सदस्यः:Mohit Dokania/राधा
राधा राधिका अपि उच्यते। देवी श्रीकृष्णस्य मुख्यसङ्गिनी मन्यते। शास्त्रेषु राधादेवी लक्ष्म्याः अवतारिका [१] [२] तथा च श्रीकृष्णस्य स्त्रीरूपा च ह्लादिनीशक्तिः च मूलप्रकृतिः च परादेवी चैता उल्लिखिता अस्ति । [३] [४] [५] [६] [७] राधादेवी कृष्णस्य सर्वावतारेषु तेन सह अवतरति। [८] [९] राधाष्टम्यवसरे प्रतिवर्षं श्रीराधायाः जन्मदिनम् आचर्यते . [१०] [११]
कृष्णेन सह देव्या राधायाः रूपद्वयं प्राप्यते। प्रेमिका च धर्मपत्नी चापि। निम्बार्कसम्प्रदायादिपरम्परायां देवी राधा कृष्णस्य शाश्वतपत्नीरूपेण पूज्यते। [१२] [१३] [१४] [१५] तदपेक्षया गौडीयवैष्णवादिपरम्पराः तां कृष्णस्य प्रेमिकाया दिव्यसङ्गिन्या रूपेण पूजयन्ति। [१४]
राधावल्लभसम्प्रदाये हरिदासीसंप्रदाये च केवला देवी राधैव परमात्मत्वेन पूज्यते। अन्यत्र चैतन्यमहाप्रभुसम्बद्धिते गौडीयवैष्णवसम्प्रदाये च निम्बार्कसम्प्रदाये च पुष्टिमार्गे च महानामसम्प्रदाये च सहजीयावैष्णवापसम्प्रदाये च मणिपुरीवैष्णवसम्प्रदाये च कृष्णेन सह तस्य प्रधानसङ्गिनीरूपेण सा पूज्यते।
राधा व्रजेश्वरी कथ्यते इत्युक्ते गोपीषु प्रधाना। [१४] नैकाः साहित्यकृतयः तया प्रेरिताः। कृष्णेन सह तस्याः रासलीलानृत्येन अनेकविधप्रदर्शनकलाः प्रेरिताः। [१६]
व्युत्पत्तिश्च नामानि
सम्पादयतुराध्नोति साधयति कार्य्याणीति राधा। राद्धातुना अच्टाप्प्रत्यययोः संयोगः।[१७] भारतस्य प्राचीनमध्ययुगीनग्रन्थेषु विविधप्रसङ्गेषु दृश्यमानः सामान्यशब्दश्च नाम राधा । अयं शब्दः वैदिकसाहित्येषु अपि च महाकाव्येषु दृश्यत, परन्तु दुर्लभो वर्तते। [१८] महाभारते कर्णस्य मातुः नाम अपि राधा। [१९] रााधिका राधायाः अपरशब्दो वर्तते [१९]
संस्कृतशास्त्रस्य नारदपञ्चरात्रस्य पञ्चमे अध्याये श्रीराधासहस्रनामस्त्रोते राधायाः सहस्राधिकानि नामानि उल्लेखितानि सन्ति। [२०] [२१] [२२]
श्रीराधा राधिका कृष्णवल्लभा कृष्णसम्युता ।वृन्दावनेश्वरी कृष्णप्रिया मदनमोहिनी ॥ ११॥श्रीमती कृष्णकान्ता च कृष्णानन्दप्रदायिनी ।यशस्विनी यशोगम्या यशोदानन्दवल्लभा ॥ १२॥[२३] श्रीराधा राधिका कृष्णवल्लभा कृष्णसम्युता । वृन्दावनेश्वरी कृष्णप्रिया मदनमोहिनी ॥ ११॥
श्रीमती कृष्णकान्ता च कृष्णानन्दप्रदायिनी । यशस्विनी यशोगम्या यशोदानन्दवल्लभा ॥ १२॥
वृन्दावनेश्वरी कृष्णप्रिया मदनमोहिनी ॥ ११॥ श्रीमती कृष्णकान्ता च कृष्णानन्दप्रदायिनी । यशस्विनी यशोगम्या यशोदानन्दवल्लभा ॥ १२॥
- माधवी - माधवस्य स्त्रीलिङ्गप्रतिरूपम्
- केशवी - केशवस्य प्रियः
- अपराजिता - या अजेता
- किशोरी - यौवन
- नित्या - सा नित्या
- नित्य-गेहिनी - कृष्णस्य सनातनपत्नी
- गोपी - गोपाल कन्या
- श्यामा - श्याम सुन्दर के प्रिय
- गौरङ्गी - श्री राधा यस्य वर्णः तेजस्वी पालिशितसुवर्णस्य इव उज्ज्वलः अस्ति
- रसेश्वरी च रस-प्रिया - रासलीला राज्ञी च या रसनृत्यप्रिया
- वृन्दावनेश्वरी - वृन्दावन राज्ञी
साहित्यम्
सम्पादयतुहिन्दुधर्मस्य वैष्णवसम्प्रदीयेषु राधा महत्त्वपूर्णा देवी अस्ति। तस्याः लक्षणानि च अभिव्यक्तिः च वर्णनं च भूमिकाः च देशानुसारं भिद्यन्ते। राधा कृष्णाद् अभेद्या वर्तते। प्रारम्भिकभारतसाहित्येषु तस्या उल्लेखा दुर्लभाः सन्ति । तस्याः पूजकाः व्याख्यायन्ते यत् सा शास्त्रेषु निगूढा गुह्यनिधिः अस्ति । षोडशशताब्द्यां भक्तिकाले कृष्णं प्रति तस्याः अलौकिकप्रेम्णः प्रकाशनात् सा अतिप्रसिद्धा अभवत् । [२४] [२५]
जयदेवस्य दैवभाषायां द्वादशशताब्द्याः गीतागोविन्दे राधायाः प्रथमः प्रमुखः उपस्थितिः दृश्यते [२६] [२७] [२८] [२९] तथा च निम्बार्काचार्यस्य दार्शनिकग्रन्थेषु । [३०]
गीतगोविन्दात् पूर्वं राधायाः उल्लेखः राजाहलविरचिते प्राकृतभाषाग्रन्थे गाथासप्तशतीनामधेये अपि अभवत् । [३१] प्रथमे वा द्वितीये वा शतके अयं ग्रन्थः लिखितः । [१८] [३२] [३३]
देवी राधा पुराणेषु अपि दृश्यते। यथा पद्मपुराणे लक्ष्म्याः अवताररूपेण देवीभागवतपुराणे महादेवीरूपत्वेन ब्रह्मवैवर्तपुराणे राधाकृष्णपरमेश्वत्वेन मत्स्यपुराणे देवीस्वरूपेण लिङ्गपुराणे लक्ष्मीस्वरूपत्वेन वराहपुराणेकृष्णपत्नीरूपत्वेन नारदपुराणे प्रेम्णो देवीरूपेण तथा च स्कन्दपुराणे शिवपुराणे च [१८] [३४] [३५] पञ्चदशषोडशशताब्द्याः कृष्णभक्तिकवयो विद्यापतिश्च चण्डीदासश्च मीराबायी च सूरदासः च स्वामी हरिदासः च तथैव तेषां सर्वेषां पूर्वं नरसिंहमेहता कृष्णराधायोः प्रेम्णो विषये अपि लिखितवन्तः। एवं चण्डीदासः बङ्गभाषीये श्रीकृष्णकीर्तने राधाकृष्णौ दिव्यौ परन्तु मानवप्रेम्णा लिलेख। [३६][३७] यद्यपि भागवतपुराणे तन्नाम न अङ्कितं तथापि विश्वनाथचक्रवर्ती तस्मिन् अनामिकां प्रियगोपीं राधा व्याख्यायते। [३८] [३९] साभट्टनारायणस्य वेणीसंहारे च आनन्दवर्धनस्यध्वन्यालोके तथा च अभिनवगुप्तस्य तद्भाष्ये ध्वन्यालोकलोचने च राजशेखरस्य काव्यमीमांसायां च क्षेमेन्द्रस्य दशावताचरिते च हेमचन्द्रस्य सिद्धहेमशब्दानुशासने उपस्थिता। [४०] एतेषु अधिकांशेषु राधा कृष्णस्य सुनिष्ठप्रेमिकारूपेण चित्रिता अस्ति या कृष्णस्य त्यागाद् अतीव दुःखिता भवति । [४१] [३४] किन्तु तद्विपरीतं राधातन्त्रे राधा शूरा आत्मविश्वासयुक्ता सर्वज्ञा दिव्या च दृश्यते या सर्वदा आत्मसंयमिता। राधातन्त्रे राधा न केवला कृष्णपत्नी अपितु स्वतन्त्रा देवी । अत्र कृष्णः तस्याः शिष्यः चित्रितः । [४०]
यद्यपि गौडीयवैष्णवसम्प्रदायस्य संस्थापकः चैतन्यमहाप्रभुः राधाकृष्णदेवतादम्पत्योः पूजां कृतवान् न वा इति न ज्ञायते तथापि वृन्दावनप्रदेशं परितः तस्य शिष्याः राधां कृष्णस्य ह्लादिनीशक्तिं प्रतिपादितवान् आदिदेवीमातरं मत्वा। पश्चिमभारते वल्लभाचार्यस्य कृष्णसम्प्रदाये पुष्टिमार्गे राधां कृष्णस्य स्वामिनीं मत्वा इति पूज्यते । [४२] [४३]
जयचेम्बुर्करस्य मते राधायाः तत्सम्बद्धिते साहित्ये न्यूनातिन्यूनं द्वे महत्त्वपूर्णे भिन्ने पक्षे स्तः यथा श्रीराधिकानामसहस्रे। एकस्मिन् पक्षे सा गोपी अस्ति अन्यत्र देवता इति । [४४] सा भारतीयकलासु कृष्णेन सह अर्धनारीरूपेण अपि दृश्यते। तत् महाराष्ट्रादिषु आविष्कृतासु शिलासु चशिवब्रह्मवैवर्तपुराणादिग्रन्थेषु च दृश्यते | एतेषु ग्रन्थेषु अयंअर्धनारीश्वरः कदाचित् अर्धराधावेणुधरमूर्तिः उच्यते। राधाकृष्णयोः पूर्णसंयोगस्य अभेद्यत्वस्य च द्योतकः। [४५]
१९८० तमे दशके कालिकाप्रसादशुक्लस्य श्रीराधाचरितमहाकाव्याक्षं यत् राधायाः सार्वभौमप्रेमिरूपेण कृष्णभक्तिं प्रति केन्द्रितं विंशतितमशतके संस्कृतभाषायां दुर्लभेषु उच्चगुणवत्तायुक्तेसु ग्रन्थेषु अन्यतमम्।[३७]
राधासीतयोः सम्बन्धः
सम्पादयतुराधा च सीता च सनातनधर्मस्य द्वौ पक्षौ दर्शयतः। यदि सीता पारम्परिकपतिव्रता विधिवद्विवाहिता स्वपतिं पुण्यवन्तं गम्भीरं रामं समर्पिता तर्हि राधा लीलाधरस्य वंशीवादकस्य महाशक्तिः यस्याः नाम बहुवारं श्रीकृष्णस्य उपरि मन्यते। पौवेल्स वदति यदि सीता राज्ञी अस्ति या स्वस्याः मर्यादां जानाति तर्हि राधा केवले स्वप्रमिणि कृष्णे संलग्ना। द्वे अपि जीवनदुःखानि सोढ्वा स्वप्रेम्णं प्रति समर्पिते। उभये ख्यापिते पूजिते देव्यौ अस्माकं संस्कृतेः।
प्रतिमालेखनम्
सम्पादयतुसा प्रायः कृष्णेन सह तथा गोपीभिः सह व्रजभूमौ चित्रिता। राधाकृष्णाधारितविविधकलारूपाः मुख्यतया गीतागोविन्देन रसिकप्रियया च प्रेरिताः सन्ति | [४६] [४७] राजपूतचित्रेषु राधा सौन्दर्यस्य आदर्शस्य प्रतिनिधित्वं करोति। सा शाटिकां धारयति तथा आभूषणैः अलङ्कृता अस्ति। [४८] [४९] किशनगढचित्रेषु राधाघाघराचोलीवस्त्रेसुन्दरवेषधारिणीरूपेण मौक्तिकभूषणानि च शिरसि कृष्णवर्णीयम् आच्छादिकां धारयन् दृश्यते । कलाकारनिहालचन्दस्य प्रसिद्धं बनीठणीचित्रं राधायाः कायया प्रेरितं यस्मिन् तीक्ष्णभ्रूः कमलनयने च सन्ति [५०]
कलाप्रदर्शनेषु राधा कृष्णेन सह अर्धनारीरूपेण अपि दृश्यते। [४५]
राधाकृष्णमन्दिरेषु राधा हस्ते मालम् आदाय कृष्णस्य वामे तिष्ठति। प्रायः पारम्परिकशाटिकाम् अथवा घाघराचोलीवस्त्रं धरति । तस्याः आभूषणानि धातुना मौक्तिकेन पुष्पेण वा निर्मितानि भवन्ति । [५१]
संस्कृतशास्त्रेब्रह्मवैवर्तपुराणे राधा सुवर्णवर्णा रत्नपुष्पमालधारिणी सुन्दरयुवती वर्णिता । [५२]
जीवनाख्यानम्
सम्पादयतुनररूपे राधा वृन्दावनस्य गोपीं या कृष्णप्रिया जाता मत्वा पूज्यते। राधाया मूलविशिष्टत्वं कृष्णं प्रति तस्याः अचलप्रेम विद्यते। तस्याः दुःखानि प्रेम्णो दौर्गम्यं दर्शयति [२४]
जन्म तथा बालकालः
सम्पादयतुराधा बरसानायाः यदुराजेन वृषभानुना तस्य भार्यायां कीर्तिदायां सञ्जाता। [५३] [५४] [५५] तस्या जन्मस्थानं रावलः अस्ति यद् उत्तरप्रदेशस्य गोकुलस्य समीपे एकं लघुनगरं परन्तु प्रायः बरसाना कथ्यते यत्र सा अभिवर्धिता । [५६] लोककथानुसारं यमुनानद्यां प्लवमानस्य तेजयुक्तपद्मस्य उपरि वृषभानुना राधा प्राप्ता। राधा कृष्णाद् नवमासेभ्यो ज्येष्ठा आसीत्। [५७] सा तावत् नेत्राणि न उद्घाटितवती यावत् कृष्णः एव बालरूपेण तस्याः पुरतः प्रादुर्भूतः। [५८] [५९] [६०]
अष्टसखयो राधायाः बाल्यकालस्य यौवनस्य च अभिन्नाः भागाः सन्ति। अष्टसखयः सर्वे राधाकृष्णयोः मित्राणि व्रजदेशे गोलोकाद् अवतीर्णानि इति विश्वासः अस्ति । अष्टसु सखिषु ललिता विशाखा च प्रमुखे। [६१] चैतन्यचरितामृतस्य अन्त्यलीलानुसारं राधा बाल्यकाले दुर्वासामुनेः वरं प्राप्तवती यत् सा यत् किमपि पचेत् तत् अमृतादपि श्रेष्ठं भविष्यति इति [६२]
यौवनम्
सम्पादयतुराधाया यौवनं कृष्णेन सह दिव्यलीलाभिः परिपूर्णम् अस्ति। [६३] राधाकृष्णस्य केचन लोकप्रिया लीलाः एताः सन्ति। रासलीला च राधाकुण्डलीला च गोपाष्टमीलीला च[६४] लकुटिप्रहारहोलिका च सेवाकुञ्जलीला च यस्यां श्रीकृष्णो राधादेव्याः शृङ्गारं करोति तथा [६५] मानलीला यस्यां भक्ते तावत् प्रेमो वर्धितः यस्मात् सह क्रोधकरणस्य अधिकारमपि प्राप्नोति तथा[६६] मयूरकुटीरलीला यस्यां कृष्णः राधां तोषयितुं मयूरवेषं धृत्वा नृत्यति स्म तथा [६७] गोपदेवीलीला यस्यां कृष्णः राधां मिलितुं स्त्रीरूपं धरतिस्म तथा लीलाहवं च यस्मिन् राधाकृष्णौ परस्परं वस्त्राणि धरतः स्म। [६८]
कृष्णेन सह सम्बन्धः
सम्पादयतुराधाकृष्णयोः द्विविधौ सम्बन्धौ स्तः। परकीयं प्रेम यस्मिन् लोकमर्यादा न भवति तथा स्वकीयं प्रेम यस्मिन् विवाहसम्बन्धः। [lower-alpha १] राधा कृष्णं पृष्टवती किमर्थं विवाहं कर्तुं न शक्नोषीति। उत्तरं प्राप्तं विवाहः तु द्वयोः आत्मनोः संयोगः अस्ति। त्वमहं च एको हि स्वः। आत्मना सह कथमहम् उद्वहामि। [६९]
संस्कृतग्रन्थयोः ब्रह्मवैवर्तपुराणे च गर्गसंहितायां च उक्तं यत् कृष्णः वृन्दावनात् निर्गन्तुं पूर्वंभाण्डीरवने ब्रह्मणः सान्निध्ये राधया सह गुप्तरूपेण उद्वाहितः। यत्र राधाकृष्णयोः विवाहः अभवत् तत् स्थानं वृन्दावनस्य बहिः अद्यापि वर्तते। तत् राधाकृष्णविवाहस्थली कथ्यते। [७०] ब्रह्मवैवर्तपुराणे उल्लिखिता कथा सूचयति यत् राधा सर्वदा कृष्णस्य दिव्यपत्नी आसीत् परन्तु स्वकीयायाः अपेक्षया परकीयसम्बन्धं महत्त्वं दातुं राधाकृष्णयोः विवाहः गुप्तः एव स्थापितः। [७१] [१६] [७२] [६९]
वृन्दावनात् कृष्णगमनात् परं जीवनम्
सम्पादयतुगर्गसंहितायाः ब्रह्मवैवर्तपुराणस्य च अनुसारं राधा अपि कृष्णस्य प्रस्थानानन्तरं स्वगृहं त्यक्त्वा बरसानायां स्वस्य छायां स्थापय इति कदलीवनं गता। अष्टसखिभिः सह राधा अस्मिन् वने उद्धवं मिलितवती यः तेभ्यः कृष्णसन्देशं प्रोक्तवान्। [७३] [७४]
कृष्णेन सह पुनर्मेलनम्
सम्पादयतुब्रह्मवैवर्तपुराणे कृष्णजन्मखण्डे पञ्चविंशत्यधिकैकशततमाध्याये [७५] च गर्गसंहितायाम्अश्वमेधखण्डे एकचत्वारिंशदध्याये [७६] च उक्तं यत् शतवर्षाणां विरहस्य शापस्य समाप्तेः अनन्तरं [lower-alpha २] कृष्णः पुनः व्रजम् आगत्य राधां गोप्यश्च च मिमेल। किञ्चित्कालं यावत् दिव्यलीलां विधाय कृष्णः विशालं दिव्यरथम् आहूतवान् यद् व्रजवासिनः राधागोपीभिः सह पुनः स्वस्य दिव्यनिवासं गोलोकं प्रति नीतवान् यत्र राधाकृष्णयोः अन्तिमं पुनर्मेलनम् अभवत् [७७] [७८]
परमदेवीरूपेण
सम्पादयतुब्रह्मवैवर्तपुराणे राधा कृष्णाद् अविच्छिन्ना मुख्यदेवीरूपेण दृश्यते । सा मूलप्रकृतेः मूर्तरूपत्वेन उल्लिखिता यम्माद् आदिबीजाद् भूतानि उत्पन्नानि । पुरुषस्य कृष्णस्य सङ्गमे सा गोलोके निवसति इति कथ्यते यद् विष्णोः वैकुण्ठाद् दूरम् उपरि गोगोपालानां लोकः अस्ति। अस्मिन् दिव्यलोके कृष्णराधौ शरीरात्मानौ इव तिष्ठतः। [७९] [८०]
कृष्णसम्प्रदायानुसारं राधा मुख्या देवता अस्ति।कृष्णस्य मायया प्रकृत्या च सह सम्बद्धा अस्ति। परमलोकस्य गोलोकस्य राधा कृष्णेन सह संयुज्यते तस्यैव शरीरे च तिष्ठति इति कथ्यते। राधाकृष्णयोः सम्बन्धः क्षीरधावल्यौ भूगन्धौ इव च इव अभेद्यः अस्ति। राधायाः तादात्म्यस्य एष स्तरः प्रकृतित्वेन तस्याः भौतिकस्वभावम् अतिक्रम्य चिद्रूपे तिष्ठतीति श्रीबृहन्नारदीयपुराणोत्तरभागे वसुमोहिनीसंवादे पुरुषोत्तममाहात्म्ये। अस्मिन् रूपे राधा कृष्णस्य समाना विद्यते परन्तु तस्मात् वियोगे अयं तादात्म्यविलयः समाप्तः इव भाति । विरहानन्तरं सा देवी मूलप्रकृतीश्वरीरूपे प्रकटिता या जगत्कर्त्री सर्वेशी सर्वसूतिका कथ्यते इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे राधाकृष्णसहस्रनामकथने चतुर्दशाधिकद्विशततमे श्लोके। [८१] [८२]
षोडशशताब्द्याः भक्तकविः राधावल्लभसम्प्रदायस्य संस्थापकस्य श्रीहितहरिवंशचन्द्रमहाप्रभोः हितचौरासीनामग्रन्थे राधारानी एकपरमदेवतायाः स्थितिं प्रति उन्नता यत्र कान्तः कृष्णः तस्याः अत्यन्तम् आत्मीयः अस्ति। अस्य मतस्य पूर्वं जयदेवस्य गीतागोविन्दे कृष्णः राधां प्रति समर्पितः यथा तेन देहि पदपल्लवमुदारम् इत्युक्तः। [७१]
राधा कृष्णप्रेम्णो मूर्तरूपा मन्यते। चैतन्यमहाप्रभुना आरोपितसिद्धान्तानुसारं कथ्यते यत् कृष्णस्य तिस्रः शक्तयः सन्ति अन्तर्गता बुद्धिः च बाह्या रूपजनयित्री तथा च अद्वितीया या जीवभूतानि जन्यति। तस्य मुख्यशक्तिः चिदानन्दं अनुभावयति। एषा प्रीतशक्तिः इति भासते। यदा एतत् प्रेम भक्तस्य हृदये शाम्यति तदा महाभावो सम्भवति । यदा प्रेम्णः सर्वोपरि प्रतिष्ठति तदा सर्वतः प्रियतमा सर्वगुणसम्पन्ना राधा अन्तः सम्भवति । सा कृष्णस्य परमप्रेम द्योतयति। हृद्गताः काश्चन भावनाः तस्याः अलङ्काराः सूच्यन्ते। [८३]
नारदपञ्चरात्रसंहितायां राधा कृष्णस्य स्त्रीस्वरूपा उल्लिखिता अस्ति। वर्ण्यते यद् एकः परमप्रभुः द्वौ भूत्वा प्रतिपादितः एकः स्त्री अपरश्च पुरुषः। कृष्णः पुरुषरूपं धरति स्म स्त्रीरूपं तु राधा तथा। राधा कृष्णस्य आदिशरीराद् निर्गत्य तस्य वामभागं भूत्वा इहलोके अपि च गोलोके च तेन सह प्रेमलीलाम् आचरति। [८४] [८५]
राधा प्रायः देवीलक्ष्म्याः मृदुपक्षं द्योतयति तथा च लक्ष्म्याः अवतारत्वेन अपि पूज्यते।। देवकृतलक्ष्मीस्त्रोते देवी लक्ष्मीः राधास्वरूपा समाख्याय प्रशंसिता [८६]
कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयम्।
रासे रासेश्वरी त्वं च वृंदावन वने वने॥
गर्गसंहितानुसारं रासलीलायां गोपीनां अनुरोधात् राधाकृष्णौ तान् अष्टभुजस्वरूपं प्रदर्श्य स्वलक्ष्मीनारायणरूपे प्रकटितौ। [८७]
तथाऽस्तु चोक्त्वा भगवान् गोपीव्यूहस्य पश्यतः। दधाराष्टभुजं रूपं श्रीराधारूपमेव च॥
चित्रणम्
सम्पादयतुपराकीयरासः
सम्पादयतुराधा कान्तादर्शरूपे प्रशंसिता अस्ति। गीतगोविन्दे राधा विवाहिता वा कुमारी कन्या वा इति न निश्चितम्। परन्तु राधाकृष्णयोः सम्बन्धः पराकीयरासं संसूच्य वृन्दावनवने गुढत्वेन दर्शितः आसीत्। एतत् तस्मात् श्लोकाद् अवगन्तुं शक्यते यस्मिन् मर्यादां द्योतयन् कृष्णस्य पिता नन्दः राधाकृष्णै गृहं गन्तुं आदिशति यतः झञ्झावातो वृन्दावनसमीपम् आयाति स्म किन्तु ताभ्याम् आदेशः अवहेलितः।
मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै-र्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय। इत्थं नन्दनिदेशितश्चलितयोः प्रत्यध्वकुञ्जद्रुमं राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥—जयदेवः, गीतगोविन्दे प्रथमसर्गे प्रथमश्लोके
गीतगोविन्दे राधा श्रीकृष्णस्य सङ्गिनी प्रतिष्ठति। सा न भार्या न वा भक्ता वा ग्राम्यक्रीडासहचरी। सा एकप्रगाढप्रेमिका या श्रीः चण्डी मानिनी भामिनी कामिनी च इति सम्बोधिता। सा प्रौढे अनन्यप्रेम्णि कृष्णस्य सहभागिनीरूपेण चित्रिता अस्ति। [१८]
विद्यापतेः ग्रन्थे राधा द्वादशवार्षिका बालिका चित्रिता अस्ति। कृष्णः तु तस्याः अपेक्षया किञ्चित् ज्येष्ठः आक्रामकः प्रेमी च इति चित्रितः अस्ति । कविचण्डीदासस्य कृतौ राधा लोकापवादाद् निर्भीता साहसिनी चित्रिता अस्ति । राधा कृष्णप्रेम्णि सर्वं लोकौचित्यम् अवमन्यते।
Casting away all the ethics of caste, my heart dotes on Krishna day and night. The custom of the clan is far away cry, and now I know that love adheres wholly to its own laws.
I have blackened my golden skin longing for him. As the fire encircled me, my life begins to wilt. And my heart brooding eternally, parched for my dark darling, My Krishna.—Chandidas
कृष्णप्रेम्णि राधा लोकापवादान्न बिभेति। चण्डीदासेन चित्रिता राधा गौडीयवैष्णवानुकूला अस्ति | [८९]
स्वकीयरासः
सम्पादयतुरसिकप्रियायां व्रजग्रन्थिकायां राधा कृष्णस्य धर्मपत्नी चित्रिता अस्ति । राधाकृष्णयोः प्रेमविषये बहुचित्रितो ग्रन्थो वर्तते। रीतिकाव्यपरम्परायाः प्रमुखेन लेखकेन केशवदासेन लिखितः अस्ति। [[वर्गः:हिन्दुदेव्यः]]
- ↑ From Gods To Gamers: The Manifestation of the Avatar Throughout Religious History and Postmodern Culture. 2015. p. 8.
- ↑ Finding Radha: The Quest for Love. 2018-12-10.
- ↑ Divinizing in South Asian Traditions.
- ↑ DOCTORAL DISSERTATION ABSTRACTS IN RELIGIOUS EDUCATION 1978–79. pp. 474–494.
- ↑ Krishna: A Sourcebook. 2007. p. 551.
- ↑ Sriradha: A Study. 2001. pp. 184–192.
- ↑ Vaisnavism, Saivism and minor religious systems. 2019-05-20. pp. 38–41.
- ↑ Narada Pancaratra Part 2. 2015-06-18. p. 448.
- ↑ The Narada Pancharatra. 1926. pp. 492–495.
- ↑ Vemsani 2016.
- ↑ Mask and Creative Symbolisation in Contemporary Oriya Literature : Krishna, Radha and Ahalya. 2003. pp. 181–189.
- ↑ The Narada Pancharatra. 1926. pp. 492–495.
- ↑ Krishna-cult in Indian Art. 1996. p. 13.
- ↑ १४.० १४.१ १४.२ Lochtefeld 2002.
- ↑ Jones & Ryan 2007.
- ↑ १६.० १६.१ Pintchman 2005.
- ↑ "कल्पद्रुमकोशे राधार्थः".
- ↑ १८.० १८.१ १८.२ १८.३ Rādhā: Consort of Kṛṣṇa's Vernal Passion. 1975. pp. 655–671. उद्धरणे दोषः :
<ref>
अमान्य टैग है; ":112" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है - ↑ १९.० १९.१ Monier Monier-Williams, Rādhā, Sanskrit-English Dictionary with Etymology, Oxford University Press, page 876
- ↑ "Sri Radha-sahasra-nama, The Thousand Names of Sri Radha". www.stephen-knapp.com. आह्रियत 2021-05-28.
- ↑ "Śrī Rādhā Sahasra-nāma". www.vrindavan.de. आह्रियत 2021-05-28.
- ↑ Narada Pancaratra Part 2. 2015-06-18. pp. 447–503.
- ↑ "श्रीराधिकासहस्रनामस्तोत्रम्".
- ↑ २४.० २४.१ Pauwels 1996.
- ↑ Vaudeville, Charlotte in Hawley & Wulff 1982, पृष्ठम् 2
- ↑ Love Song of the Dark Lord: Jayadeva's Gītagovinda 1977.
- ↑ Archer 2004.
- ↑ Miller, Barbara Stoler in Hawley & Wulff 1982, पृष्ठम् 13
- ↑ Datta 1988.
- ↑ Ramnarace 2014.
- ↑ Radha-Madhava Sub-Sect in Eastern India. 1979. pp. 177–184.
- ↑ What is Indian Literature?. 1982. pp. 5–15.
- ↑ Finding Radha: The Quest for Love. 2018-12-10.
- ↑ ३४.० ३४.१ Hindu Goddesses: Visions of the Divine Feminine in the Hindu Religious Tradition. 1988-07-19.
- ↑ Hinduism and its basic texts. New York. 2017-07-14. pp. 157–170.
- ↑ Stewart 1986.
- ↑ ३७.० ३७.१ Dalal 2010.
- ↑ "Online Vedabase - The topmost source of spiritual knowledge". vedabase.io (in English). आह्रियत 2021-06-20.
- ↑ das, Bhadra Balaram (2016-09-09). "The Biggest Mystery of Srimad Bhagavatam - Srimati Radha". Mayapur Voice (in en-US). आह्रियत 2021-04-25.
- ↑ ४०.० ४०.१ Rādhātantram: Rādhā as Guru in the Service of the Great Goddess. 2019-12-01. pp. 259–282.
- ↑ Miller, Barbara Stoler in Hawley & Wulff 1982
- ↑ Vaudeville, Charlotte in Hawley & Wulff 1982, पृष्ठम् 11–2
- ↑ Vemsani 2016: "According to Vallabha tradition, she (Radha) is the swamini of Krishna, who is worthy of devotion."
- ↑ Chemburkar 1976.
- ↑ ४५.० ४५.१ Pradhan 2008.
- ↑ Temples of Bengal. india. 2012-12-25. pp. 34–35.
- ↑ Coomaraswamy, Ananda K. (1930). Two Leaves from a Seventeenth-Century Manuscript of the Rasikapriyā. pp. 14–21.
- ↑ Lavanya, B. (2019). Women in Pahari Miniature Painting.
- ↑ Coomaraswamy, A. K. (1926). Rājput Paintings. pp. 23–26.
- ↑ Ghosh, Soma (2022). The Art of Shringara: Revisiting the Kishangarh School of Rajasthani Painting.
- ↑ Clothing as devotion in Contemporary Hinduism. 2018. pp. 1–82.
- ↑ Brahma Vaivarta Purana - English Translation - All Four Kandas. 2003-01-01.
- ↑ The True History and the Religion of India: A Concise Encyclopedia of Authentic Hinduism. pp. 666–.
- ↑ The Book of Krishna. July 2009. pp. 46–.
- ↑ Shreemad Bhagavad Gita: The Song of Love. 12 January 2017. pp. 1472–.
- ↑ Krishna: The Living God of Braj. 1992. p. 66.
- ↑ Krishna: The Living God of Braj. 1992. pp. 35–36.
- ↑ Krishna Leeela in Brajamandal a Retrospect. pp. 192–.
- ↑ The Vedanta Kesari.
- ↑ Temples of Vrindaban.
- ↑ "Radhe.net | General Description of All The Gopis". radhe.net. आह्रियत 2021-05-30.
- ↑ "gp-durvasas". www.salagram.net. आह्रियत 2021-05-30.
- ↑ The Constructive Ambiguity of Vedic Culture in ISKCON Mayapur. 2018-07-23. pp. 234–259.
- ↑ "Gopastami – ISKCON VRINDAVAN" (in en-US). आह्रियत 2021-05-30.
- ↑ "Sewa Kunj or Nikunja Vana - Divine Pastimes". Braj Ras - Bliss of Braj Vrindavan. आह्रियत 2021-05-30.
- ↑ "Maan Garh/Mandir, Barsana - (Divine Pastimes)". Braj Ras - Bliss of Braj Vrindavan. आह्रियत 2021-05-30.
- ↑ "Morkuti, Barsana". Braj Ras - Bliss of Braj Vrindavan. आह्रियत 2021-05-30.
- ↑ "(Radha and Krishna Dressed in Each Other's Clothes - Lilahava". www.harekrsna.de. आह्रियत 2021-05-30.
- ↑ ६९.० ६९.१ Pauwels 2008.
- ↑ Krishna: The Living God of Braj. 1992.
- ↑ ७१.० ७१.१ Beck 2005.
- ↑ Varma 1993.
- ↑ "गर्ग संहिता पृ. 347". hi.krishnakosh.org (in Hindi). आह्रियत 2021-05-30.
- ↑ "ब्रह्म वैवर्त पुराण पृ. 898". hi.krishnakosh.org (in Hindi). आह्रियत 2021-05-30.
- ↑ "ब्रह्म वैवर्त पुराण पृ. 970". hi.krishnakosh.org (in Hindi). आह्रियत 2021-05-30.
- ↑ "गर्ग संहिता पृ. 773". hi.krishnakosh.org (in Hindi). आह्रियत 2021-05-30.
- ↑ "गर्ग संहिता पृ. 827". hi.krishnakosh.org (in Hindi). आह्रियत 2021-05-30.
- ↑ "ब्रह्म वैवर्त पुराण पृ. 976". hi.krishnakosh.org (in Hindi). आह्रियत 2021-05-30.
- ↑ Divinizing in South Asian Traditions. 2018-06-14.
- ↑ Religion in India. 1976. pp. 366–a–366.
- ↑ [[[:फलकम्:Google books]] Seeking Mahadevi: Constructing the Identities of the Hindu Great Goddess]. 2001-06-14.
- ↑ Rise of the Goddess in the Hindu Tradition, The. 2015-04-08. p. 159.
- ↑ XXIII. Caitanya. 1913-12-31. pp. 82–86.
- ↑ Vaisnavism, Saivism and minor religious systems. 2019-05-20.
- ↑ Vaisnavism, Saivism and minor religious systems. 2019-05-20. pp. 38–41.
- ↑ Goddesses in World Culture. United States of America. pp. 1–7.
- ↑ "Garga Samhita 1685". en.krishnakosh.org. आह्रियत 2021-05-31.
- ↑ "Garga Samhita 1688". en.krishnakosh.org (in English). आह्रियत 2021-05-31.
- ↑ Steward, David S. "DOCTORAL DISSERTATION ABSTRACTS IN RELIGIOUS EDUCATION 1978–79". Religious Education 75 (4): 474–494. ISSN 0034-4087. doi:10.1080/0034408800750410.
उद्धरणे दोषः : <ref>
"lower-alpha" नामकस्य गणस्य अङ्कनं विद्यते, कीन्तु किमपि अनुरूपं <references group="lower-alpha"/>
अङ्कनं न प्राप्तम्