चेन्नैमण्डलम्
चेन्नैमण्डलं (Chennai district) (तमिऴ्: சென்னைமாவட்டம்) तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । विस्तारदृष्ट्या इदं मण्डलं लघुतमं, किन्तु जनसान्द्रता अत्रैव अत्यधिका । इदं नगरमण्डलम्, अर्थात्, अस्मिन् मण्डले केन्द्रस्थानम् इति किमपि नास्ति ।
भौगोलिकम्संपादित करें
चेन्नैमण्डलस्य विस्तारः १७८.२ चतुरश्रकिलोमीटर् । इदं मण्डलं भारतस्य पूर्वसमुद्रतीरसमभूमौ अस्ति । तमिऴ्नाडुराज्यस्य ईशान्यकोणे कोरमण्डलतीरे इदं मण्डलम् अस्ति । अस्य प्रान्तस्य पूर्वसीमा बङ्गालमहासमुद्रः । उत्तर, पश्चिमे च तिरुवळ्ळूरुमण्डलम् अस्ति । दक्षिणदिशे काञ्चिपुरमण्डलम् अस्ति ।
जनसंख्यासंपादित करें
२०११ तमवर्षस्य जनगणनानुगुणं चेन्नैमण्डलस्य जनसंख्या ४,६८१,०८७ । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य २७ तमं स्थानम् । मण्डले जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् २६,९०३ अस्ति । २००१-२०११ दशके जनसंख्यावृद्धेः प्रमाणं ७.७७% आसीत् । अस्मिन् मण्डले पुं, स्त्री अनुपातः १०००:९८६, साक्षरताप्रमाणं च ९०.३३% अस्ति । इदं मण्डलं १००% नगरीकृतम् । तमिऴ्नाडुराज्यस्य १३.३०% नगरजनसंख्या चेन्नैमण्डले एव अस्ति । इदं मण्डलं राज्यस्य ‘अत्यन्तं प्रवृद्धं मण्ड्लम्’ इति घोषितम् अस्ति ।
उपमण्डलानिसंपादित करें
चेन्नैमण्डले पञ्च उपमण्डलानि सन्ति –
- १) एग्मोर् नुङ्गम्बाक्कम्
- २) फ़ोर्ट् तोण्डैयार्पेट्
- ३) माम्बलम् गिण्डी
- ४) मयिलापूर् तिरुवळ्ळिक्केणिः
- ५) पेरम्बूरु पुरसैवाक्कम्
वाणिज्यम्संपादित करें
फ़ोर्ब्स् पत्रिकानुसारं चेन्नैनगरं विश्वे एव अतिवेगेन वर्धमानेषु नगरेषु अन्यतमम् । भारतस्य फ़ार्चून् ५०० संस्थानां मूलस्थानेषु अस्य नगरस्य चतुर्थं स्थानम् । २४ भारतीयसंस्थानाम् इदं मूलनगरम् । वाहनसङ्गणकतन्त्रांशतन्त्रज्ञानस्वास्थ्य आर्थिकोद्यमाः अत्र प्रवृद्धाः सन्ति ।
भारतस्य वाहनोद्यमे ३०% अस्मिन् नगरे तिष्ठति । ह्युण्डाय्, रेनाल्ट्, निस्सान्, अशोक् लीलाण्ड्, डैम्लर् एजि, क्याटर्पिलर् इन्क्, कोमाट्सु लिमिटेड्, फ़ोर्ड्, बिएम्डब्ल्यु, मित्सुबिशि इत्येतासां संस्थानाम् उत्पादनाकेन्द्राणि चेन्नैनगरे सन्ति । आवडौ स्थितं भारवाहकनिर्माणकेन्द्रं सेनावाहनानि निर्माति । इण्टिग्रल् कोच् फ़्याक्टरी इत्यत्र रैलपेटिकानां निर्माणं भवति । आम्बत्तूरु पाडि औद्यमिकवलये बहूनि वस्त्रोद्यमानि सन्ति । नगरस्य दक्षिणभागे वस्त्रपादरक्षोद्यमानां विशिष्ट-आर्थिकवलयः निर्मितः अस्ति । भारतस्य चर्मण विदेशविक्रयणे ५०% चेन्नैतः भवति ।
बहूनां तन्त्रांशसंस्थानां केन्द्राणि चेन्नैनगरे सन्ति । चेन्नैनगरे विद्यमानां टैडल् पार्क् इत्येतत् एषियाखण्डे एव बृहत्तमम् ऐटि पार्क् इति कथ्यते । विश्ववित्तकोशः, स्टाण्डर्ड् चार्टर्ड् वित्तकोशः, सिटिब्याङ्क् इत्यादयः बहवः वित्तसंस्थाः अपि अत्र केन्द्राणि निर्वहन्ति । इण्डियन् ब्याङ्क्, इण्डियन् ओवर्सीस् ब्याङ्क् इत्येतयोः राष्ट्रियवित्तकोशयोः मूलस्थानं चेन्नै । चेन्नैनगरे पूर्णतया सङ्गणकीकृतं मद्रास् स्टाक् एक्स्चेञ्ज् अस्ति ।
वीक्षणीयस्थलानीसंपादित करें
मेरीना समुद्रः, गान्धी समुद्रः, बेसंट् नगर् समुद्रः, वळ्ळुवर् कोट्टं, अन्ना स्मारकम्, एम्. जी. आर्. स्मारकं, राजाजी निनैवु अल्लं, गान्धी निनैवु अल्लं, अडयार् प्रान्ते प्रानिटोरियं, वण्डलूर् जन्तुप्रदर्शनशालकेन्द्राणि वर्तन्ते।
बाह्यसम्पर्कतन्तुःसंपादित करें
विकिमीडिया कॉमन्स् मध्ये चेन्नैमण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |