करूरुमण्डलम्
करूरुमण्डलम् (Karur district) (तमिऴ्: கரூர் மாவட்டம) करूरुमण्डलं भारतस्य तमिऴ्नाडुराज्यस्य मध्यभागे कावेरी, अमरावतीनद्योः तीरे विद्यमानं मण्डलम् । अस्य मण्डलस्य केन्द्रं करूरुपत्तनम् ।
करूरुमण्डलम् கரூர் மாவட்டம் | |||||||
— मण्डलम् — | |||||||
निर्देशाङ्काः
१०°५७′२८.८″ उत्तरदिक् ७८°४′४८″ पूर्वदिक् / 10.958000°उत्तरदिक् 78.08000°पूर्वदिक् | |||||||
देशः | भारतम् | ||||||
राज्यम् | तमिऴ्नाडु | ||||||
उपमण्डलम् | अरवकुरिच्चिः, करूरु, कडवूरु, कृष्णरायपुरम्, कुळितलै | ||||||
केन्द्रप्रदेशः | करूरुनगरम् | ||||||
बृहत्तमं नगरम् | करूरुनगरम् | ||||||
बृहत्तमं महानगरम् | करूरुनगरम् | ||||||
Collector | वि। शोभना,IAS | ||||||
सांसदक्षेत्रम् | 1 - Karur | ||||||
विधानसभा | 4 | ||||||
नगरसभा (Municipal Corporations) | करूर् | ||||||
Municipality | कुळितलै | ||||||
ग्रामपन्चायत् | |||||||
जनसङ्ख्या • सान्द्रता |
१०,७६,५८८ (2011[update]) • 371 /किमी2 (961 /वर्ग मील) | ||||||
लिङ्गानुपातः | 1015 ♂/♀ | ||||||
साक्षरता | 81.74% | ||||||
व्यावहारिकभाषा(ः) | तमिऴ् | ||||||
---|---|---|---|---|---|---|---|
समयवलयः | IST (UTC+05:30) | ||||||
Central location: | १०°५७′ उत्तरदिक् ७८°४′ पूर्वदिक् / 10.950°उत्तरदिक् 78.067°पूर्वदिक् | ||||||
सङ्केताः
| |||||||
जालस्थानम् | Official website of Karur District |
इतिहासः
सम्पादयतुकरूरुपत्तनं तमिऴ्नाडुराज्यस्य प्राचीनतमपत्तनेषु अन्यतमम् । तमिऴ्जनानाम् इतिहासे संस्कृतौ च अस्य पात्रं महद् अस्ति । अस्य पत्तनस्य ३००० वर्षेभ्यः अपि अधिकाः इतिहासः अस्ति । प्राचीनसङ्गमकाले अपि अत्र वाणिज्यं प्रवृद्धम् आसीत् इति ज्ञायते । करूरु प्राचीनतमिऴ्प्रदेशेषु कोङ्गुनाडुनः भागः आसीत् । अत्र चेराणां, गङ्गानां, चोळानां च प्रशासनम् आसीत् । करूरुपत्तनं चेरराजानां राजधानी आसीत् । तिरुज्ञानसम्बन्धेन प्रशस्तः पशुपतीश्वरदेवालयः करूरौ चोळराजैः क्रिस्तीये सप्तमशतके निर्मितः । तदनन्तरकाले करूरुं नायकाः,टिप्पूसुल्तानः च शासितवन्तः । ब्रिटिशाः टिप्पूसुल्तानं १७८३ तमे वर्षे पराजित्य करूरुदुर्गं नाशयित्वा इदं पत्तनं स्वायत्तीकृतवन्तः । आङ्ग्लोमैसूरुसमरेषु प्राणार्पणं कृतवतां योधानां स्मरणार्थं करूरुसमीपे रायनूरौ स्मारकम् अस्ति । ब्रिटिश् प्रशासने करूरुः आदौ कोयम्पुत्तूरुमण्डलं, ततः तिरुचिरापळ्ळिमण्डलस्य भागः आसीत् ।
भौगोलिकम्
सम्पादयतुकरूरु तमिऴ्नाडुराज्ये मध्यभागे विद्यमानेषु मण्डलेषु अन्यतमम् । अस्य मण्डलस्य उत्तरसीमायां नामक्कल् मण्डलम्, दक्षिणे दिण्डुक्कल् मण्डलम्, पूर्वस्मिन् तिरुचिरापळ्ळिमण्डलम्, पश्चिमभागे ईरोडुमण्डलं च अस्ति । राज्यस्य राजधान्याः चेन्नैतः इदं प्रायः ३७१ किलोमीटर् दूरे अस्ति । मे, जून् मासयोः अत्यधिकः उष्णांशः (३४० सी) अनुभूयते । वर्षे कानिचन दिनानि ३८० सीतः अधिकः उष्णांशः अपि अनुभूयते । जनवरी मासे शैत्यकाले उष्णांशः प्रायेण २३० सी भवति । १७० सीतः न्यूनः उष्णांशः अतिविरलः एव । वार्षिकवृष्टिः ७७५ मिल्लीमीटर् भवति । प्रायेण सेप्टम्बर् अन्त्यतः नवेम्बर् मध्यपर्यन्तं वृष्टिकालः भवति ।
जनसंख्या
सम्पादयतु२०११ तमे वर्षे जनगणनानुगुणं करूरुमण्डलस्य जनसंख्या १,०७६,५८८ अस्ति । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ४२२ तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ३७१ (९६० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्यावृद्धिप्रमाणं १५.०६ आसीत् । करूरुमण्डले पुं, स्त्री अनुपातः १०००:१०१५ अस्ति । साक्षरताप्रमाणं ७५.८६% ।
उपमण्डलानि
सम्पादयतुकरूरुमण्डले पञ्च उपमण्डलानि सन्ति ।
- करूरु
- अरवकुरिच्चिः
- कडवूरु
- कृष्णरायपुरम्
- कुळितलै
कृषिः वाणिज्यं च
सम्पादयतुकरूरुमण्डले प्रमुखतः कृष्णमृत्तिका दृश्यते । अत्रत्यानि प्रमुखाणि सस्यानि तण्डुलः, कदली, इक्षुखण्डः, नागवल्ली, धानाः, कलायः, तैलबीजानि, शाकाः, मालिकापुष्पाणि, औषधीयसस्यानि च । करूरुमण्डलस्य गृहवस्त्रोत्पादनं ख्यातम् अस्ति । पर्यङ्कवस्त्राणि, पाकगृहवस्त्राणि, शौचालयवस्त्राणि, उत्पीठिकावस्त्राणि, भित्त्यलङ्कारवस्त्राणि इति पञ्चप्रभेदानां वस्त्राणि अत्र प्रमुखतया उत्पाद्यन्ते । साक्षात् तथैव परम्परागतविदेशविक्रयणेन करूरुमण्डलस्य वार्षिकः वैदेशिकविनिमयः ६००० कोटिभ्यः अधिकः । एतत्सम्बद्धेषु सीवनयन्त्रागारेषु, वर्णागारेषु, तन्तुवायेषु च करूरुपरिसरे ४५०००० जनाः उद्योगरताः सन्ति ।
करूरुमण्डलं प्रति केरलतः हस्तसीवनोद्यमः आगतः । अद्य उत्तमगुणवत्तया अत्रत्यानि उत्पादनानि अन्ताराष्ट्रियस्तरे अमूल्यानि सन्ति । तमिऴ्नाडुसर्वकारेण विश्ववित्तकोशस्य साहाय्येन तमिऴ्नाडु न्यूस्प्रिण्ट् अण्ड् पेपर्स् संस्था करूरुमण्डले कागदपुरे संस्थापितं भवति। इयं संस्था अद्य बगासे-आधारितकागदोत्पादने विश्वे एव प्रथमस्थाने अस्ति । एशियाखण्डे कागदोत्पादकेषु अस्याः द्वितीयं स्थानम् । प्रतिवर्षं टि. एन्. पि. एल् संस्थया एकदशलक्षटन् बगासेकागदम् उपयुज्य २३०००० टन् परिमितं मुद्रणलेखनकागदम् उत्पाद्यते ।
करूरुमण्डलं लोकायानशरीरनिर्माणोद्यमार्थम् अपि प्रसिद्धम् अस्ति । दक्षिणभारतस्य वैयक्तिक लोकयानशरीरेषु ९०% करूरुमण्डले एव निर्मीयन्ते इति उल्लेखार्हम् । अस्मिन् उद्यमे प्रतिवर्षं प्रायः २७५० कोटिरूप्यकाणां व्यवहारः भवति । करूरुपत्तने ४५ तः अधिकाः लोकयानशरीरनिर्माणं भवति । प्रतिवर्षं ३५०० तः अधिकानि लोकायानानि अत्र निर्मीयन्ते । कर्णाटक, तमिऴ्नाडु सर्वकारीय लोकयानानि अपि अत्रैव निर्मीयन्ते । चेट्टिनाडु सिमेण्ट् संस्थायाः, करूरु वैश्य ब्याङ्क्, लक्ष्मीविलास ब्याङ्क् इत्येतयोः वैयक्तिकवित्तकोशयोः मूलस्थानं करूरुमण्डलम् । करूरुप्रदेशे नीलराग-इन्द्रनील-चन्द्रकान्तप्रभृतीनि अमूल्यरत्नानि अपि लभ्यन्ते ।
वीक्षणीयस्थलानि
सम्पादयतु- श्रीमरकतीश्वरदेवालयः (१२०० वर्षेभ्यः प्राक् निर्मितः), मूलपाळैयम्, मुनूरुग्रामः ।
- श्रीकल्याणपशुपतीश्वरदेवालयः (तिरु आनिलै), करूरु ।
- श्रीअभयप्रदरङ्गनाथदेवालयः, करूरु ।
- श्रीकरुवूरुमारियम्मदेवालयः, करूरु ।
- तन्तोण्ड्रिमलै श्रीकल्याणवेङ्कटरमणस्वामिदेवालयः ।
- वेण्णैमलै श्रीबालसुब्रह्मण्यस्वामिदेवालयः ।
- पुगऴिमलै श्रीबालसुब्रह्मण्यस्वामिदेवालयः (आरु नाटर् मलै), पुगळूरु (२००० वर्षप्राचनम्) ।
- बालमलै श्रीबालदण्डायुधपाणिदेवालयः ।
- वेञ्चमङ्गुदलूरु विगिर्तीश्वरदेवालयः ।
- नोय्यल् श्रीसेलान्दियम्मन् देवालयः ।
- अत्तूरु शोलियम्मन् देवालयः ।
- वङ्गाल श्रीवङ्गालम्मन् देवालयः ।
- नेरूरु श्रीसदाशिवब्रह्मेन्द्रस्वामी देवालयः ।
- मधुक्करै सेल्लन्दियम्मन् देवालयः ।
- मन्मङ्गलं श्रीकालियम्मन् देवालयः ।
- कृष्णरायपुरं तिरुक्कण्मल्लेश्वरदेवालयः ।
- कडवूरु वसन्तपेरुमाळ् देवालयः ।
- कुळित्तलै नीलमेघपेरुमाळ् देवालयः ।
- अय्यर्मलै रत्नगिरीश्वरदेवालयः ।
- शिवायं शिवपुरीश्वरदेवालयः ।
- लालपेट अय्यप्पदेवालयः (तमिऴ्नाडुराज्ये प्रथमः अय्यप्पदेवालयः) ।
- ललपेट श्रीजयआञ्जनेयदेवालयः (३०० वर्षप्राक्तनम्) ।
- तमलै मुरुगदेवालयः ।
- रङ्गमलै मल्लीश्वरदेवालयः ।
- पुलियूरु व्याघ्रपुरीश्वरदेवालयः (त्रयोदशशतकस्य) ।
- पुलियूरु राजकालियम्मन् देवालयः ।
प्रवासस्थलानि
सम्पादयतु- मायनूरु – कावेरीतीरनियन्त्रकः, नदीतटस्थम् उद्यानम् ।
- चेट्टिपाळैयम् – अमरावतीतीरनियन्त्रकः, उद्यानम् ।
- तिरुमुक्कूडल् – कावेरी-अमरावतीनद्योः सङ्गमः ।
- नोय्यल् – कावेरी-नोय्यल्नद्योः सङ्गमः ।
- नेरूरु – श्रीमठः, ध्यानमण्डपः, नदीतीरस्थम् उद्यानम् ।
- कडवूरु – पोन्नियार् जलबन्धः, उद्यानम् ।