जयपुरम्
जयपुरं (हिन्दी: जयपुर, आङ्ग्ल: Jaipur) भारतस्य राजस्थानराज्यस्य राजधानी अस्ति । इदं नगरं राजस्थानराज्ये स्थितस्य जयपुरमण्डलस्य केन्द्रमपि । 'गुलाबीनगर' इति प्रसिद्धम् एतन्नगरम् । ऐतिहासिकम् आमेरनामकं नगरम् अस्य समीपे अस्ति । इदं विश्वस्य सुन्दरतमनगरेषु अन्यतमम् । जयपुरं भारतवर्षस्य एकं सुनियोजितं नगरम् अस्ति । महाराज: जयसिंह: एतत् नगरं १९७२ तमे वर्षे संस्थापितवान् ।
जयपुरम् जयपुरम् पाटलनगरम् | |
---|---|
महानगरीय नगर | |
देशः | भारतम् |
State | राजस्थानम् |
मण्डल | जयपुरम् |
निवसति | November 18, 1727 |
Founded by | Maharaja Ram Seo Master II |
Named for | Maharaja Swai Jai Singh II |
Government | |
• Type | Democratic |
• Mayor | Jyoti Khandelwal (INC) |
• Police commissioner | B.l soni |
Area | |
• महानगरीय नगर | ११,११७.८ km२ |
Elevation | ४३१ m |
Population (2011) | |
• महानगरीय नगर | ६,६६३,९७१(१०th India) |
• Density | ५९८/km२ |
• Urban | ३४,९९,२०४ |
• Rural | ३१,६४,७६७ |
• Metro rank | १०th IN |
Time zone | UTC+5:30 (IST) |
ZIP code(s) |
302 0xx |
Area code(s) | 91141-XXXX XXXX |
Vehicle registration | RJ-14 |
Spoken languages | हिन्दी, राजस्थानी, आङ्ग्ल |
Primary Airport | Jaipur International Airport (Major/International) |
Website | www.jaipur.nic.in |
जयपुरं – सुन्दरनगरम्
सम्पादयतुराजस्थानराज्यस्य राजधानी अस्ति जयपुरनगरम् । क्रिस्ताब्दात् १८ शतकादपि एतत् नगरम् अतीव समृद्धम् अस्ति । एतत् नगरं पाटलनगरम् ('पिङ्कसिटी') इत्यपि कथयन्ति । महाराजः सवाई जयसिंहः क्रिस्ताब्दस्य १७२७-२८ तमे वर्षे अस्य नगरस्य निर्माणं कृतवान् । नगरस्य विन्यासः चतुर्भुजाकारे अस्ति । नगरप्रवेशाय सप्त द्वाराणि सन्ति । चान्दपोल, सङ्गनेरी, अजमेरी च मुख्यद्वाराणि सन्ति । जयपुरनगरे उष्ट्रवाहनानि दृश्यन्ते । सर्वत्र पाटलवर्णयुक्तानि भवनानि सन्ति । राजगृहाणां नगरमिदम् । राजगृहाणि राजस्थानी तथा 'मुघल' संयुक्तशैल्या निर्मितानि सन्ति । अनेकानि सुन्दराणि उद्यानानि नगरे सन्ति । नगरस्य त्रिदिशासु पर्वतावल्यः सन्ति । नगरस्य मध्यभागे राजगृहम् अस्ति । नगरे विस्तृताः राजमार्गाः निर्मिताः सन्ति । अनेकत्र वृत्तानि ('चौपड') निर्मितानि सन्ति । उत्तरतः दक्षिणं, पूर्वतः पश्चिमं सुव्यवस्थिततया मार्गाः निर्मिताः सन्ति । नगरस्य भवनानि रक्तानि अथवा पाटलवर्णयुक्तानि सन्ति । सूर्यास्तसमये एतानि सुन्दरतया प्रकाशन्ते । प्रतिवर्षं लक्षाधिकजनाः अस्य नगरस्य दर्शनाय गच्छन्ति । जयपुरस्य आभूषणानि न केवलं भारते, अपि तु समग्रे विश्वे सुप्रसिद्धानि सन्ति ।
जयपुरे दर्शनीयानि स्थलानि
सम्पादयतुचन्द्रमहल्
सम्पादयतुनगरे स्थितं राजगृहम् एतत् । एतत् 'राजमहल्' इत्यपि कथयन्ति । सप्तस्तरीयं राजगृहमेतत् । 'चन्द्रमहल्' इति अस्य अपरं नाम । राजगृहे एकत्र युद्धसामग्र्यः सङ्गृहीताः सन्ति । अन्यत्र वस्तुसङ्ग्रहालये कलावस्तूनि, मुघलचित्राणि, वस्त्रोद्यमसम्बद्धानि वस्तूनि, आभूषणानि, राजपुत्राणां शस्त्रास्त्राणि च सङ्गृहीतानि सन्ति । राजगृहे 'दिवान् –ए-खास्' नामकं सार्वजनिकसभाङ्गणं रमणीयम् अस्ति । अस्य भवनस्य विविधभागेषु भित्तिचित्राणि, लताः, पुष्पाणि, दर्पणविशिष्टालङ्करणानि, घटीयन्त्राणि, घटीयन्त्रगोपुरं, 'मुबारकमहल्' च आकर्षणीयानि । अत्र जलपानपात्राणि रजतनिर्मितानि सुन्दराणि सन्ति । राजगृहं परितः तृणावृतस्थलं, लघुसरोवराः, मकरालयसरः, शिलानिर्मितखाताः, 'वेनिस्'-देशस्य St Marks वृत्तस्य स्मरणं कारयन्ति । जलोत्सांसि जलपाताः कृतकतया निर्मितानि सन्ति । एतानि सायङ्काले अतीव मनमोहकानि भवन्ति ।
जन्तर-मन्तर
सम्पादयतुजयपुरनगरे अत्यन्तं प्रसिद्धं जन्तर-मन्तर भवनं (ज्यौतिषसम्बन्धी यन्त्रालयः, खगोलवीक्षणालयः च) महाराजः जयसिंहः निर्मितवान् । जयसिंहः स्वयं गणितज्योतिषविद्वान् आसीत् । अत्र ग्रहाणां चलनं, ग्रहणदर्शनं, सूर्यप्रकाशेन समयज्ञानम् इत्यादिकं ज्ञानं प्राप्तुं शक्यते । एतादृशानि खगोलवीक्षणभवनानि देहली, वाराणसी, उज्जयिनी इत्येषु नगरेषु अपि सन्ति ।
रामविलासोद्यानम्
सम्पादयतु'आल्बर्ट् हाल् म्यूसियम्' इति अस्य अपरं नाम अस्ति । जयपुरे दक्षिणभागे रामविलास-उद्यानवनमस्ति । अत्र 'आल्बर्टहाल्' नामकः सुन्दरः वस्तुसङ्ग्रहालयः क्रिस्ताब्दे १८३३ तमे वर्षे स्थापितः अस्ति । अत्र आभरणानि, काष्ठशिल्पानि, लोहशिल्पानि, मृन्निर्मितानि वस्तूनि, वेषभूषणानि च सन्ति । एकः मृगालयः अपि अत्र अस्ति । समीपे एव आधुनिकः वस्तुसङ्ग्रहालयः अपि अस्ति । अत्र राजस्थानस्य संस्कृतिदर्शकानि नाणकानि, लोहपात्राणि, हस्तिदन्तेन निर्मितानि वस्तूनि, शिलामूर्तयः, काष्ठदन्तयुक्तानि शिल्पानि सन्ति ।
अम्बरदुर्गः
सम्पादयतुएषः दुर्गः प्राचीनराजधानी आसीत् । जयपुर-तः ११ कि मी दूरे पर्वतप्रदेशे अम्बरदुर्गः अस्ति । प्राचीनकाले एतत् स्थलं महाराजानां राजधानी आसीत् । पर्वतारोहणाय अनेकानि द्वाराणि प्रविश्य पर्वतारोहणं करणीयं भवति । राजा सवाई मानसिंहः क्रिस्ताब्दे १५९२ तमे वर्षे एतं दुर्गं निर्मितवान् । एषः अक्बरनामकमुघलराज्ञः सेनायां सेनापतिः आसीत् । अत्र पर्वतप्रदेशे हरितरक्तशिलाभिः निर्मितानि भवनानि सन्ति । विविधवर्णैः निर्मितः कदलीवृक्षः अतीवसुन्दरः अस्ति । 'दिवान् ए खास्' (अन्तर्भवनं), 'शीशमहल्' इत्यादीनि अपूर्वाणि सन्ति । शिलादेवीमन्दिरम् अपि अतीवसुन्दरम् अस्ति । एतेषां प्रतिबिम्बानि पुरतः स्थिते सरोवरेऽपि दृष्टुं शक्यन्ते । सरोवरमध्ये 'जलमहल्' अस्ति । अम्बरपर्वते गजारोहणपूर्वकं वा पादचारणेन वा पर्वतारोहणं कर्तुं शक्यते । पर्वते स्थितं कनकवृन्दावनं मथुरावृन्दावनमिवास्ति । मन्दिरस्य द्वाराणि, अट्टः च वास्तुशिल्पयुक्तानि सन्ति । समीपे 'गयटोर्', 'जलमहल्', विद्याधरवाटिका इत्यादीनि आकर्षकस्थानानि सन्ति । जयपुरे सर्वत्र राजपुत्राणां, महाराजानां च शिलाप्रतिमाः स्थापिताः सन्ति ।
गोपालमन्दिरम्
सम्पादयतु'शीशमहल्' समीपे महाकालीमन्दिरमस्ति । कृष्णशिलामूर्तिः आकर्षणीयास्ति । अम्बरपर्वतस्य पश्चात् भागे अधः गिरिधरगोपालमन्दिरमस्ति । परमभक्ता मीराबाई अत्रैव गिरिधरगोपालरूपस्य श्रीकृष्णस्याराधनां कृतवती । देवालये नर्तनशीलाः बालिकाः, अश्वपङ्क्तिः, गजपङ्क्तिः इत्यादिकं सुन्दरम् अस्ति । गर्भगृहे विष्णोरवतारस्य कृष्णस्य, तस्य परमभक्तायाः मीरायाः च विग्रहः अतीवसुन्दरः अस्ति ।
जयपुरे जैनमन्दिराणि अपि सन्ति । महावीरमन्दिरं सुन्दरं, प्राचीनं च मन्दिरम् अस्ति ।
नाहरगढ
सम्पादयतुजयपुर-तः अष्ट कि. मी. दूरे पर्वतप्रदेशे सुन्दरः दुर्गः अस्ति । ५०० पादोन्नतप्रदेशे स्थितः एषः दुर्गः ‘जयपुरस्य स्वर्णकिरीटम्’ इति कथ्यते । विशेषसमये अत्र दीपालङ्कारं कुर्वन्ति । द्विस्तरे राजगृहेऽस्मिन् नव अन्तःपुराणि सन्ति । तेषां नामानि 'ललितप्रकाश', 'चन्द्रप्रकाश', 'सूर्यप्रकाश' इत्येवं काव्यमयानि सन्ति । नाहरगढ-समीपे सिसोदियाराज्ञी-उद्यानं, जयगढदुर्गः च अस्ति ।
मार्गाः
सम्पादयतुविमानमार्गः
सम्पादयतुजयपुराय देहली, मुम्बई, अहमदाबाद, कोलकता, औरङ्गाबाद् (महाराष्ट्रम्) इत्यादिनगरेभ्यः विमानसम्पर्कः अस्ति ।
धूमशकटमार्गः
सम्पादयतुदेहली-तः 'पिङ्कसिटी एक्स्प्रेस्' यानम् अस्ति । मुम्बई-तः 'चेतकएक्स्प्रेस्' धूमशकटयानमस्ति । चेन्नै, अजमेर इत्यादिनगरेभ्यः साक्षात्सम्पर्कः अस्ति ।
वाहनमार्गः
सम्पादयतु'पिङ्कलैन्', 'सिल्वर्लैन' वाहनानि अहोरात्रं राजस्थानराज्ये, राजस्थानतः देहली, आग्रा इत्यादीनां नगराणां दर्शनाय च सञ्चरन्ति । जयपुरनगरे उत्तमवसतिभोजनादिव्यवस्था अस्ति । मुम्बई-तः ११७६ कि.मी, देहली-तः ३०६ कि.मी, आग्रा-तः २३६ कि.मी, अहमदाबाद-तः ७०७ कि.मी दूरे अस्ति इदं नगरम् । प्रवासव्यवस्थापि अस्ति अत्र ।