तत्त्वज्ञानम्
दर्शनशास्त्रम्सम्पाद्यताम्
दृश् धातुना भावार्थे करणार्थे वा ल्युट्(अन)-प्रत्ययेन दर्शनशब्दः व्युत्पद्यते । भावार्थे अस्य अर्थः अवलोकनक्रिया भवति, करणार्थे अवलोकनक्रियायाः साधनम् । उभयार्थे अस्य शब्दस्य सार्थकत्वं वर्तते । शास्त्रशब्दस्य अपि शंसनक्रियायाः (छेदनम्, अनुशासनम्, अतिरिक्तव्यावर्तनम्) साधकम् इति व्युत्पन्नः अर्थः । अनयोः शब्दयोः दर्शनमेव शास्त्रमिति अर्थे कर्मधारयः समासः भवति । दर्शनस्य विचारणीयतत्त्व-प्राधान्य-भेदात् सम्प्रदायभेदः भवति । प्रत्येकं दर्शनस्य अध्ययनं त्रिभिः दृष्टिभिः कर्तुं शक्यते -
- तत्त्वमीमांसा - तत्त्वानां, जगतः, सृष्टेः च उत्पत्तिः स्थितिः व्यवहारः लयश्च विमृश्यते ।
- ज्ञानमीमांसा - ज्ञानस्य स्वरूपं, साधनं, प्रामाण्यं प्रक्रिया च अस्यां विमृश्यते ।
- आचारमीमांसा - ईश्वरमतं, सुखदुःखे, मोक्षस्य स्वरूपं साधनं च, नीतिशिक्षा (क्वचित्) च अनया दृष्ट्या विमृश्यते ।
भारतीयेषु दर्शनेषु अधोलिखितानां दर्शनानां प्राधान्यम् अस्ति । अन्येऽपि अनेकानि दर्शनानि सन्ति ।
चार्वाक, बौद्ध, जैन, न्याय, सांख्य, योग, वैशेषिक, पूर्व-मीमांसा, उत्तर-मीमांसा/वेदान्त, व्याकरणदर्शनम्
- चार्वाकदर्शनम् - एतत् प्रायः सर्वप्राचीनं दर्शनम् अस्ति । अस्य प्रणेता बृहस्पतिः अस्ति । तस्य ग्रन्थः बृहस्पतिसूत्रम् उल्लिख्यते श्रूयते च परं अद्य यावत् अस्य ग्रन्थस्य एका अपि प्रतिकृतिः न प्राप्ता । अस्य कश्चित् अर्थशास्त्रमपि अनुमीयते । यतः कौटिलीये अर्थशास्त्रे बृहस्पतेर्यानि मतानि उद्धृतानि तानि चार्वाकदर्शनस्य मतेन साम्यं धारयन्ति । प्राधान्येन वेदसम्बन्धि मतम् । मतसाम्येनैव उभयः बृहस्पती एकमनुमीयेते । अस्य दर्शनस्य तत्त्वोपप्लवसिन्धु-नामकः एकः अर्वाचीनः ग्रन्थः प्राप्यते ।
- बौद्धदर्शनम् - अस्य दर्शनस्य प्रणेता नागार्जुनः अस्ति ।
- जैनदर्शनम् -
- न्यायदर्शनम् - अस्य दर्शनस्य प्रणेता गौतमः अस्ति । तस्य न्यायसूत्रम् अस्य प्रवर्तकः ग्रन्थः अस्ति । अस्योपरि वात्स्यायनः न्यायभाष्यम् अलिखत् । भाष्यस्योपरि उद्योतकरः न्यायवार्त्तिकम् अरचयत् । वार्त्तिकस्य मतं पूरयितुं वाचस्पतिमिश्रः अस्योपरि न्यायवार्त्तिकतात्पर्यटीकाम् अरचयत् । तात्पर्यटीकायाः मतेषु कृतानामाक्षेपाणां खण्डनं कर्तुं तस्योपरि उदयनाचार्यः न्यायवार्त्तिकतात्पर्यटीकापरिशुद्धिम् अरचयत् । एतद्दर्शनं प्रमाणशास्त्रमपि कथ्यते । गङ्गेशोपाध्यायस्य तत्त्वचिन्तामणिग्रन्थेन न्यायस्य अन्यस्य स्वरूपस्य प्रारम्भः भवति यत् नव्यन्याय इति नाम्ना प्रसिद्धम् ।
- वैशेषिकदर्शनम् - अस्य दर्शनस्य प्रणेता कणादमुनिः अस्ति । तेन वैशेषिकसूत्रं रचितम् । अस्य तत्त्वमीमांसायां विशेष इति पदार्थस्य प्रतिपादनेन अस्य दर्शनस्य नाम वैशेशिकम् अभवत् । अस्य अन्यानि नामानि काणाददर्शनम् औलूक्यदर्शनम् इत्यादीनि सन्ति ।
- साङ्ख्यदर्शनम् - अस्य दर्शनस्य प्रणेता कपिलमुनिः अस्ति । तस्य साङ्ख्यसूत्रम् इति ग्रन्थः प्रसिद्धः । परमस्य दर्शनस्य प्रधानः ग्रन्थः ईश्वरकृष्णविरचिता साङ्ख्यकारिका अस्ति । यत् साङ्ख्यसूत्रं प्राप्यते, तस्य प्रवर्तककपिलप्रणेतृत्वं सन्दिग्धमस्ति ।
- योगदर्शनम् - अस्य दर्शनस्य प्रणेता पतञ्जलिमुनिः अस्ति । तस्य योगसूत्रं चतुर्षु पादेषु विभक्तः ।
- मीमांसादर्शनम् - इदं दर्शनं पूर्वमीमांसा इति नाम्नाऽपि प्रसिद्धम् । अस्य प्रणेता जैमिनिना मीमांसासूत्रं रचयित्वा अस्य प्रवर्तनम् कृतम् । अस्योपरि शबरस्वामिना भाष्यं लिखितम् । भाष्यस्योपरि कुमारिलभट्टस्य प्रभाकरमिश्रस्य च मतभेदेन अस्य द्वौ सम्प्रदायौ जातौ - भाट्टमीमांसा प्राभाकरमीमांसा च । कुमारिलभट्टस्य प्रधानाः ग्रन्थाः सन्ति - श्लोकवार्त्तिकम्, तन्त्रवार्त्तिकम् , टुप्टीका च । प्रभाकरस्य प्रमुखौ ग्रन्थौ स्तः बृहती, लघ्वी च ।
- वेदान्तदर्शनम् - इदं दर्शनम् उत्तरमीमांसा इति नाम्नाऽपि प्रसिद्धम् अस्ति । बादरायणः व्यासः अस्य प्रणेता । तेन ब्रह्मसूत्रम् रचितम् । इदं सूत्रं वेदान्तसूत्रम्, शारीरकसूत्रम् अपि कथ्यते । एतद्दर्शनं उपनिषदं प्रमाणं कृत्वा तस्य मतमनुसरति । वेदान्तदर्शनस्य कालान्तरे अनेके सम्प्रदायाः जाताः तेषां केचित् प्रसिद्धाः सम्प्रदायाः तेषां प्रमुखा आचार्याः च सन्ति - अद्वैतवेदान्तः (शङ्कराचार्यः/शङ्करः), द्वैतवेदान्तः (मध्वाचार्यः), द्वैताद्वैतः, विशिष्टाद्वैतः, शुद्धाद्वैतः आदयः ।
- व्याकरणदर्शनम् - एतद्दर्शनम् पाणिनीयदर्शन नाम्ना माधवाचार्येण सर्वदर्शनसङ्ग्रहनामके ग्रन्थे उल्लिखितम् । अस्य दर्शनस्य प्रारम्भः पतञ्जलिमुनेः महाभाष्यग्रन्थात् स्वीक्रियते । अस्य दार्शनिकं रूपं भर्तृहरिणा वाक्यपदीयग्रन्थे विस्तारितम् । शब्दब्रह्म, स्फोट आदयः अस्य दर्शनस्य प्रमुखाः सिद्धान्ताः सन्ति ।