अरियलूर् जनपदम् (Ariyalur district) (तमिऴ् - அரியலூர் மாவட்டம்) भारतस्य तमिऴ्‌नाडुराज्यस्य मण्डलेषु अरियलूरुजनपदम् अन्यतमम् । अस्य केन्द्रस्थानम् अरियलूर् पत्तनम् ।

अरियलूर् जनपदम्
—  जनपदम्  —
निर्देशाङ्काः
देशः भारतम्
राज्यम् तमिऴ्‌नाडु
मण्डलम् अरियलूर्
उपमण्डलम् अरियलूर् उपमण्डलं, सेन्दुरै उपजनपदम्, उदयारपाल्यम् उपजनपदम्
केन्द्रप्रदेशः अरियलूर्
समीपतमं नगरम् तिरुचिरापल्लि
जनसङ्ख्या

• सान्द्रता

७,५२,४८१[१] (2011)

386 /किमी2 (1,000 /वर्ग मील)

व्यावहारिकभाषा(ः) तमिऴ्, आङ्ग्लभाषा
समयवलयः IST (UTC+05:30)
विस्तीर्णम् 1,949.31 वर्ग किलोमीटर (752.63 वर्ग मील)
World Heritage Site गङ्गैकोंडचोलपुरम्
जालस्थानम् www.ariyalur.tn.nic.in

इतिहासःसंपादित करें

द्राविड मुण्णेट्र कऴगस्य(Dravida Munnetra Kazhagam,DMK) प्रशासनकाले २००१ तमवर्षस्य जनवरी प्रथमदिनाङ्के पेरम्बलूरुमण्डलतः भागान् स्वीकृत्य अरियलूरुमण्डलस्य निर्माणम् अभवत् । तदनन्तरम् अखिलभारत अण्णा द्राविड मुण्णेट्र कऴगस्य प्रशासने आर्थिकताकारणैः मार्च् ३१, २००२ दिने पुनः इदं मण्डलं पेरम्बलूरुमण्डलेन सह संलीनम् । २००७ तमवर्षस्य नवम्बर् २३ दिनाङ्के अरियलूरुमण्डलस्य पुनर्जन्मः अभवत् । अरियलूरुपत्तने ऐटिऐ क्रीडाङ्गणे ग्रामाभिवृद्धिस्थलीयप्रशासनसचिवेन एम्.के.स्टालिनेन तमिऴ्‌नाडुराज्यस्य एकत्रिंशम् अरियलूरुजनपदम् उद्घाटितम् ।

भौगोलिकम्संपादित करें

अरियलूरुमण्डलस्य विस्तारः १,९४९.३१ चतुरस्रकिलोमीटर् । अस्य मण्डलस्य उत्तर, ईशान्यदिशयोः कडलूरुजनपदम्, पूर्वदिशि नागपट्टिनमण्डलं, दक्षिण, आग्नेयदिशयोः तञ्जावूरुमण्डलं, नैर्ऋत्यभागे तिरुचिरापळ्ळिमण्डलं, पश्मिमे पेरम्बलूरुमण्डलं च अस्ति । मण्डले आहत्य १६ आरक्षकालयाः सन्ति ।

जनसंख्यासंपादित करें

२०११ जनगणनानुगुणम् अस्य मण्डलस्य जनसंख्या ७,५२,४८१ आसीत् । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अरियलूरुमण्डलस्य ४९१ तमं स्थानम् । अस्य जनसान्द्रता प्रतिचतुरस्रकिलोमीटर् ३८७ (१००० प्रतिचतुरस्रमैल्) । २००१-२०११ दशके जनसंख्यावृद्धिः ८.१९% आसीत् । अरियलूरे पुं, स्त्री अनुपातः १०००:१०१६ अस्ति । साक्षरताप्रमाणम् ७१.९९% ।

वाणिज्यम्संपादित करें

अरियलूरु मण्डले कर्करस्य(Lime Stone) बृहत् सञ्चयाः सन्ति । अतः अत्र अनेके अश्मचूर्णनिर्माणागाराः सन्ति । अरसु सिमेण्ट्स्, बिर्ला सिमेण्ट्स्, शक्ति सिमेण्ट्स्, दाल्मिया सिमेण्ट्स्, तमिऴ्‌नाडु सिमेण्ट्स् इत्यादीनां मूलस्थानम् एतदेव । अतः अरियलूरुमण्डले यातायातसम्मर्दः अत्यधिकः । अस्मिन् मण्डले लिग्नैट् विधस्य अङ्गारस्य खनयः अपि अधिकतया सन्ति ।

वीक्षणीयस्थलानिसंपादित करें

गङ्गैकोण्डचोळपुरम्संपादित करें

प्रथमस्य राजराजचोळस्य पुत्रः राजेन्द्रचोळः उत्तरदेशे गङ्गानदीपर्यन्तं कृतस्य दिग्विजयस्य स्मरणार्थम् इदं पत्तनं निर्मितवान् । मूलतः तस्य राज्ञः नाम मधुरान्तकः इति आसीत् । पट्टाभिषेकसमये सः राजेन्द्रः इति विज्ञातः अभवत् । गङ्गैकोण्डचोळपुरस्य निर्माणानन्तरं सः गङ्गैकोण्डचोळः इत्येव ख्यातः । गङ्गैकोण्डचोळपुरदेवालये सः त्रिषु स्तरेषु गोपुरं निर्मितवान् । एतद्देवालयं परितः दुर्गसदृशी भित्तिः अपि तेन निर्मिता । ब्रिटिष् प्रशासनसमये कोल्लिडजलबन्धस्य निर्माणार्थं ग्रानैट्शिलाः प्राप्तुम् अस्य देवालयस्य बाह्यभित्तिः बहुधा नाशिता । राजेन्द्रचोळेन चोळगङ्गनामकं बृहत् सरः अपि निर्मितम् । अस्य विस्तीर्णं २२ किलोमीटर् । पानजलार्थं कृषिकार्यार्थं च अस्य जलम् उपयुज्यते ।

श्रीकलियुगवरदराजपेरुमाळ्देवालयःसंपादित करें

अयं देवालयः अरियलूरुपत्तनतः ५ किलोमीटर् दूरे अस्ति । अस्मिन् देवालये प्रचाल्यमानः रथोत्सवः (प्रतिवर्षं मार्च्/एप्रिल् मासे) वहु प्रसिद्धः । महता वैभवेन अयम् उत्सवः अरियलूरुजनैः आचर्यते । प्रतिवर्षं पुरट्टासिमासस्य (कन्यामासस्य) शनिवासरेषु अत्र विशेषपूजाः, आरधना, अभिषेकाः च भवन्ति । इदमपि अस्य देवालयस्य आकर्षणम् । वरदराजदेवः भक्तान् समृद्ध्या श्रिया आरोग्येण आयुषा च अनुगृह्णाति इति जनाः विश्वसन्ति ।

वेत्तकुडि कारैवेट्टि पक्षिधामसंपादित करें

इदं पक्षिधाम अरियलूरुमण्डले तिरुचिरापळ्ळितः ६५ किलोमीटर् दूरे तञ्जावूरुतः ३५ किलोमीटर् उत्तरे अस्ति । अस्य विस्तारः प्रायः ४५४ हेक्टेर् । नवम्बर्‌ मासतः फ़ेब्रवरीमासस्य अवधौ अत्र बहवः जलपक्षिणः आगच्छन्ति । प्रायः ५० प्रभेदानां स्थलीयाः वैदेशिकाः च पक्षिणः अत्र दृष्टाः सन्ति ।

पेरुमाळ् कोविल्संपादित करें

अयम् अरियलूरुपत्तने स्थितः मुख्यः देवालयः । अत्र ‘दशावतारमण्डपः’ विद्यते, यत्र विष्णोः दशानाम् अवताराणां शिल्पाः शोभन्ते । विशिष्य नरसिंहावतारस्य शिल्पः मनोज्ञः अस्ति । श्रीसीतारामलक्ष्मणानां पञ्चलोहविग्रहाः अत्यन्तं कमनीयाः सन्ति । एते पञ्चलोहविग्रहाः विश्वे एव बृहत्तमाः इति श्रूयन्ते ।

शिवन् कोविल्संपादित करें

अरियलूरुपत्तने विद्यमानः शिवस्य देवालयः अपि जनप्रियः । अत्र प्रवर्तमानायां प्रदोषपूजायाम् अनेके भक्ताः नियतरूपेण भागं वहन्ति ।

बाह्यसम्पर्कतन्तुःसंपादित करें

  1. "2011 Census of India" (Excel). Indian government. 16 April 2011. 
"https://sa.wikipedia.org/w/index.php?title=अरियलूर्_मण्डलम्&oldid=468153" इत्यस्माद् प्रतिप्राप्तम्