दिण्डुगलमण्डलम्

दिण्डुक्कल् मण्डलं (Dindigul district) (तमिऴ् - திண்டுக்கல் மாவட்டம்) भारतस्य तमिऴ्नाडु राज्यस्य मण्डलेषु अन्यतमम् । इदं मण्डलं स्वस्य तालनिर्माणीभिः चर्मकार्यागारैः च प्रसिद्धम् अस्ति । अस्य मण्डलस्य केन्द्रस्थानं दिण्डूक्कल् पत्तनम् । तमिऴ भाषायां ‘दिण्डु’ इति पदस्य ‘उपाधानम्’ इति, ‘कल्’ इत्यस्य ‘शिला’ इति अर्थः । दिण्डुक्कल् पत्तनस्य प्रवेशसमये तत्र विद्यमानस्य दुर्गस्य शिला उपाधानसदृशी दृश्यते इत्यतः तस्य प्रदेशस्य इदं नाम । आङ्ग्लप्रभावेण ‘दिण्डिगल्’ इति, ‘दिण्डुगल्’ इति च अस्य नाम्नः अपभ्रंशः जातः ।

दिन्डुगलमण्डलम्

திண்டுக்கல் மாவட்டம்

—  मण्डलम्  —
दिण्डुक्कलदुर्गः


Location of दिन्डुगलमण्डलम्
in तमिऴ्‌नाडु
निर्देशाङ्काः

१०°२१′१४.४″ उत्तरदिक् ७७°५९′६″ पूर्वदिक् / 10.354000°उत्तरदिक् 77.98500°पूर्वदिक् / १०.३५४०००; ७७.९८५००

देशः भारतम्
राज्यम् तमिऴ्‌नाडु
[[तमिऴ्‌नाडु राज्यस्य विभागाः|विभागः]] Madurai
उपमण्डलम् Attur, Dindigul, Kodaikanal, Natham, Nilakottai, Oddanchatram, Palani, Vedasandur.
केन्द्रप्रदेशः दिन्डुगल्
बृहत्तमं नगरम् दिन्डुगल्
बृहत्तमं महानगरम् दिन्डुगल्
Collector K Nagarajan, IAS
Municipal Corporations Dindigul
Municipalities
Town Panchayats
व्यावहारिकभाषा(ः) Tamil
समयवलयः IST (UTC+05:30)
Central location: १०°२१′ उत्तरदिक् ७७°५९′ पूर्वदिक् / 10.350°उत्तरदिक् 77.983°पूर्वदिक् / १०.३५०; ७७.९८३
जालस्थानम् Official website of Dindigul District

भौगोलिकम्Edit

दिण्डुक्कलमण्डलं १९८५ तमे वर्षे मधुरैमण्डलतः पृथक्कृतम् । अस्य उत्तरदिशि ईरोडु तथा करूरुमण्डले स्तः । पूर्वस्यां दिशि तिरुचिराप्पळ्ळिमण्डलम् अस्ति । आग्नेये दक्षिणे च मधुरैमण्डलम्, पश्चिमे केरलराज्यं च अस्ति ।

दिण्डुक्कलमण्डलस्य पऴनि तथा कोडैकेनाल् तालुके प्रसिद्धे स्तः । तमिऴ्नाडुराज्यस्य इतरेभ्यः प्रदेशेभ्यः अनयोः तालुकयोः वायुगुणः शीतलः इत्यतः प्रवासिनः अधिकतया अत्र आगच्छन्ति । दिण्डुक्कलमण्डले बहवः जलपाताः सन्ति । अञ्जुवीडु, बामेन् जलपातः, बेर् शोला जलपातः, फ़ैरी जलपातः, गौर् वेळ्ळैयन् जलपातः, ग्लेन् जलपातः, कुम्बक्करै जलपातः, कुदिरैयर् जलपातः, कुट्लडम्पट्टि जलपातः, नेप्चून् जलपातः, पालार् जलपातः, पाम्बार् जलपातः, पूम्बरै जलपातः, राजतजलधारा (सिल्वर् कास्केड्), स्कम्बा जलपातः, सर्पधारा (स्नेक् फ़ाल्स्), तक्कम् तूटम् जलपातः, तलैयर् जलपातः (राट् टैल्), तूवनम् जलपातः इत्येते तेषु प्रमुखाः ।

अस्मिन् मण्डले अनेके जलबन्धाः अपि सन्ति । धर्मतुपट्टि जलबन्धः, कामराजर् जलबन्धः, मञ्जलर् जलबन्धः, मरुदानदी जलबन्धः, कण्णाप्पट्टि जलबन्धः, परपालार् जलबन्धः, पालार् पोरण्डलार् जलबन्धः, वरडमनदी जलबन्धः, अऴगपुरी जलबन्धः, पेरनै जलबन्धः, कुदिरैयर् जलबन्धः च ।

जनसंख्याEdit

२०११ जनगणनानुगुणं दिण्डुक्कलमण्डलस्य जनसंख्या २,१६१,३६७ । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य २११ तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ३५७ (९२० प्रतिचतुरश्रमैल्) । २००१-२०११ दशके जनसंख्यावृद्धिः १२.३९% आसीत् । अस्य मण्डलस्य पुं, स्त्री अनुपातः १०००:९९८ अस्ति । साक्षरताप्रमाणं ७६.८५% ।

उपमण्डलानिEdit

  • दिण्डुक्कलमण्डले अष्ट तालुकाः सन्ति
  • दिण्डुक्कल्
  • पऴनि
  • अतूरु
  • कोडैक्कानल्
  • ओड्डञ्छत्रम्
  • वेडसन्दूरु
  • नट्टम्
  • नीलक्कोट्टै

कृषिः वाणिज्यं चEdit

२००६ तमे वर्षे पञ्चायती राज् सचिवालयेन भारतदेशस्य २५० अतिदीनमण्डलानि अभिज्ञातानि । तेषु दिण्डुक्कलमण्डलम् अपि अन्तर्भूतम् । सम्प्रति, दीनप्रदेशसाहाय्यधनयोजनया (Backward Regions Grant Fund – BRGF) धनं प्राप्नुवत्सु मण्डलेषु दिण्डुक्कलम् अन्यतमम् । अस्मिन् मण्डले सङ्गणकतन्त्रज्ञानोद्यमः सम्यक् वर्धितः अस्ति । अत्रत्यः वस्त्रसीवनोद्यमः तमिऴ्नाडुराज्ये एव बृहत्तमः । अनेकानि वेश्मेष्टिकोत्पादनकेन्द्राणि अत्र सन्ति । दिण्डुक्कलतालाः रक्षाकपाटिकाः च गुणवत्त्वेन बहु प्रसिद्धाः । तण्डुलकलायवर्मिसेलीसम्बद्धाः आहारोद्यमाः अपि अत्र रूढाः सन्ति ।

दिण्डुक्कलप्रदेशस्य ७०% जनाः साक्षात् परम्परया वा कृषेः आधारेण एव जीवन्ति । दिण्डुक्कलपत्तनस्य परिसरे प्रायः १६५ तण्डुलसंस्करणकेन्द्राणि सन्ति । अत्रत्यं नागा धानापेषणकेन्द्रं विशालाक्षी धानापेषणकेन्द्रं च अत्यन्तं प्रसिद्धम् । अनिल् सेमिया, सेवरिट् सेमिया, नन्दिनी साम्बुरणि उद्यमाः अस्मिन् मण्डले सन्ति । अत्र कार्पासानां पलाण्डूनां कलायानां च महाविक्रयविपणयः बहुशः सन्ति ।

पन्नीर् द्राक्षाः इति ख्याताः कृष्णद्राक्षाः दिण्डुक्कलमण्डले एव रोहन्ति । वस्त्रसीवनोद्यमः अत्र प्रमुखः । तमिऴ्नाडुराज्यस्य भूतपूर्वः मुख्यमन्त्री एम्.जि.रामचन्द्रः अस्य मण्डलस्य औद्यमिकाभिवृद्धिं साधयितुम् अत्र बहूनां सीवनागाराणां प्रारम्भार्थं धनसाह्यं दत्तवान् । दिण्डुक्कलमण्डलस्य हस्तस्यूताः शाटिकाः विख्याताः । विशिष्य नगलनगरप्रदेशे शतशः सौराष्ट्रसमुदायस्य जनाः हस्तस्यूतानां शाटिकानां निर्माणे रताः सन्ति । गुणवत्तायाम् अत्युत्तमानाम् आसां शाटिकानां मूल्यं बहुन्यूनम् । कौशेयशाटिकावत् बहूनि वर्षाणि उपयोक्तुं शक्यन्ते च ।

चर्मसंस्करणघटकाः अपि दिण्डुक्कलमण्डले अधिकतया दृश्यन्ते । अत्रत्यानां संस्कृतानां सामिसंस्कृतानां च चर्मोत्पन्नानां विदेशविक्रयणं क्रियते । तमाखु (टोबाको) कृषिः, सिगार् उत्पादनं च ब्रिटिश्कालादपि दिण्डुक्कलप्रदेशे प्रचलति । विन्स्टन् चर्चिलस्य प्रियः चुरुट् इत्याख्यः सिगार्‌प्रभेदः दिण्डुक्कले एव निर्मितः । वेडसन्दूरे केन्द्रसर्वकारस्य तमाखुसंशोधनकेन्द्रम् अस्ति । दिण्डुक्कले निर्मितः सुवासितः रोजा पूगः तमिऴ्नाडुराज्ये प्रसिद्धः ।

वीक्षणीयस्थलानिEdit

कोडैक्कानल्Edit

इदं दिण्डुक्कलमण्डले पर्वतश्रेण्याः मध्ये विद्यमानं पत्तनम् । तमिऴ्भाषायाम् अस्य पदस्य ’अरण्यस्य उपाहारः’ इत्यर्थः । ‘गिरिधाम्नां राजकुमारी’ इति कोडैक्कानल्पत्तनस्य ख्यातिः अस्ति । इदं पत्तनं १८४५ तमे वर्षे निर्मितम् । अद्यापि बहुजनप्रियेषु गिरिधामसु अन्यतमम् अस्ति ।

पऴनिःEdit

इदं पत्तनं दिण्डुक्कलपत्तनात् ६० किलोमीटर् पश्मिमे अस्ति । कार्तिकेयस्य सुप्रसिद्धं मन्दिरम् अस्ति अत्र, यत्र प्रतिवर्षं सप्तदशलक्षाधिकाः भक्ताः आगच्छन्ति । इदं दण्डायुधपाणिमन्दिरं तमिऴ्नाडुराज्ये सुप्रसिद्धेषु ‘आरुपडै वीडु’ क्षेत्रेषु (देवसेनापतेः कार्त्तिकेयस्य षट् सेनाशिबिराणि) अन्यतमम् । अयं देवालयः शिवगिरेः उपरि अस्ति । देवालयस्य शिल्पकला पाण्ड्यशैल्याः । गर्भगृहस्य उपरि रमणीयं स्वर्णगोपुरम् अस्ति । पार्वतीदेव्याः पेरियनायकि अम्मन् देवालयः अपि पऴनिक्षेत्रे अस्ति ।

सिरुमलैEdit

अयं दिण्डुक्कलात् २५ किलोमीटर् दूरे विद्यमानः ६०००० एकर् विस्तीर्णः अरण्यप्रदेशः । अत्र बहवः गिरयः अपि सन्ति । आवर्षम् अत्र शीतलः वायुगुणः भवति । इदम् अरण्यं बहूनां वन्यानां प्राणिनां पक्षिणां च आश्रयः अस्ति । अत्रत्यं कदलीफलम् ‘सिरुमलै कदली’ इत्येव विख्यातम् । किन्तु एषु दिनेषु अज्ञातस्य कश्चन रोगस्य कारणेन अयं कदलीप्रभेदः नश्यमानः अस्ति ।

दिण्डुक्कलदुर्गःEdit

सप्तदशशतके निर्मितः अयं दुर्गः दिण्डुक्कलमण्डलस्य केन्द्रस्थाने दिण्डुक्कलपत्तने अस्ति । मधुरै नायकैः अयं दुर्गः १६०५ तमे वर्षे निर्मितः । अस्य औन्नत्यं ९०० पादाः, परिधिः २.७५ किलोमीटर् । भारतस्य प्राच्यवस्तुसर्वेक्षणाविभागेन अयं दुर्गः सुरक्षितस्मारकत्वेन अभिज्ञातम् अस्ति ।

अतूरु कामराजसागरजलबन्धःEdit

दिण्डुक्कलमण्डलस्य अतूरुग्रामात् ६ किलोमीटर् दूरे अयं जलबन्धः अस्ति । कावेरीनद्याः उपनदी कोडगनार् नदी अत्र प्रवहति । अनेन जलबन्धेन ४०० एकर् विस्तीर्णं कामराजसरः निर्मितम् अस्ति । पक्षिवीक्षणार्थम् अयं प्रदेशः उत्तमः अस्ति ।

बाह्यसम्पर्कतन्तुःEdit

  1. www.tn.gov.in