि स्वस्य निर्वाणकालः ज्ञातः, तदा सः सहस्रेण साधुभिः सह सम्मेदशिखरं गतवान् । तत्र सः एकमासं यावत् अनशनञ्चकार । तेन एकमासं यावत् पुनः तपस्या, साधना च कृता । एकमासानन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्मणां नाशः अभवत् । अनन्तरं सः सिद्धत्वं प्रापत् ।
एकमासस्य अनशनान्ते वैशाख-मासस्य कृष्णपक्षस्य प्रतिपदायां तिथौ कृत्तिका-नक्षत्रे सम्मेदशिखरे भगवतः कुन्थुनाथस्य निर्वाणम् अभवत् । भगवता सह बहुभिः मुनिभिः अपि मोक्षः प्राप्तः आसीत् [७]।
कुन्थुनाथेन कौमारावस्थायां पञ्चाशदुत्तरसप्तशतोत्तरत्रयोविंशतिसहस्रवर्षाणां, राज्यकाले पञ्चशताधिकसप्तचत्वारिंशत्सहस्रवर्षाणां, दीक्षायां पञ्चाशतोत्तरसप्तशतोत्तरत्रयोविंशतिसहस्रवर्षाणां च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने पञ्चनवतिसहस्रं वर्षाणि भुक्तानि आसन् [८]।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये कुन्थुनाथः सम्बन्धिताः सञ्चिकाः सन्ति। |
- चौबीस तीर्थङ्कर
- तीर्थङ्कर Archived २०१५-०५-२३ at the Wayback Machine
- जैन पूजा – कुन्थुनाथ
- श्री कुन्थुनाथ भगवान Archived २०१६-०३-०५ at the Wayback Machine
सन्दर्भाः
सम्पादयतु- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 106
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 101
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 121
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 124
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 105
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 123
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 106
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 123