नामकरणसंस्कारः

नाम करण संस्कारस्यप्रायोजनम्


अयं संस्कारः शिशोः जन्मानन्तरदश वा एकादशदिनानन्तरं भवति । गोपनीयं नाम तु जातकर्मसंस्कारे एव भवति । उच्चारणार्हं नाम् एतस्मिन् दिने भवति । शुभमुहूर्ते च नक्षत्रे मघुरध्वनियुतं नामचतुराक्षरैः वा द्वि अक्षरात्मकं भवति । नाम्नः करणं नामकरणम् । शिशोः जन्मनः दशमे एकादशे वा दिवसे पुण्येऽवसरे पिता प्राणानाचम्य “ अस्य पुत्रस्य नामकरणं करिष्ये” इति संकल्प्य “ पुण्याहं कथयित्वा नान्दीश्राध्दं च विधाय ब्राह्मणान् भोजयित्वा कुमारस्य नाम” दद्यात् । ब्राह्मणशिशोः जन्मतः दशमदिवसे, क्षत्रियाणां त्रयोदशे षोडशे वा दिवसे, वैश्यानां षोडशे विंशतितमे वा दिवसे, शुद्राणां द्वाविंशे मासान्ते वा नामकरणसंस्कारः करणीयः ।

हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

नामखिलस्य व्यवहारहेतुः शुभावहं कर्मसु भाग्यहेतुः ।
नाम्नैव कीर्त्तिं लभते मनुष्यस्ततः प्रशस्तं खलु नामकर्म ॥

संस्कारेषु नामकरणसंस्कारः पञ्चमोऽस्ति । अस्मिन् संसारे प्रत्येकवस्तुनः किमपि नाम विद्यत एव । नामकरणं विना जगतः व्यवहारः संज्ञाहीनत्वात् चलितुमसम्भवः । तस्मात् मानवेनास्य संस्कारस्यायोजनं वैदिकरीत्या साडम्वरं क्रियते । अस्य संस्कारस्य आयोजनदिवस –वार –तिथि –नक्षत्र –मास –वर्षादयः विविधैः पण्डितैर्भिन्नभिन्नतया प्रतिपादिताः । यथोच्यते रामदैवज्ञेन मुहूर्त्तचिन्तामणिनामके मुहूर्त्तविधायकग्रन्थे –

तज्जातकर्मादि शिशोर्विधेयं पर्वाख्यरिक्तानतिथौ शुभेऽह्नि ।
एकादशे द्वादशकेऽपि घस्रे मूदुध्रुवक्षिप्रचरोडुषु स्यात् ॥

अर्थात् पर्वदिने तथा रिक्ताभिन्नतिथिषु, शुभदिनेषु, जन्मतः एकादशद्वादशदिवसे मृदु – ध्रुव –क्षिप्र – चरसंज्ञकनक्षत्रेषु बालकस्य नामकरणसंस्कारः करणीयः । हरिहरपण्डितेन उच्यते – “ यस्य यावन्ति दिनानि सूतकं तदन्तदिने कार्यम्” । अर्थात् ब्राह्मणस्य एकादशदिने, क्षत्रियस्य त्रयोदशदिने, वैश्यस्य् षोडशदिने, शूद्रस्य एकत्रिंशत्तमे दिने नामकरणं करणीयम् । श्रीधरपण्डितेनास्य संस्कारस्य शुभमुहूर्त्तः निम्नप्रकारेणा प्रतिपादितः । यथा श्रीधरः –

मित्रादित्यमघोत्तराशतभिषकस्वातीधनिष्ठाच्युत-
प्राजेशाश्विशशाङ्कपौष्णदिनकृत् पुष्पेषु राशौ स्थिरे ।
छिद्रां पञ्चदशीं विहाय नवमीं शुद्धेष्टमे भार्गव –
ज्ञचार्यामृतपादभागदिवसे नामानि कुर्याच्छिशोः ॥
नारदः –“सूतकान्ते नामकर्म विधेयं स्वकालोचितम्” इति । तत्र नक्षत्रादिनियमाभावः, नियतकालविहितत्वात् । तदुक्तं सारसंग्रहे –
“एकादशेऽह्नि विप्राणां क्षत्रियाणां त्रयोदशे ।
वैश्यानां षोडशे नाम मासान्ते शूद्रजन्मनाम्” ॥
मनुना उक्तम् –
“नामधेयं दशम्यां तु द्वादश्यां चास्य कारयेत् ।
पुण्यतिथौ मुहूर्त्ते वा नक्षत्रे वा गुणान्विते” ॥
यदि नामकरणस्य विहितकालोऽतिक्रान्तोऽभवेत्तर्हि शुक्रास्तादिदोषरहिते शुभकाले कर्त्तव्यम् ।
तदुक्तं कश्यपेन –
उक्तकाले प्रकर्त्तव्या द्विजानामखिलाः क्रियाः ।
अतीतेषु च कालेषु कर्त्तव्याश्चोत्तरायणे ॥
सुरेज्येऽत्यसुरेज्ये वा नास्तगे न च वार्द्धके ।
शुभलग्ने शुभांशे च शुभेऽह्नि शुभवासरे ॥
चन्द्रताराबलोपेते नैधनोदयवर्जिते ।
पूर्वाह्णे क्षिप्रनक्षत्रचरस्थिरमृदूडुषु ॥
नाममङ्गलघोषैश्च रहस्यं दक्षिणश्रुतौ । इति
बृहस्पतिमहोदयेनोक्तं –
“पूर्वाह्णः श्रेष्ठ इत्युक्तो मध्याह्नो मध्यमः स्मृतः ।
अपराह्णं च रात्रिं च वर्जयेन्नामकर्मणि” ॥
जगन्मोहने गुरुणा उक्तम् –
“पक्षच्छिद्रां च नवमी हित्वा पञ्चदशीं तथा ।
शेषाः स्युस्तिथयः सर्वा नामकर्मणि पूजिताः” ॥
भाष्करार्कजभौमानां वर्जयेदंशकोदयौ ।
धनकर्मसुतभ्रातृनवमस्थः शुभः शशी ॥
शुद्धव्ययेऽष्टमे लग्ने पापाश्च व्यरिलाभगाः ।
शुभेषु शेषसंस्थेषु नामकर्म शुभावहम् ॥ इति

बाह्यसम्पर्कतन्तुः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=नामकरणसंस्कारः&oldid=395497" इत्यस्माद् प्रतिप्राप्तम्