कृष्णगिरिमण्डलमं (तमिऴ्: கிருட்டிணகிரி மாவட்டம் आङ्ग्लम्: Krishnagiri District) भारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं कृष्णगिरिपत्तनम् । तमिऴ्नाडुराज्ये राष्ट्रिय-आन्तर्जालिक-प्रशासन-प्रकल्पे (National E-Governance Project – NEGP) आन्तर्जालिकप्रशासनं कृष्णगिरिमण्डले एव आयकरविभागे समाजाभिवृद्धिविभागे च प्रथमतः आरब्धम् । न केवलं तमिऴ्नाडुराज्ये, अपि तु समग्रे भारतदेशे आम्रफलस्य उत्पादने कृष्णगिरिमण्डलम् अग्रेसरम् ।

कृष्णगिरिमण्डलम्

கிருட்டிணகிரி மாவட்டம்

—  मण्डलम्  —
कृष्णगिरिजलबन्धस्य पार्श्वॆ स्थितम् उद्यानवनम्
कृष्णगिरिजलबन्धस्य पार्श्वॆ स्थितम् उद्यानवनम्


Location of कृष्णगिरिमण्डलम्
in तमिऴ्‌नाडु
निर्देशाङ्काः

१२°३१′४.८″ उत्तरदिक् ७८°१२′४६.८″ पूर्वदिक् / 12.518000°उत्तरदिक् 78.213000°पूर्वदिक् / १२.५१८०००; ७८.२१३०००

देशः भारतम्
राज्यम् तमिऴ्‌नाडु
उपमण्डलम् कृष्णगिरिः, होसूरु, देङ्कनिकोट्टै, पोचम्पळ्ळि, ऊत्तङ्गरै
केन्द्रप्रदेशः कृष्णगिरिनगरम्
बृहत्तमं नगरम् कृष्णगिरिनगरम्
बृहत्तमं महानगरम् कृष्णगिरिनगरम्
Collector डा। सि। एन्। महेश्वरन्,IAS
Municipal Corporations कृष्णगिरि
Municipalities
Town Panchayats
व्यावहारिकभाषा(ः) तमिऴ्
समयवलयः IST (UTC+05:30)
Central location: १२°३१′ उत्तरदिक् ७८°१२′ पूर्वदिक् / 12.517°उत्तरदिक् 78.200°पूर्वदिक् / १२.५१७; ७८.२००
जालस्थानम् Official website of Krishnagiri District

इतिहासः

सम्पादयतु

अस्मिन् मण्डले बहवः कृष्णवर्णीयाः ग्रानैट्गिरयः सन्ति । अतः अस्य नाम कृष्णगिरिः इति । कृष्णदेवरायस्य प्रशासने इदं मण्डलम् आसीत्, अतः इदं नाम इत्यपि पक्षः अस्ति । २००४तमवर्षपर्यन्तं कृष्णगिरिः धर्मपुरीमण्डलस्य भागः आसीत् । वर्धमानां जनसंख्यां, प्रदेशस्य विशिष्टांशान् च परिगणय्य २००४तमवर्षस्य फ़ेब्रवरी नवमदिनाङ्के तमिऴ्नाडुराज्यस्य त्रिंशमण्डलत्वेन कृष्णगिरिमण्डलं निर्मितम् । श्रीमङ्गतरामशर्मा (भा.प्र.से) अस्य मण्डलस्य प्रथमः समाहर्ता आसीत् ।

भौगोलिकम्

सम्पादयतु

कृष्णगिरिमण्डलस्य विस्तारः ५१४३ चतुरश्रकिलोमीटर् । अस्य पूर्वभागे वेलूरु-तिरुवण्णामलैमण्डले स्तः । पश्चिमसीमायां कर्णाटकराज्यम् अस्ति । उत्तरभागे आन्ध्रप्रदेशः । दक्षिणे धर्मपुरीमण्डलम् अस्ति । समुद्रस्तरात् ३०० मीटर्‌तः १४०० मीटर् औन्नत्यम् अस्य मण्डलस्य । मण्डलस्य बहुभागः गिरिभिः आवृतः । समप्रदेशेषु दक्षिणपेन्नार् नद्याः जलेन कृषिकार्यं प्रचलति । मण्डलस्य पूर्वभागे वायुगुणः प्रायेण उष्णः । पश्चिमभागे तु कवोष्णः । वार्षिकवृष्टिः प्रायेण ८३० मिलिमीटर् भवति । मार्च् मासतः जून् मासाभ्यान्तरं ग्रीष्मकालः । जुलैतः नवेम्बर्‌पर्यन्तं वर्षाकालः । डिसेम्बर्मासतः फ़ेब्रवरी-मासाभ्यान्तरं शैत्यकालः इति परिगण्यते ।

जनसंख्या

सम्पादयतु

२०११तमवर्षस्य जनगणनानुगुणं कृष्णगिरिमण्डले १,८८३,७३१ जनाः वसन्ति । भारतस्य ६४० मण्डलेश्उ जनसंख्यादृष्ट्या अस्य मण्डलस्य २५१तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ३७० अस्ति (९६० प्रतिचतुरश्रमैल्) । २००१-२०११दशके जनसंख्यावृद्धिः २०.६७% आसीत् । मण्डले पुं-स्त्री अनुपातः १०००:९५६, साक्षरताप्रमाणं च ७२.४१% अस्ति । मण्डले विविधभाषाणां धर्माणां च समन्वयः दृश्यते । तमिऴ्, तेलुगु, कन्नडम् इति तिस्रः भाषाः प्रामुख्येन भाष्यन्ते । हिन्दूधर्मीयाः, क्रैस्तधर्मीयाः, इस्लाम्धर्मीयाः च अधिकसंख्यायां सन्ति ।

उपमण्डलानि

सम्पादयतु

कृष्णगिरिमण्डले पञ्च उपमण्डलानि सन्ति –

  • कृष्णगिरिः
  • होसूरु
  • देङ्कनिकोट्टै
  • पोचम्पळ्ळि
  • ऊत्तङ्गरै

कृषिः वाणिज्यं च

सम्पादयतु

कृष्णगिरिमण्डलस्य आम्रफलानि बहु प्रसिद्धानि । तमिऴ्नाडुराज्ये रागीधान्यस्य अत्यधिकप्रमाणस्य कृषिः कृष्णगिरौ एव भवति (४०%) । तण्डुलः, कदली, इक्षुखण्डः, कार्पासः,तिन्त्रिणी, नारिकेलः, कलायः, शाकाः, पुष्पाणि च अपराणि प्रमुखसस्यानि ।

तमिऴ्नाडु कृश्इविश्वविद्यालयस्य प्रादेशिक-कृषि-संशोधना-केन्द्रम् अस्य मण्डलस्य कावेरीपट्टिने पैयूरौ १९७३तः कार्यं निर्वहति । कृषिकार्ये आधुनिकतन्त्रज्ञानम् उपकरणानि च उपयोक्तुम् इदं केन्द्रं कृषिकाणां साहाय्यं विदधाति । उत्पादनाधिक्यं गुणवत्ततां च साधयितुं नूतनबीजसन्ततेः अपि संशोधनम् अपि अनेन केन्द्रेण क्रियमाणम् अस्ति । ग्रानैट् उद्यमः अपि मण्डले अभिवृद्धः अस्ति । बहुषु स्थलेषु ग्रानैट् खनयः संस्करणकार्यागाराः च दृश्यन्ते । प्रायः ७००० कर्मचारिणः खनिषु कार्यरताः सन्ति । अस्य मण्डलस्य होसूरुप्रदेशः अस्य राज्यस्य अत्यन्तम् उद्यमीकृतेषु प्रदेशेषु अन्यतमः ।

कृष्णगिरिमण्डलस्य ३९% प्रदेशः अरण्यावृतः । अरण्यप्रदेशेभ्यः अपि उत्पन्नानि लभ्यन्ते । वंशवृक्षाणाम् उत्पन्नानि, मधुसङ्ग्रहणम्, तिन्त्रिणीकृषिः इत्यादिषु कार्येषु अञ्चेट्टि, देङ्कनिकोट्टै, तळ्ळि, बेरिगैप्रदेशानां ग्रामस्थाः रताः ।

वीक्षणीयस्थलानि

सम्पादयतु

कृष्णगिरिः

सम्पादयतु

कृष्णगिरिपत्तनस्य समीपे तदानीन्तनेन मुख्यमन्त्रिणा कामराजेन निर्मितः कृष्णगिरिजलाशयः अस्ति । समीपे एव सय्यद् बाषागिरिषु टिप्पू सुल्तानस्य दुर्गः अस्ति । पत्तनस्य बस्‌स्थानकतः ८ किलोमीटर् दूरे नौकागृहम् उद्यानं च अस्ति । कृष्णगिरेः समीपे बहवः पुरातनदेवालयाः अपि सन्ति । समीपस्थे रामपुरे ५०० वर्षेभ्यः प्राक् निर्मितं राममन्दिरम् अस्ति । अत्र प्रतिवर्षं सहस्रशः भक्ताः आगच्छन्ति ।

होसूरुपत्तने प्रसिद्धः गिरिदेवालयः अस्ति । अत्रत्यः आराध्यदेवः अरुळमिगु मरकताम्बासमेतः श्री चन्द्रचूडेश्वरः । होसूरुतः २ किलोमीटर् दूरे दक्षिणतिरुपतिः इति ख्यातः श्रीवेङ्कटेश्वरदेवालयः अपि अस्ति ।

देङ्कनिकोट्टै

सम्पादयतु

अस्मिन् पत्तने पुरातनः बेट्टरायस्वामिदेवालयः (श्रीदेवी-भूदेवी-समेत-वेट्टैयडिय-पिरन् इति तमिऴ्भाषायां ख्यातः) अस्ति । एकदा कण्वमहर्षिः देङ्कनिनामकं दैत्यं मारयितंि प्रार्थितवान् । तस्य दैत्य मारणानन्तरं विष्णुः अत्रैव वासं कृतवान् इति स्थलपुराणम् । अयं देवालयः ५०० वर्षेभ्यः प्राक् निर्मितः इति श्रूयते । अस्मिन् देवालये प्रचाल्यमानः वार्षिकरथोत्सवः बहुप्रसिद्धः । अस्मिन् पत्तने लक्ष्मीनरसिंहस्वामिनः गविनरसिंहदेवालयः अपि अस्ति । देङ्कनिकोट्टैसमीपे अलसेट्टिग्रामे शिवनञ्जुण्डेश्वस्वामिदेवालयः अस्ति । देङ्कनिकोट्टैपत्तने मुस्लिमेषु ख्याता याराबस्य दर्गा वर्तते । यदा अस्मिन् पत्तने प्लेग्-साङ्क्रामिकः प्रसृतः, तदा बहवः जनाः भीत्या पत्तनं त्यक्तवन्तः । याराब हज़रतस्य आगमनेन प्लेग्-रोगः निवारितः इति जनाः कथयन्ति । अस्यां दर्गायां याराब हज़रतस्य, तस्य पुत्रस्य खलीफ़्-ए-हज़रतस्य च स्मारकम् अस्ति ।

हनुमान्तीर्थः

सम्पादयतु

ऊत्तङ्गरैपत्तनात् दशकिलोमीटर् दूरे पेण्णैयार् नद्याः तीरे इदं क्षेत्रम् अस्ति । तीर्थमलैक्षेत्रे श्रीरामः तपः कर्तुं गङ्गाजलम् आनेतुं हनूमन्तम् अवदत् । हनूमान् गङ्गाम् आनेतुं गतः, किन्तु समये प्रत्यागन्तुं न शक्तः । तदा रामः अस्त्रप्रयोगं कृत्वा गङ्गाजलं स्वीकृतवान् । प्रत्यागतः हनूमान् निराशः स्वेन आनेतं गङ्गाजलम् अस्मिन् क्षेत्रे क्षिप्तवान् इति कथा विद्यते । अतः अत्रत्यं जलं पवित्रम् इति जनाः मन्यन्ते । तमिऴ्संवत्सरस्य आडिमासे (कटकमासः, आङ्ग्लगणनायां जुलै-आगस्ट्) बहवः जनाः अत्र आगच्छन्ति ।

बाह्यसम्पर्कतन्तुः

सम्पादयतु


  1. www.tn.gov.in
"https://sa.wikipedia.org/w/index.php?title=कृष्णगिरिमण्डलम्&oldid=480157" इत्यस्माद् प्रतिप्राप्तम्