तत्त्वज्ञानम्

(दर्शन शास्त्र इत्यस्मात् पुनर्निर्दिष्टम्)

तत्त्वशास्त्रे भारतस्य गुरुत्वं सर्वत्र प्रसिद्धं वर्तते। भारते नास्तिक-आस्तिकभेदेन परस्परं भेदमापन्नानि तानि दर्शनानि सन्ति द्वादश विधानीति तेषु सन्ति षडास्तिकदर्शनानि, षट् च नास्तिकदर्शना नीति । तत्र नास्तिकदर्शनेषु चास्त्येकं दर्शनं बौद्धदर्शनमपीति तच्च बौद्ध दर्शनञ्चास्ति खलु भागत्रयात्मकम् । तत्र च -

१. प्रारम्भिकबौद्धदर्शनरूपः प्रथमो भागः ।

२. द्वितीयश्च महायानदर्शनरूपः ।

३. तृतीयश्व बौद्धधर्मपरिचयात्मकः ।

तत्रापि प्रारम्भिकबौद्धदर्शनस्य मूलाधारभित्तिश्च भगवतो बुद्धस्य चत्वारि आर्यसत्यानि सन्ति, तानि च साक्षाद् बुद्धोक्तानि गीयन्ते इत्यत्र नास्ति लेशतोऽपि विवादः । भगवतो बुद्धस्येमे एव सन्ति मूलभूताः प्रभूताः सदुपदेशा आर्यसत्यचतुष्टयात्मकाः ।

तानि च दुःख-दुःखसमुदय-दुःखनिरोध-दुःखनिरोधमार्गस्वरूपाणि इति ।

(१) तत्र चास्ति प्रथमम् आर्यसत्यं दुःखम् । तत्र जन्मापि दुःखम्, जरापि दुःखम्, मरणमपि दुःखम्, जननीजठरे शयनमपि दुःखम्, शोकोऽपि दुःखम्, इच्छायाः पूर्त्यभावोऽपि दुःखम् एवं व्याघातोऽपि दुःखम्, प्रियवस्तु वियोगोऽपि दुःखम्, अप्रियसंयोगोऽपि तथा, तत्त्वतः शरीरमपि दुःखम् इत्येवं क्रमेण सर्वमेव दुःखमिव सकलमेव चराचरात्मकं जगद् दुःखपङ्कनिमग्नमिति विज्ञेयम् इत्यत्र विवेक एव प्रमाणम् ।

(२) द्वितीयञ्चास्ति खल्वार्यसत्यं दुःखसमुदयरूपम् । अर्थात् दुःखस्य समुदयः ( दुःखस्य समुद्भवो ) भवति । यस्मात् कारणात् इति व्युत्पत्त्या दुःख कारणमेव 'दुःखसमुदय'-शब्दार्थः । सर्वेषामेव कार्याणां कारणनान्तरीयकत्वेन सकारणकत्वं सिद्धयति, यतः सर्वेषामेव कारणानामवश्यमेव किमपि कार्य मस्तीति तु परमार्थः । अतोऽस्ति चेद् दुःखं तदा तस्य कारणेनाऽप्यवश्यमेव भवितव्यम् इति विज्ञेयम् । तच्च कारणमविद्या, तृष्णादिकं द्वादशनिदा नान्तर्गतं विज्ञेयम् ।

तत्रापि द्वादशनिदानान्तर्गतं जन्म-मरणचक्रमेव 'प्रतीत्यसमुत्पाद'-नाम्ना व्याह्रियते । भगवतो बुद्धस्य शिक्षायाः प्रतीत्यसमुत्पाद एव चास्ति खल्वा धारभूतः स्तम्भः । 'सम्यक् सम्बोधि'-प्राप्त्यवसरे एवेदं प्रतीत्यसमुत्पादविषयक शिक्षणं प्राप्तवान् भगवान् प्रबुद्धो बुद्धः ।

हीनयानेऽपि खल्वयमेव प्रतीत्यसमुत्पादश्चास्ति बौद्धधर्मस्य बौद्ध दर्शनस्य चाऽऽधारभूतः स्तम्भः, इत्यस्ति हीनयानस्य सैद्धान्तिकः पक्षः ।

महायानेऽपि चायमेव प्रतीत्यसमुत्पादो हीनयानानुसारं वर्तते भगवतो बुद्धस्य मूलभूत उपदेशात्मक आदेशः । भगवतो बुद्धस्योपदेशान्तर्गतमुपदेशद्वय मेव चास्ति समीचीनं शोभमानम् ।

१. तत्रैकं दुःखसमुदयरूपम् ।

२. द्वितीयञ्चास्ति दुःखनिरोधरूपं निर्वाणापरपर्यायस्वरूपम् इति । इदमेव च वर्तते खलु शासितुः शासनम् इति । एतद् विदाङ्कर्तारो जना एव धर्म जानन्ति । एतो हेतुसहितधर्मविषयकं ज्ञानमेव प्रज्ञाभूमिः कथ्यते । तथा चोक्तम् -

'सच्च पटिच्च समुप्पादादि मेदा धम्माभूमिः ।' []

प्रसिद्धस्य महायानावलम्बिनो नागार्जुनस्येदमप्यस्ति कथनं यत् प्रतीत्य समुत्पादद्रष्टव चास्ति यथार्थद्रष्टा इति । अपि च महायानमार्गावलम्बी खलु नागार्जुनः प्रतीत्यसमुत्पादमेव शून्यतायाः सिद्धान्तं प्रोट्टङ्कयन्ति वर्णयन्ति च । अयमेव च बुद्धोपदिष्टमार्गः ।।

(३) तृतीयश्चास्ति आर्यसत्यः दुःखनिरोधरूपः । स च 'निर्वाण'-शब्द जन्यवोधविषयतां गतोऽपि भवति । निर्वाणश्च खल्वस्ति अमृतरसः । तं रसं पीत्वैव जन्म-मरणादिरूपबन्धनतो निवृत्तो भवति मानव इति च सर्वाणि शास्त्राणि सकलाश्च शास्त्रतत्त्वज्ञा वदन्ति ।

इममेवाऽभिप्रायं मनसि निधाय भिक्षुगणान् बोधयामास भगवान् बुद्धः । हे भिक्षवः ! ध्यानं दीयताम्, मयाऽमृतं पीतम् । तस्यैवोपदेशमहं भवद्भ्यो ददामि । अस्यैवाऽमृतरसस्य पानं विदधानाः खलु जीवात्मानोऽमरत्वमापन्ना बभूवुः । तच्च जीवनिष्ठममरत्वं सर्वथा निर्माणरूपमिति निर्वाण एवाऽशेष लाभः 'परमाशान्तिः' 'परमा समवाप्ति:' 'परमपदरूपः' 'परमशिव'-कल्याणा वस्थारूपश्चास्तीति मे सुदृढोऽनुभवो विश्वासश्च । अतो निरोधस्यैवाऽपरं नाम निर्वाण इति । अयमेव चास्ति तृतीय आर्यसत्यः-दुःखनिरोधापरपर्यायभूतो निर्वाणरूपः ।

(४) चतुर्थ आर्यसत्यश्च 'दुःखनिरोधमार्ग' इति । अर्थात् निर्वाणप्राप्ति जनकीभूतो मार्गः । यानि तृष्णादीनि कारणानि दुःखं जनयन्ति तेषां कारणानां विनाशोपाय एव निर्वाणमार्गः कथ्यते । अस्य निर्वाणमार्गस्याऽष्टावङ्गानि सन्ति अतोऽयं निर्वाणमार्गोऽष्टाङ्गिकमार्गोऽपि कथ्यते । तानि चाष्टाङ्गानि निम्नो ल्लिखितानि सन्ति । यथा -

१. 'सम्यग् दृष्टिः' इत्यस्ति प्राथमिकमङ्गम् ।

२. 'सम्यक सङ्कल्पः' इति च द्वितीयं मार्गद्वयमिदं प्रज्ञानाम्ना प्रोच्यते ।

३. 'सम्यग् वाक्' इत्यस्ति तृतीयमङ्गम् ।

४. 'सम्यक् कर्मान्तम्' चतुर्थमिदम् ।

५. 'सम्यक् आजीवः' पञ्चममदः ।

६. 'सम्यग् व्यायामः' षष्ठमिदम् । इदञ्च मार्गचतुष्टयं 'शील'-नाम्ना कथ्यते।

७. 'सम्यक् स्मृतिः' इति चास्ति सप्तमम् ।

८. 'सम्यक् समाधिः' इति चाष्टमम् ।

इति च मार्गद्वयं समाधिनाम्ना समुल्लिख्यते ।

हीनयान-महायानविचारः

सम्पादयतु

भगवतो बुद्धस्य गार्हस्थ्यजीवनमापन्नस्य जीवनकाले बौद्धधर्मस्य नासीत् कोऽपि सम्प्रदायः । भगवान् बुद्धः खलु निर्वाणप्राप्त्यनन्तरमन्यदार्शनिकधर्म सम्प्रदायवत् स्वीयधर्मसम्प्रदायमप्यजीजनत् । यश्च बौद्ध सम्प्रदायनाम्नाऽधुना तनकालावच्छेदेन गीयते ।

भगवान् बुद्धस्तदानीन्तनकालावच्छिन्नान् व्याप्यवृत्तित्वेनाऽवच्छिन्नान् भिक्ष प्रवरान् बौद्धान् सम्बोध्य प्रोवाच हे भिक्षव: ! कालान्तरे इमे सर्वेऽपि धर्म सम्प्रदाया वादविवादविषयजनकीभूता भविष्यन्तीति भवद्भिनं सुनिश्चीयता मिति मे सदृढो विश्वासः ।

अनन्तरकालावच्छेदेन चेदमेव भगवतो बुद्धस्य वचनं कथनं वा बौद्धविद्वत्सु पारस्परिके वादविवादे जायमानेऽनेकेषां सम्प्रदायानां जायमानत्वेन याथार्थ्य रूपावच्छिन्नतां गतमिति सर्वेऽपि जानन्ति बौद्धधर्म-दर्शनवेत्तारो विद्वांसो जनाः ।

ते च पारस्परिकविरोधिवृत्तिमापन्नाः सम्प्रदायाः इत्थं श्रूयन्ते । यथा स्थविरवादः । अयञ्चाऽत्यन्तमेवाऽस्ति प्राचीनः सम्प्रदायः । एवमन्येऽपि बहवः सन्ति सम्प्रदायाः समुपलब्धमानाः, उदाहरणार्थं यथा -

१. 'सर्वास्तिवादिसम्प्रदायः' ।

२. 'वात्सीपुत्रीयसम्प्रदायः' ।

३. 'महासाङ्घिकसम्प्रदायः' ।

४. 'काश्यपीयसम्प्रदायः' ।

५. 'हैमावतसम्प्रदायः' ।

इत्यादिरूपेण नानाविधाः सम्प्रदाया अत्रापि मिलन्तीतिवत् अन्यत्रापि सर्वत्रैव मिलन्तीत्येवंक्रमेण बहवस्ते सन्ति सम्प्रदाया ये चाऽस्माभिः सङ्ख्यातुमेव न पार्यन्ते साधारणमनुजैः ।

अधुनाऽप्ययं बौद्धधर्मसम्प्रदायोऽहनिशमनिशमविच्छिन्नप्रयासायासभार मुद्वहन् समुन्नतिसमुत्सुकतयैवाऽऽत्मानं लब्धवानित्यत्र नास्ति लेशतोऽपि सन्देहा नध्यवसायावसरः ।

तत्रापि सङ्क्षपतोऽयं बौद्धधर्मो हीनयान-महायानभेदेन सम्प्रदायद्वये भिन्नतां गत एव समनुभूयते । यथा—जैनधर्मसम्प्रदायोऽपि श्वेताम्बर-दिगम्बरभेदेन भिन्नतां गतः शाब्दबोधविषयी क्रियते । एवमन्यत्रापि सर्वत्र बोध्यम् ।

एवं बौद्धधर्मप्रमुखसम्प्रदायद्वयभूतयोहीनयानमहायानयोरपि सन्ति खल्व वान्तरभेदा नानाविधाः, येषां दिग्दर्शनं किञ्चिन्मानं मयाऽकारि प्रागेव । तथापि ऐतिहासिकदृष्ट्या एवं धार्मिकदृष्ट्या तथा दार्शनिकदृष्ट्या मुख्यतः प्रागुक्तं हीनयान-महायानेति नामकं सम्प्रदायद्वयमेव चास्ति सर्वथा समीचीनम् । तत्रापि-आचार्यः श्रीअसङ्गो बौद्ध विद्वान् हीनयान-महायानयोरैतिहासिकं तत्त्वञ्च विवेचयन् महायानस्य महदेव वैशिष्ट्यं प्राकाश्यं नीतवान् । तथाहि -

१. महायानं खल्वस्ति महदेव विशालक्षेत्रकं यतस्तत्र सर्वेषामेव जीवानां मुक्तिविधाननियमो निहितः ।

२. महायाने प्राणिमात्रस्य सुरक्षाया सन्देशो समुल्लिखितो वर्तते ।

३. बोधिसत्त्वप्राप्तिविधानमेव महायानस्य चास्ति लक्ष्यम् ।

४. बोधिसत्त्वमेव चास्ति आदर्शो महायानस्य । यश्च खल्वादर्शः सर्वेषा मेव जीवानां मुक्तिसंविधानरूपं चरम कल्याणं बोधयति ।

५. महायानस्येयमस्ति मान्यता यद् बुद्धो हि भगवान् सर्वेषामेव जीवानां कल्याणार्थ प्रकारबहुत्वमाश्रित्य समुपदिशति । ते च बुद्धोपदेशाः सर्वथा सन्ति सर्वथा समानमाना इति । इत्यादिरूपेण सन्ति तदीया बहव उपदेशा इति ।

पश्यन्तु–'महायानाभिधर्मसङ्गीतिशास्त्रे

हीनयान-महायानर्योर्भेदः

सम्पादयतु

सझेपतो हीनयानसम्प्रदायस्येदमेवास्ति लक्ष्यम्, यद् व्यक्तिगतं निर्वाणं जायतामितीदं ज्ञानयानं हीनयानम् । अर्थात् लघुयानेन बोध्यमानं यानं हीन यानमित्यर्थः । अत एव हीनयाने व्यक्तिगतं कल्याणं विचार्यते । तत्र खल हीनयाने 'बहुजनहिताय बहुजनसुखाय चेति नात्र शिक्षणं प्रदीयते । अत एव हीनयानमित्यस्य लघुयानमित्यर्थो लभ्यते । परन्तु भगवतो बुद्धस्य नैवंविधा परमसङ्कोचमापन्ना केवलं स्वार्थमयी कल्याणविषयिणी विचारधाराऽऽसीत् ।

महायाने तु नैवमस्ति शिक्षणम्, तत्र तत्सम्बन्धिकल्याणविषयकज्ञानयानं 'बहुजनहिताय बहुजनसुखाय च' भवतीति तत्र सामूहिकं सामाजिक कल्याण विषयिणी विचारधारां प्रदत्तवान् भगवान् बुद्धः सर्वेभ्यः स्वात्मजनेभ्यः । अत एव महायानं सामूहिकं यानं विस्तृतं यानमिति च गीयते ।

महायानानुसारं भगवान् बुद्धः सर्वेभ्यः सन्मार्गानुयायिभ्यो भक्तजनेभ्यो भिक्षुकप्रवरेभ्यो जागतिकबन्धनतो विमुक्तये समुपदिदेश । महायानञ्चास्ति भक्तिप्रधानो धर्मः । हीनयाने तदभावोऽनुभूयते। अपि च महायानदर्शनस्य शून्यवाद एव चास्ति प्रमुखः सिद्धान्तः । शून्य तत्त्वाऽवलम्बिनो दार्शनिका माध्यमिकपदजन्यबोधविषयतां गता भवन्ति । यथोक्तम्-

'मुख्यो माध्यमिको विवर्तमखिलं शून्यस्य मेने जगत्' ।

तच्च शून्यतत्त्वमनिर्वचनीयतायां पर्यवस्यति । अस्यैव शून्यतत्त्वस्य विवर्त भूतं चास्ति प्रभूतं जगत् इति च माध्यमिकास्तन्नयवेत्तारो वा वदन्ति ।

तच्च शून्यतत्त्वञ्चास्ति सर्वथाऽनिर्वचनीयम् । वेदान्तमतसिद्धाऽनिर्वचनीया ऽज्ञानस्वरूपमायावत् माध्यमिकाऽभिमतं शून्यतत्त्वमपि नहि निवर्तुं शक्ष्यति कश्चिद् विपश्चिदिति तस्याप्य निर्वचनीयत्वं सुस्पष्टमेवेति मन्तव्यम् ।

योगाचारमतम्

सम्पादयतु

विज्ञानवादिन एव खल्वाचार्यवसुबन्धुप्रभृतयो दार्शनिका योगाचारपदा भिधेयतां व्रजन्तीति मे मतिः, यतोऽत्र योगचर्यायश्चिास्ति महत्त्वम् । एतत् सम्प्रदायाऽनुयायिनामनुसारं खलु 'बोधि'-समवाप्तये योगश्चास्ति नितान्त मावश्यकः स्वस्मिन् सम्बुद्धत्वलाभायेति । अस्य सम्प्रदायस्य चास्त्येको महत्त्व पूर्णो ग्रन्थोऽसङ्गस्य 'योगाचारभूमिशास्त्रम्'।

अनेनापि शास्त्ररूपेण ग्रन्थेन आचार्यप्रवरः श्रीअसङ्गो बौद्धविद्वान् योग द्वारा परमार्थज्ञानप्राप्तिरेव योगाचारदर्शनस्य मूलभूतं प्रभूतं निगूढञ्चास्ति रहस्यमिति ब्रूते ।

बोधिसत्त्वभूमेरनुकूला जायमाना योगिचर्यैव खलु योगाचारपदाभिधेयतां गता, आहोस्वित् योगदर्शनपदजन्यबोधविषयीभूता, एवं योगशास्त्रजन्यबोध विषयीभूता वा भवतीति श्रूयते ।

अस्यैव चास्त्यपरं नामधेयं विज्ञानवादोऽपि । घटपटादिस्वरूपाः सर्वेऽपि पदार्थाः सन्त्यस्यैव विज्ञानस्याऽऽकारविशेषाः । विज्ञानातिरिक्त किमपि नास्त्येव । अयमपि योगाचारः साक्षादद्वैतवादी सन् विवर्तवादं समभ्युपगच्छति । रज्ज्वां प्रतीयमानविवर्तभूतसर्पवत् ।

यथा वेदान्तिनां नयेऽपि चराचरात्मकं जगदिदं खल्वस्ति ब्रह्मण एव प्रकारविशेषभूतम्, आकारविशेषस्वरूपञ्च । एवं सर्वेऽपि जागतिकाः पदार्था अपि सन्ति तस्यैव ब्रह्मण आकारभूताः । तेषां पदार्थानां जगतश्च नास्ति कापि स्वतन्त्रसत्ता। ब्रह्मसत्तातिरिक्तसत्ताकत्वाभावेन तेषां ब्रह्मसत्तयैव सत्तावत्त्वं प्रतीयते । अत एव वेदान्तमतवत् योगाचारमतेऽपि विज्ञानातिरिक्ताः सर्वेऽपि घट-पटादयः सर्वेऽपि पदार्थाः सन्ति सर्वथा मिथ्याभूताः सत्ताविहीनाश्चेति मन्तव्यं, शुक्तौ रजतवत् ।

तच्च विज्ञानम् ( ज्ञानम् ) चास्ति क्षणिकम् । क्षणिकत्वञ्च स्वाऽव्यवहि तोत्तरक्षणवृत्तिध्वंसप्रतियोगित्वरूपम् । तच्च ज्ञानं ( विज्ञानम् ) द्विविधम् प्रवृत्तिविज्ञानम्, आलयविज्ञानञ्चेति । तत्र प्रवृत्तिविज्ञानं चाक्षुषविज्ञान श्रावणविज्ञान-घ्राणजविज्ञानप्रभृतिभेदेन सप्तविधम् ।

तत्राऽऽलयविज्ञानम्-आसमन्ताल्लीयन्ते विज्ञानानि यत्रेति यौगिकव्युत्पत्त्या सर्वाणि विज्ञानानि खल आलयविज्ञाने एव लीयमानानि भवन्ति । तच्चाऽऽलय विज्ञानं सुषुप्त्यवस्थात्मके कालेऽपि सन्तिष्ठमानं सत् प्रलयकालपर्यन्तं सन्तिष्ठमानं भवति ।

विज्ञानवादिनां दार्शनिकानामिदमप्यस्ति कथनं यत् 'सहोपलम्भ'-नियमा नुसारतो घट-पटादयो वस्तुभूता विषयास्तद्विषयकञ्च ज्ञानम् ( विज्ञानम् ) सहैवोत्पन्नतां लभन्ते । विज्ञानमेव वस्तु सदिति नहि ततोऽतिरिक्तं किमपि सत्तावदित्युक्तं प्रागेव । तत्र प्रमाणमप्याह-

विज्ञप्तिमात्रमेवैतद् सदर्थावभासनात् ।

यथा तैमिरिकस्याऽसत् केशचन्द्रादिदर्शनम् ॥ -विंशतिका, का० १।

इदानीं माध्यमिक-योगाचार-प्रभृतीनां चतुर्णामेव बौद्धानां दार्शनिकानां दर्शनसम्बन्धि तात्त्विकं विज्ञानमत्रकस्मिन्नेव श्लोकात्मके पद्ये निहितं प्रदर्श्यते -

मुख्यो माध्यमिको विवर्तमखिलं शून्यस्य मेने जगत् ।

योगाचारमते तु सन्ति मतयस्तासां विवर्तोऽखिलः ।।

अर्थोऽस्ति क्षणिकस्त्वसावनुमितो बुद्धयेति सौत्रान्तिकाः ।

प्रत्यक्षं क्षणभङ्गुरञ्च सकलं वैभाषिको भाषते ॥[]

चार्वाकदर्शनम्

सम्पादयतु

अस्य चार्वाकदर्शनस्य प्रवक्ता आचार्यो बृहस्पतिरासीदत एवेदं दर्शनं बाह स्पत्यदर्शनम् इत्यपि गीयते। 'लोकायतदर्शनम्' इति चास्ति तदीयं नामा न्तरम् । लोकेषु आयतम् = विस्तृतमित्यर्थः। चार्वाकमते प्रत्यक्षप्रमाणजन्य ज्ञानविषयीभूता ये सन्ति पदार्थास्त एव पारमार्थितां ( सत्यताम् ) गताः सन्तः समनुभूयन्ते ।

बार्हस्पत्यदर्शनमिदं चार्वाकदर्शनं खलु चास्ति बृहस्पतिप्रणीतसूत्रेष्वनुब द्धम् । तेषां सूत्राणामधुनातनकालावच्छेदेनाऽनुपलब्धिदर्शनात् नामैव केवलं श्रूयते, तदपि श्रवणं सूत्रत्वमात्रेणैव केवलं जायते न तु विशेषतस्तत्तत्सूत्रत्वेने त्यहं 'कुसुमलताशर्मा' सत्यमेव ब्रवीमि ।

केचिद् दार्शनिकाश्चेत्थं ब्रुवन्ति यदिदं दर्शनं 'चार्वाक'-नामकेन केनचिद् दैत्येन प्रणीतमस्ति न तु देवगुरुणा श्रीबृहस्पतिनापीति ।

चार्वाकदर्शने पृथिवी, जलम्, तेजो, वायवश्चेति सन्ति चत्वारि द्रव्याणि प्रत्यक्षविषयतां गतानि । एतेषां जडस्वरूपाणां चतुर्णामेव पृथिव्यादिद्रव्याणां परस्परं सम्मेलनेन सम्पाद्यमाने देहेऽस्मिन् चैतन्यमुपजायते। इत्थञ्च चैतन्यस्य शरीरस्यैव धर्मतया चैतन्याश्रयत्वेन शरीरमेवाऽऽत्मेति वदति चार्वाकः । शरीर विनाश एव च मोक्षः, न ज्ञानान्मुक्तिरिति । यथोक्तम् -

'देहस्य नाशो मुक्तिस्तु न ज्ञानान्मुक्तिरिष्यते ।

अत्र चत्वारि भूतानि भूमिवार्यनिलाऽनलः ॥[]

आहेतदर्शनम्

सम्पादयतु

जैनपदजन्यबोधीयविषयतावन्तः खल्विमे आर्हता 'अर्हत्'-पदसम्बोध्यं देवं देवविशेष वा समुपासते । यथोक्तम् -

'अर्हन्नित्यथ जैनशासनरताः ।'[]

जैनधर्मदर्शनजन्मदाता तथा जैनसम्प्रदायप्रवर्तकश्चास्ति कश्चित् अर्हत्पदा भिधेयतां गतो लोकपूजितो जितरागादिः सर्वज्ञः कर्तुमकर्तुमन्यथाकर्तुमतिशय शक्तिसम्पन्नो देवविशेषः, स चास्ति खल्वार्हतनामा देवविशेषः । उक्तञ्च-

सर्वज्ञो जितरागादिः सर्वथा लोकपूजितः । यथा स्थितार्थवादी च देवोऽर्हन् परमेश्वरः ।। []

अयञ्च पद्यात्मकः श्लोकः सेश्वरवादितां बोधयति सूचयति चाऽऽर्हता नाम् । एतेनैतेषां निरीश्वरवादिता स्वयमेव निराकृता भवतीति विज्ञेयम् ।

परन्तु वेदानङ्गीकारमात्रेण जैनसम्प्रदायनिष्ठा नास्तिकता तु तथापि सुस्थिराऽक्षुण्णव चास्तीत्यत्र नास्ति लेशतोऽपि विचिकित्सावसरो विवादो वेति । एवं 'नास्तिको वेदनिन्दकः' इति न्यायेन प्राचीनाचार्यचरणोक्त्या वाऽपि वेदनिन्दकबौद्धचार्वाकवदिमे जैनाऽपरनामधेया आर्हता अपि सन्ति तथा विधा एवेति नूनं निश्चीयताम् ।

इमे च जैनसम्प्रदायानुयायिनो बौद्धानां क्षणभङ्गवादम्, निरीश्वरवादम्, कदापि कथमपि नाऽङ्गीकुर्वन्ति समादरन्ति च, यतस्तयोर्द्वयोरपि वादयोः सर्वथाऽननुभवान् शास्त्रप्रामाण्याच्चेति नाङ्गीक्रियेते तौ वादौ।

एवञ्चार्वाकदर्शनानुसारं जैनसम्प्रदाये तद् दर्शने वा सुखदुःखकारणीभूत योर्धर्माऽधर्मयोस्त्यिनङ्गीकारस्तेषां नये तयोरङ्गीकृतत्वादिति नास्ति तयोः कथमपि विरोधः ।

अन्यच्च जीवानां शरीरानवच्छिन्नानां खलु धर्माऽधर्मरूपाऽदृष्टवशादेव परमाणनां क्रमशो जायमानेन पारस्परिकसंयोगेन द्वयणुक-त्र्यणुकादिक्रमेण स्थूलपृथिवी-जलादीनाञ्च जनिर्जायते तस्मात् कारणात् सृष्टिप्रयोजकीभूतौ तौ धर्माऽधर्मावश्यमेवाऽङ्गीकायौं, यतस्तावत् प्राणिनामदृष्टमन्तरा सृष्टेरप्यनुपपत्ते र्जायमानत्वेन साऽनुपपन्ना सती धर्माऽधर्मयोरस्तित्वं साधयति बोधयति चेति धर्माऽधर्मयोरङ्गीकारो नितान्तमावश्यक इति जैनशासनरता जैनदार्शनिका वदन्ति ।

तात्त्विकदृष्ट्या विचार्यमाणे जैनसम्प्रदायदिशा मूलपरमाणुस्वरूपा सर्वथा वैजात्यमापन्नेयं जडत्वेनाऽचेतनात्मिका खलु जैनमतसिद्धा सृष्टिर्नैयायिक वैशेषिकमतवच्चास्ति प्रवाहरूपेणाऽनादिभूतेति विज्ञेयम् ।

नानाविधानि सुकृतदुष्कृतानि कर्माणि विधानपरस्य जीवस्य स्वीयकर्म सम्बन्धेन चराचरात्मकस्य दृश्याऽदृश्यरूपस्याऽस्य जगतः समुत्पत्तिर्जायते । ततश्च तादृशसम्बन्धसम्पत्त्यनन्तरं देहिनां स्वस्वकर्मवशादेव संस्कारोत्पत्तिर्जायते ।

पुनश्च संस्कारोत्पत्त्यनन्तरकालावच्छेदेनैव स संस्कारः पौनःपुन्येन प्राणिनां जननं मरणं जननीजठरे शयनञ्च तज्जन्यं सुख-दुःखादिकञ्च प्रापयति भोग्यत्वेन सम्पादयति चेति पुनर्देहिनां जन्मापि खलु तादृशसंस्कारवशादेव जायतेऽतो नहि तत्र किमपि संस्कारातिरिक्तं हेत्वन्तरमपेक्षमाणं भवतीति जैना वदन्ति ।

जैना द्विविधाः

सम्पादयतु

श्वेताम्बर-दिगम्बरभेदेन द्विविधभेदावच्छिन्नेषु खल्वार्हतेषु श्वेताम्बरा जैना इत्थं प्रोट्टङ्कयन्ति यत् दिगम्बरमतस्य शिवभूतिभूषितः प्रादुर्भावः ८२ ईसवीये वर्षे सुसम्पन्नोऽभूदिति कर्णाणिकया परम्परातो यथार्थज्ञानविषयीक्रियते ।

तथैव दिगम्बरा अपि जैनाः श्वेताम्बरस्य तन्मतस्य च भद्रबाहुकृतं प्रादुर्भावम् ई० ७९ वर्षे वर्णयन्ति प्रस्फोरयन्ति च । भारतेऽपि जैनानां स्थान द्वयमस्ति, दक्षिभारतमेकम्, उत्तरभारतं द्वितीयम् । तत्रोत्तरभारते श्वेताम्बराणा ञ्चास्ति मुख्य स्थानम् । दक्षिणभारते च खल मुख्यतो दिगम्बरा निवसन्तीत्यपि कर्णाकणिकया परम्परातः समनुभूयते इति कृतं विस्तरेण ।

सांख्यदर्शनम्

सम्पादयतु

महामुनि-श्रीकपिलप्रणीतं सांख्यदर्शनमिदं सकलन्याय-मीमांसाप्रभृतिदर्शने भ्यश्चास्त्यतीव प्राचीनमिति च कर्णाकणिकया परम्परातः श्रूयते । त्रिगुणा त्मिकया जगत्कारणीभूतया प्रकृत्या विरचितत्वादस्य जगतोऽपि त्रैगुण्यं सिद्धयतीति व्यावहारिकञ्चास्ति सांख्यदर्शनमिदमिति नूनं विभावनीयमिति ध्येयम् । व्यवहारेऽप्यस्माभिस्त्रैगुण्यमनुभूयते सांख्यदर्शनमपि तथैवाऽनुभावयति, यतस्तत्कारणीभूतायाः प्रकृतेरपि त्रिगुणात्मकत्वात् ।

प्रकृतिश्च सत्त्वरजस्तमसां साम्यावस्थेति च निगद्यते । सैव च पुनः सत्त्व रजस्तमसां वैषम्यावस्थामापन्ना सती चराचरात्मकं जगदिदं समुत्पादयतीति जगत्कारणीभूता भवतीति भावः ।

न्याय-वैशेषिकमतवदत्रापि सांख्यदर्शने चेतनस्य जीवात्मस्थानीयस्य पुरुष स्य बहुत्वं नानात्वञ्च कल्प्यते, इति सा कल्पना महत्येव समीचीना, तस्याः सत्तर्कयुक्तत्वात् । अन्यथा एकस्मिन् पुरुषे स्वीक्रियमाणे तस्मिन्नेव विचित्ते सर्वे एव विचित्ताः स्युः, यतस्तस्यैव सर्वशरीरेषु विद्यमानत्वात् । एवमेकस्मिन् वैदुष्यमापन्ने विदुषि सञ्जायमाने सर्वे एव खलु विद्वांसः स्युः ।

एवम्भूतोपर्युक्ताऽऽपत्तिरूपदोषबाहुल्यानुभवादात्मनः पुरुषस्यैकत्वं नैव कदापि स्वीकर्तुं शक्यते, इत्यतः पारिशेष्यात्तस्य बहुत्वमेव कल्प्यताम् । तथोक्तम् -

'पुरुषबहुत्वं सिद्धम्'[]

इदञ्च सांख्यदर्शनं सेश्वरदर्शन-निरीश्वरदर्शनभेदेन भिन्नं सद् द्विविधं परिगण्यते ।

अस्मिन् महामुनिकपिलप्रणीते सांख्यदर्शने चेश्वरानङ्गीकारात्तस्य सूत्रे कारिकायां वा नामापि न श्रूयते इतीमे कपिलमतानुयायिनः सांख्याः सन्ति निरीश्वरवादिन इति ।

केवलमेकमात्रं जीवस्थानीयमेकमेव चेतनतत्त्वमभ्युपगम्यते यच्चास्ति पुरुष पदाभिधेयतां गतमिति । तदपि तत्त्वं प्रकृतेश्चैतन्याभिमानान्यथानुपपत्त्या कल्प्यते ।

न्यायदर्शनम्

सम्पादयतु

नीयते=प्राप्यते, अयनम् = मोक्षो, येनासौ न्यायः । अथवा नीयते = अधिगम्यते विवक्षितार्थसिद्धिरनेनाऽसौ न्यायः । तस्य न्यायस्य यद् दर्शनमनु भवस्तदेव न्यायदर्शनम् = न्यायशास्त्रमित्यर्थः, आन्वीक्षिकीति यावत् । न्याय शास्त्रस्य महत्त्वन्तु सर्वशास्त्रोपकारकत्वेन सर्वत्रैव प्रसिद्ध मस्तीति सर्वेऽपि विद्वांसो विदाङकुर्वन्ति समनुभवन्ति च । तथा चोक्तम् -

'प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् ।

आश्रयः सर्वधर्माणां विद्योद्देशे प्रकीर्तिता ॥'[]

अपि च-

'काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम्'।[]

अन्यच्चापि -

'तत्रोपनिषदं तात ! परिशेषन्तु पार्थिव !

मथ्नामि मनसा तात ! दृष्ट्वा चान्वीक्षिकी पराम् ।'

अस्य न्यायशास्त्रस्य जन्मदातृत्वेन श्रीमहर्षि-गोतम एव चास्त्यादिप्रवर्तकः । अयञ्च महर्षिस्त्रेताकालीनः सन् प्रजापतेः श्रीमहर्षेरङ्गिरसः प्रपौत्रो दीर्घतमसः पुत्रो महान् तपस्वी, तेजस्वी चासीदादिन्यायशास्त्रप्रणेता मनस्वी मनीषी ।

अस्य महर्षि-गोतमस्य धर्मपत्नी चासीत् परमां ख्याति प्राप्ता काञ्चनाभा चन्द्रोज्ज्वला प्रवालोपमकान्तिकान्ता 'अहल्या'-नाम्नी, स्वयं गोतमेनाऽभिशा पिता स्ववृत्तिशिलात्वधर्म समलञ्चकार ।

तदनन्तरकालावच्छेदेन साक्षात् सच्चिदानन्दस्वरूपलक्षणलक्षितस्याऽऽनन्द कन्दस्याऽयोध्याचन्द्रस्य कौशल्यानन्दवर्धनस्य भगवतो रामचन्द्रस्य चरणारविन्द स्य संस्पर्शमात्रेण विधूतपापा सा सर्वथाऽभिशापनिवृत्ता जाता। दिव्यं भव्यञ्च शरीरं पुनर्दधौ । ततश्च महर्षेोतमस्य सद्भावनाऽभूत् । सद्भावनाभावितान्तः करणे च पूर्वकालतोऽपि विशेषतः सम्मानमजायत ।

अस्य महर्षे!तमस्य साक्षात् 'शतानन्द'-नामा पुत्रः श्रीमिथिलेश्वरस्य पुरोहितोऽप्यासीदिति श्रूयते । तदत्र युक्ताऽयुक्तत्वे स्वयमेव विचार्यताम् । अयञ्च महर्षि-गोतमोऽष्टादशपुराणानां ब्रह्मसूत्राणाञ्च रचयितुः श्रीव्यासस्य समकालीन आसीत् । श्रीगोतमस्यापरं नाम अक्षपादोऽप्यासीत् । अस्य महर्षे रक्षपादत्वे श्रीव्यास एवाऽऽसीत् कारणम् ।

अस्य श्रीगोतमस्य 'अक्षपादे'ति नामविधाने चास्तीयं महती किंवदन्ती यत् श्रीगोतमो महर्षिः शास्त्रीयपदार्थचिन्तासन्तानपरो भूत्वा 'पतितः पतितः पुनरुत्पतसि' इति न्यायेन श्रीगोतमस्य पतनजन्यशारीरिकाऽऽघातव्याघातादिना सर्वोऽपि देहः सजीवनं महदेव गम्भीरं प्रतिदिनं समवर्तत ।

अनन्तरमेकदा महर्षिः पदार्थीयचिन्तासन्तानेन मार्गभ्रष्टो मार्ग विस्मृतो वा सन्नकस्मादेव कूपे पपात । ततश्च कूपान्तः पतितं तं गोतमं विज्ञाय कश्चिद् देवविशेषः स्वयं तं निष्कास्य स्वीयशक्त्यतिशयबलेन महर्षेः पादयोरक्षिप्रदानं कृतवान् येनास्य नयनत्रितयं जातम् ।

अपरे विद्वांसो महर्षि-गोतमविषये एवं प्रस्फोरयन्ति यद् गोतमो अक्ष पादश्च द्वित्वसंख्यावत्त्वेन पृथक्-पृथगेव समनुभूयेते । तत्र गोतम आन्वीक्षिक्या जन्मदातृत्वेन प्रवर्तक आसीत् । न्यायसूत्राणाञ्च प्रणेता श्रीअक्षपादश्वासीत् । परन्त्विदं सर्वं 'मुखमस्तीति वक्तव्यं दशहस्ता हरीतिकी ति न्यायेन कपोल कल्पितत्वेन मिथ्याभूतम् । यतो न्यायसूत्राऽऽन्वीक्षिक्योश्च परस्परमभिन्नत्वात् ।

न्यायशास्त्रस्य महत्त्वम्

सम्पादयतु

न्यायशास्त्रेतराणि यानि व्याकरण-वेदान्त-प्रभृतीनि शास्त्राणि तानि सर्वाण्येव शास्त्राणि सन्ति न्यायशास्त्रं समपेक्षमाणानीति तानि सर्वथोपकार कत्वेन न्यायशास्त्रमपेक्षन्ते इति । यथोक्तम् -

'काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम्'। -श्रुतमात्रम् ।

'मानाधीना मेयसिद्धिः' एवम् 'लक्षणप्रमाणाभ्यां वस्तुविनिर्णयः' इत्यने नापि प्रमाणभूतेन वाक्यद्वयेन न्यायशास्त्रस्य महदेव महत्त्वं समृद्गीयमानं भवति । अत्र वाक्यद्वयघटकीभूतयोश्च मान-प्रमाण-पदयोरैक्येन अर्थात् एकार्थ कत्वेन, समानार्थकत्वेनेत्यर्थः, न्यायशास्त्ररूपत्वम् । अत एव न्यायशास्त्रमेव प्रमाणशास्त्रं मन्यते लोकः । अपि च—

'आषं धर्मोपदेशञ्च वेदशास्त्राऽविरोधिना।

यस्तर्केणाऽनुसन्धत्ते स धर्म वेद नेतरः' ॥ -श्रुतमात्रमेव ।

न्यायस्य विकासक्रमः

सम्पादयतु

न्यायशास्त्रविकाससम्बन्धिधाराद्वयमेव प्रधानतः समनुभूयते । यस्मिन् धाराद्वये सर्वप्रथमधाराया जन्मदाताऽस्ति श्रीगोतमः । इदमेव च न्याय शास्त्रं न्यायदर्शनशब्देनाप्यभिधीयते । न्यायश्च प्रमाणैरर्थपरीक्षणरूपः । उक्तञ्च–

'प्रमाणैरर्थपरीक्षणम्-न्यायः' । एतेनेदमेवाऽऽयाति यत्- समस्त प्रमाणव्यापारादर्थाऽधिगतिायः, न्या० वा० १ ( पृ० १४ )

'प्रमाणप्रमेयसंशयप्रयोजने'त्यारभ्य 'हेत्वाभासाश्च यथोक्ताः' इत्येतत् पर्यन्तं तदिदं पञ्चाऽध्यायात्मकं न्यायशास्त्रम् । तत्र प्रत्यध्यायमान्हिकद्वयमस्ति ।

नीयते = प्राप्यतेऽयनं = मोक्षो, येनासौ न्यायः । अथवा नीयते प्राप्यते विवक्षितार्थसिद्धिरनेनेति न्यायः । न्यायस्य दर्शनं 'न्यायदर्शनम्' न्यायशास्त्र मित्यर्थः । इदमेव न्यायशास्त्रम् आन्वीक्षिकीविद्याशब्देनापि प्रोच्यते । इत्थञ्च वेदार्थाविरोधितौंपयिकवैदिकतत्त्वसंरक्षणोपयोगिप्रमाणादिपदार्थप्रतिपादकत्व रूपमेवास्ति न्यायशास्त्रत्वमिति तु निष्कृष्टार्थः । अस्य महत्त्वम् -

'प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् ।

आश्रयः सर्वधर्माणां विद्योद्देशे प्रकीर्तिता ॥'

अपि च-

'आर्ष धर्मोपदेशञ्च वेदशास्त्राविरोधिना ।

यस्त?णानुसन्धत्ते स धर्म वेद नेतरः ।।'

एवं तुरीयपुरुषार्थमोक्षप्रकरणेऽपीत्थमुक्तवन्तः -

'तत्रोपनिषदं तात ! परिशेषन्तु पार्थिव ! ।

मथ्नामि मनसा तात ! दृष्ट्वा चान्वीक्षिकी पराम्' ।

अपि च वात्स्यायनो ब्रूते-'प्रत्यक्षागमाश्रितमनुमानमन्वीक्षा, प्रत्यक्षा गमाभ्यामीक्षितस्यान्वीक्षणमन्वीक्षा, तया प्रवर्तते इत्यान्वीक्षिकी न्यायविद्या, न्यायशास्त्रम् । यत्पुनरनुमानं प्रत्यक्षागमविरुद्धं न्यायाभासः स'।[]

न्यायस्तु प्रारदर्शितव्युत्पत्तिदिशा बन्धननिवृत्तिरूपः सिद्धयति । एवं स्थिते न्यायविषये इदं प्राचीनाचार्यकथनमपि साधु सङ्गच्छते । तथाहि-

'यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् ।

अपन्थानन्तु गच्छन्तं सोदरोऽपि विमुञ्चति' ।

वैशेषिकदर्शनम्

सम्पादयतु

श्रीजन्मदातृत्वेन कणादेन पित्रा लालितं पालितं पुत्रवच्च परिवधितं वैशेषिकं दर्शनमिदं सर्वेभ्यो दर्शनेभ्योऽतीव श्रेष्ठं सर्वथा प्रशस्तं प्राचीनतमञ्चेति गीयते । अत एव-'काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम् । इत्यपि कथनं साधु सङ्गच्छते।

अत्र वयं ब्रूमः-शास्त्रं द्विविधम्-१. पदशास्त्रम्, २. पदार्थशास्त्रञ्च । तत्र पदशास्त्रं व्याकरणशास्त्रम्, पदार्थशास्त्रं काणादशास्त्रम् ( वैशेषिकं शास्त्रम्, न्यायशास्त्रम् ) ।

यद्यपि व्याकरण-वेदान्त-प्रभृतीनामन्येषामपि शास्त्राणां विद्यमानत्वेन शास्त्रत्वकथनं साधु सङ्गच्छते । तथापि-अनयोर्द्वयोः शास्त्रयोः समक्षं नास्ति कस्यापीतरशास्त्रस्य वैशिष्ट्यं महत्त्वं वा प्रभुत्वं वा यन्न्यायशास्त्रातिरिक्त शास्त्राणां मीमांसाप्रभृतीनां समुपकारकत्वेनोपकारं कुर्यात् अस्य वैशेषिक दर्शनस्य पदार्थशास्त्रत्वेन सप्तैव पदार्थाः । तथाहि -

'द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम् ।

समवायस्तथाऽभावः पदार्थाः सप्त कीर्तिताः ॥' -भाषापरिच्छेदः, १ ।

इदमेव काणाददर्शनम् ( वैशेषिकदर्शनम् ) औलूक्यदर्शनमप्युच्यते । अस्मिन् कणाददर्शनापरपर्यायभूते प्रभूते-औलुक्यदर्शने 'विशेष'-पदार्थस्यैकस्य नूतन पदार्थाऽङ्गीकारेण 'विशेषस्तु विशेषवान्' इति न्यायेन चाऽन्यदर्शनेभ्यो दर्शन मिदं सुतरां भिद्यते वैशिष्ट्यमापद्यते वेति ।

प्रमाणानां विचारचर्चाऽवसरे तत्र प्रमाणद्वयमेव मान्यं भवति । यतः 'सर्वप्रमाणसिद्धत्वात्' अर्थात् सर्वेषां प्रत्यक्षाऽनुमानप्रमाणातिरिक्तानां प्रमाणा नाम्, अत्रैव द्वयोरेव प्रत्यक्षानुमानप्रमाणयोरेवाऽन्तर्भावात् । तथा चोक्तम् -

'शब्दोपमानयो व पृथक् प्रामाण्य मिष्यते ।

अनुमानगतार्थत्वादिति वैशेषिकं मतम् ॥ -भाषापरिच्छेदः ।

मीमांसादर्शनम्

सम्पादयतु

मीमांसादर्शनमिदं पूर्वमीमांसा-उत्तरमीमांसाभेदेन भिन्नं सद् द्वैविध्य मापन्नमस्ति । तत्र वेदस्य पूर्वभागे योऽस्ति विषयो विचारितस्तादृशविषय विषयको विचार एव 'पूर्वमीमांसा'-शब्देनाऽभिधीयते । स च विचारः 'कर्म' विषयको विचारः । यथोक्तम् -

'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः।[१०]

इत्थञ्चैतत्कर्मविषयकं विचारं विचारितवान् मुनि मिनिः पूर्वभागरूपे वेदैकदेशे।

अपि चैतत्कर्मविषयकविचारात्मिकां मीमांसामाश्रित्य भगवान् श्रीकृष्णोऽपि साक्षादेव ब्रूते -

'शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्' ।[११]

अर्थात् सर्वविधकामनाशून्यः सन् यत् चित्तात्मा त्यक्तसर्वपरिग्रहो यति र्योगी वा केवलं भोजनं शयनादिरूपं शारीरं कर्म कुर्वन् जीवननिर्वाहार्थं, किमपि किल्बिषं नैव प्राप्नोति । अपि च -

'कृतस्य कार्यस्य चेह स्फाति समावह' ।[१२]

अर्थात् कृतस्य = शारीरिकस्थित्यथं कृतस्येत्यर्थः । कार्यस्य = नित्य नैमित्तिककर्मणः । इह = अस्मिन् चराचरात्मके जगति । स्फातिम् = वृद्धिम् । समावह = सम्यक प्रकारेण कुरु । अनेनापि = अथर्ववेदपठितेनापि मन्त्रेण शास्त्रोक्तनित्यनैमित्तिककर्मविधानमेव श्रेयस्करमित्युक्तवान् अथर्ववेद इत्येव प्रमीयते।

अतः पूर्वमीमांसादर्शनस्य कृते जन्मदातृजैमिनिनये कर्मणा एवाऽभ्युदय निःश्रेयसयोः समवाप्तिजनकत्वेन तस्यैव कर्मणः प्राधान्येन निरूपणीयत्वात् इति ।

उत्तरमीमांसादर्शनम्

सम्पादयतु

उत्तरमीमांसादर्शनं नाम वेदान्तदर्शनम् । वेदस्यान्ते अर्थात् वेदस्योत्तर भागे ज्ञानस्यैव निरूपणीयत्वेन वेदान्तशब्दार्थो ज्ञाने पर्यवस्यतीति भावः । वेदान्तो नाम उपनिषत्प्रमाणम् । उपनिषदश्च ब्रह्मविद्यारूपत्वं विज्ञेयम् । इत्थञ्च 'वेदान्त'-शब्दस्य ब्रह्मविद्यारूपेऽर्थे ब्रह्मरूपेऽर्थे वा पर्यवसानं भवतीति बोध्यम् ।

अपि च अद्वैतवादस्य चर्चा भारतीयदर्शनस्य चास्ति प्राणः । भारतीय साहित्ये शङ्कराद्वैतवादतः पूर्वमपि खल्वस्याऽद्वैतवादसिद्धान्तस्य वर्णनं निरूपणं वा सर्वथा यत्र-तत्रोपनिषदादिषु सर्वत्रोपलभ्यमानत्वेन प्रामाणिक प्रमारूप ञ्चेति बोध्यम् ।

उपनिषत्सु तु सैद्धान्तिकरूपेणाऽयमेवाऽद्वैतवादसिद्धान्तः सुस्पष्टतयाऽभि व्यक्तिमापन्नो मिलति । तात्त्विकदृष्ट्या विचार्यमाणे यथा स्वाप्निकसृष्टेश्चर्म चक्षुषः समुन्मीलनानन्तरमविलम्बेनैव ( अव्यवहितोत्तरक्षणावच्छेदेनैव ) बाधो जायते ।

तथैव ततः किञ्चिदधिककालस्थायिन्या व्यावहारिकसृष्टेर्ज्ञानचक्षुःस्वरूपया ज्ञानदृष्ट्या बाधः । यथोक्तम् -

'कृत्वा ज्ञानमयी दृष्टि पश्येद् ब्रह्ममयं जगत्' ।[१३]

अपि च -

'भेददृष्टिमविद्येयं तां सदा परिवर्जयेत्' ।[१४]

अन्यच्चापि-

"अद्वैतसिद्धान्तमेव हि सत्यं शिवं सुन्दरं सिद्धान्तमस्ति' । [१५]

'शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा'। - तत्रैव ।

'इत्याद्युपनिषदोऽपि तदेवाऽद्वैतं ब्रह्म प्रमाणयन्ति ।

श्रीव्यासकथितस्य श्रीशङ्कराचार्यद्वारा वृद्धि प्रापितस्य चाऽद्वैतवेदान्तस्य सम्यक्त्वेन तज्ज्ञानशीलानाञ्च विदुषां वेदान्तशास्त्रमर्मज्ञानामप्यस्त्ययमेव सिद्धान्तः ।

यथा-अधिष्ठानाऽज्ञानवशात् रज्जौ सर्पत्वप्रकारकः 'अयं सर्पः' इति भ्रमो जायते । रज्जुस्वरूपाऽधिष्ठानसाक्षात्काराच्च स भ्रमो निवर्तते ।

तथैव कर्मणा समुन्नति गतमज्ञानमधिष्ठानस्वरूपब्रह्मात्मज्ञानेन ( ब्रह्म साक्षात्कारेण = आत्मसाक्षात्कारेण ) नश्यति तदनन्तरञ्चाऽऽत्मा याथार्थ्येन ज्ञायते । यथा-भगवद्भास्करोदयेऽन्धकारमात्रं सर्वथा नश्यति, एवमेव ब्रह्मात्म स्वरूपज्ञानोदये (प्रकाशोदये ) जायमाने वाऽज्ञानं समूलं नाशं गच्छति । अज्ञाननाशे सति सर्वं जगद् ब्रह्ममयं सदेवाऽनुभवगोचरीभूतं भवति । यथोक्तम्-

'यथा रज्जु परित्यज्य सर्प गृह्णाति वै भ्रमात् ।

तद्वत्सत्यमविज्ञाय जगत् पश्यति मूढधीः ।

रज्जुखण्डे परिज्ञाते सर्परूपं न तिष्ठति ।

अधिष्ठाने तथा ज्ञाते प्रपञ्चे शून्यतां गते' ।[१६]

ननु तथापि पुनरज्ञानकार्याणि सर्वाण्येव शरीरेन्द्रियप्रभृतीनि सन्तिष्ठ मानान्येव समनुभूयन्ते । अत्र दृष्टान्तत्रयं समुपस्थाप्यन्ते, सर्वतः प्राक् कुमारी औषधिरेको दृष्टान्तः–यथा कुमारी स्वकारणभूतमूलकारणनाशानन्तरमपि तिष्ठत्येव, यथा वा धूमोऽपि स्वकारणीभूताग्निनाशानन्तरमपि तिष्ठत्येव, एव मिषुनिष्ठोऽपि वेगाख्यः संस्कारः स्वकारणीभूताऽऽकर्षणसंयुक्तज्या इषुसंयोग नाशानन्तरमपि इषुनिष्ठो वेगाख्यः संस्कारः खलु सन्तिष्ठमान एवाऽनुभूयते ।

तथैव दाष्टान्तिकेऽपि शरीरेन्द्रियप्रभृतिकारणीभूताऽज्ञाननाशेऽपि शरीरे न्द्रियादीनि पुनरपि सन्तिष्ठमानानि समनुभूयन्ते । तेषां शरीरेन्द्रियादीनां विनाशः कदा भवतीति चेत् ? शरीरेन्द्रियविनाशार्थं नास्ति कश्चन नियमः । अस्ति चेत् नियमस्हि अयमेवाऽस्ति नियमः-यद् यदा प्रारब्धं कर्म नश्यति, तदैव शरीरेन्द्रियादीनां विनाशोऽपि जायते, नान्यः पन्था विद्यते तेषां विनाशस्य ।

अज्ञानस्वरूपम्

सम्पादयतु

'अज्ञानन्तु सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं ज्ञानविरोधि भावरूपं यत्किञ्चिदिति' । [१७]

प्रश्नः - स्वस्वरूपाऽज्ञानमेव वस्तुतश्चास्त्यज्ञानमिति । तत्रापि नहि केऽपि स्वस्वरूपं जानन्ति, इति चेत् न जानन्तु ते ? परन्तु ये स्वस्वरूपं विदाङकुर्वन्ति विदाङ्कर्तुं वा पारयन्ति ते स्वस्वरूपं कीदृशं जानन्तीत्युच्यताम् ।

उत्तरम् - अहं ब्राह्मणः, अहं क्षत्रियः, अहं वैश्यः, अहं शूद्रत्वजात्य. वच्छिन्नः, एवम् अहं पुरुषः, अहं स्त्रीत्वजात्यवच्छिन्नः, इत्यादिरूपेणैव स्वस्व रूपं जानन्ति नान्यथा । परन्तु एवंविधं ज्ञानमप्यज्ञानमेव । एवं स्थिते नहि केऽपि स्वस्वरूपं विदाङकुर्वन्तीति स्वस्वरूपाऽज्ञानमेव चास्त्यज्ञानम् ।

ननु मानवः स्वीयं रूपं मानवत्वेन मनुष्यत्वेन वा जानाति न तु पशुत्वेन जानाति 'अहं पशु'रिति । एवं स्त्री स्त्रीत्वेन जानाति कथं पुनरुच्यते नहि केपिं जानन्ति इति ?

तन्न साम्प्रतम्-मनुष्यत्वेन, ब्राह्मणत्वादिरूपेण वा स्वरूपज्ञानस्वीकारो मनुष्यः सर्वदा सर्वथा च त्रिषु कालेषु मनुष्य एव यदि भवेत्तदा प्रागुक्तरूपेणा ऽभिधातुं शक्यते, परन्तु नैवमस्ति-इत्यतः स्वस्वरूपाऽज्ञानमेवाङ्गीकार्यमित्येव समीचीनः पन्था।

अत्राशङ्कते यत् शास्त्रज्ञा विद्वांस आत्मस्वरूपमीदृशमिति प्रौढविचारकास्ते कथन्न जानन्तीत्युच्यतामिति चेत्, तन्न युक्तम्-शास्त्रज्ञोऽपि चार्वाकः स्थूल शरीरमनात्मरूपमेव आत्मेति विदाङ्कुर्वन् सन्नपि स चार्वाक आत्मनस्स्वरूपं नैव जानातीति वक्तव्यम् । एवमन्येषां प्राणस्याऽऽत्मत्वेन समुपासकानाम्, इन्द्रियो पासकानाम्, तथा मनस्समुपासकानां शास्त्रज्ञानां विदुषाम्-स्वस्वरूपात्मक स्याऽऽत्मनो ज्ञानं नास्त्येव । यतस्ते चार्वाकाः प्राणत्वादिनाऽनात्मरूपेणाऽऽत्मानं जानन्ति, न तु वास्तविकेनाऽऽत्मत्वेनाऽऽत्मानं जानन्ति ।

एवमन्ये बौद्धा माध्यमिकप्रभृतयः शून्यतत्त्वमेव आत्मेति वदन्तः शास्त्रज्ञा अपि ते नैवाऽऽत्मनस्स्वरूपं विदाङकुर्वन्ति । यत अहमर्थस्याऽऽत्मन आत्मत्वेन भानात्तस्य कथमनिर्वचनीयत्वं स्यात् ।

विस्तारः

सम्पादयतु

दृश् धातुना भावार्थे करणार्थे वा ल्युट्(अन)-प्रत्ययेन दर्शनशब्दः व्युत्पद्यते । भावार्थे अस्य अर्थः अवलोकनक्रिया भवति, करणार्थे अवलोकनक्रियायाः साधनम् । उभयार्थे अस्य शब्दस्य सार्थकत्वं वर्तते । शास्त्रशब्दस्य अपि शंसनक्रियायाः (छेदनम्, अनुशासनम्, अतिरिक्तव्यावर्तनम्) साधकम् इति व्युत्पन्नः अर्थः । अनयोः शब्दयोः दर्शनमेव शास्त्रमिति अर्थे कर्मधारयः समासः भवति । दर्शनस्य विचारणीयतत्त्व-प्राधान्य-भेदात् सम्प्रदायभेदः भवति । प्रत्येकं दर्शनस्य अध्ययनं त्रिभिः दृष्टिभिः कर्तुं शक्यते -

  • तत्त्वमीमांसा - तत्त्वानां, जगतः, सृष्टेः च उत्पत्तिः स्थितिः व्यवहारः लयश्च विमृश्यते ।
  • ज्ञानमीमांसा - ज्ञानस्य स्वरूपं, साधनं, प्रामाण्यं प्रक्रिया च अस्यां विमृश्यते ।
  • आचारमीमांसा - ईश्वरमतं, सुखदुःखे, मोक्षस्य स्वरूपं साधनं च, नीतिशिक्षा (क्वचित्) च अनया दृष्ट्या विमृश्यते ।

भारतीयेषु दर्शनेषु अधोलिखितानां दर्शनानां प्राधान्यम् अस्ति । अन्येऽपि अनेकानि दर्शनानि सन्ति ।

चार्वाक, बौद्ध, जैन, न्याय, सांख्य, योग, वैशेषिक, पूर्व-मीमांसा, उत्तर-मीमांसा/वेदान्त, व्याकरणदर्शनम्

  1. विशुद्धिमग्ग १४।३२
  2. म -न्या०सि० मु० विला० टीका ।
  3. चार्वाकषष्टिः ।
  4. श्रुतमात्रम् ।
  5. सर्व० द० सं० आर्हतद० ।
  6. सांख्यका० १६ ।
  7. न्यायभाष्यम् ।
  8. -श्रुतमात्रम् ।
  9. वात्स्याय० भा० सू० १ ।
  10. ईशोपनि० २ ।
  11. गीता, ४।२१ ।
  12. अथर्ववेदः, ३।२४।५ ।
  13. तेजोविन्दूप० १।२९ ।
  14. महोपनि० ५।११३ ।
  15. -माण्डूक्योपनि० ७ ।
  16. नादविन्दूपनि० ४०।२६-२७ । -
  17. वेदान्तसारः
"https://sa.wikipedia.org/w/index.php?title=तत्त्वज्ञानम्&oldid=458080" इत्यस्माद् प्रतिप्राप्तम्