तिरुवण्णामलैमण्डलं (Tiruvannamalai district) (तमिऴ्: திருவண்ணாமலை மாவட்டம்) भारते किञ्चन राज्यम् अस्ति तमिळ्नाडु । अस्मिन् राज्ये किञ्चन मण्डलम् अस्ति तिरुवण्णामलै । अस्य मण्डलस्य केन्द्रं तिरुवण्णामलै पत्तनम् ।

तिरुवण्णामलै निर्देशाङ्काः
—  मण्डलम्  —
[[file:|250px|border|alt=|Map of तमिऴ्‌नाडु showing location of तिरुवण्णामलै निर्देशाङ्काः]]


Location of तिरुवण्णामलै निर्देशाङ्काः
in तमिऴ्‌नाडु
निर्देशाङ्काः

१२°५४′४०″ उत्तरदिक् ७९°८′१०″ पूर्वदिक् / 12.91111°उत्तरदिक् 79.13611°पूर्वदिक् / १२.९११११; ७९.१३६११

देशः भारतम्
राज्यम् तमिऴ्‌नाडु
मण्डलम् तिरुवण्णामलै
उपमण्डलम् तिरुवण्णामलै, चेय्यारु, आरणि, चेङ्गम्, पोलूरु, वन्दवासि, कलसपक्कम्, कीऴ्‌पेन्नत्तूरु, चेट्पेट् and तण्डरम्पाट्टु
जनसङ्ख्या

• सान्द्रता
• महानगरम्

३४,६८,९६५[१] (4th rank in tamilnadu) (2011)

654 /किमी2 (1,694 /वर्ग मील)
९,००,७६१ (8th largest in TN)

व्यावहारिकभाषा(ः) तमिळ्
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• तीरप्रदेशः

6,191 वर्ग किलोमीटर (2,390 वर्ग मील) (3th rank in tamilnadu)

0 किलोमीटर (0 मील)

वायुमण्डलम्

तलस्पर्षी


     1,046 मिमी (41.2 इंच)

जालस्थानम् Official website of District Collectorate, Tiruvannamalai District

इतिहासः सम्पादयतु

तमिऴ्‌नाडुराज्ये तिरुवण्णामलैक्षेत्रं बहु पवित्रं स्थानम् अस्ति । ’अण्णामलै’ इत्यस्य दुर्गमः पर्वतः इति अर्थः । ‘तिरु’ इति पूर्वपदम् अस्य पर्वतस्य श्रेष्ठतां द्योतयति । तिरुवण्णामलैपत्तनं प्रसिद्धं शैवक्षेत्रम् । अनेकेभ्यः शतकेभ्यः तमिऴ्‌जनैः अरुणाचलपर्वतः, तत्परितः विद्यमानः परिसरः च पूज्यभावनया दृश्यते । अत्र प्रचाल्यमाने दीपोत्सवे दूराद् अपि आगत्य भक्ताः भागं वहन्ति । उत्तरचोळकाले तिरुवण्णामलै सम्बुवरायवंशस्य चोळेन प्रशासितम् । आरणिसमीपस्थं पडवेडु तस्य राजधानी आसीत् । अत्र इदानीम् एकं दुर्गं, कैलासनाथदेवालयः च दृश्यते ।

स्वातन्त्र्यानन्तरं तिरुवण्णामलै उत्तर आर्काट् मण्डले आसीत् । १९८९ तमवर्षस्य सेप्टम्बर्-मासस्य ३० तमे दिनाङ्के उत्तर आर्काट् मण्डलं तिरुवण्णामलै सम्बुवरायर् तथा उत्तर आर्काट् अम्बेड्कर् इति द्विधा विभक्तम् ।

भौगोलिकम् सम्पादयतु

तिरुवण्णामलै मण्डलस्य विस्तारः ६१९१ चतुरस्रकिलोमीटर्मितः । अस्य मण्डलस्य उत्तरभागे वेल्लूरुमण्डलं, पश्चिमभागे कृष्णगिरि, धर्मपुरिमण्डलं, दक्षिणे विलुप्पुरमण्डलं, पूर्वभागे काञ्चिपुरमण्डलं च अस्ति ।

जनसंख्या सम्पादयतु

२०११ जनगणनानुगुणं तिरुवण्णामलैमण्डलस्य जनसंख्या ३,४६८,९६५ । देशस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या तिरुवण्णामलै ९२ तमं स्थानं भवति । अस्य मण्डलस्य जनसंख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ६५४ जनाः (१६९०/चतुरस्रमैल्)। २००१-२०११ दशके जनसंख्यावृद्धिः १२.९४% आसीत् । अत्र पुं, स्त्री अनुपातः १०००-९९३ अस्ति । साक्षरता ७९.३३% अस्ति । समग्रे राज्ये इदं साक्षरताप्रमाणम् अतिन्यूनम् ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि -

  1. तिरुवण्णामलै
  2. चेय्यारु
  3. आरणि
  4. चेङ्गम्
  5. पोलूरु
  6. वन्दवासि
  7. कलसपक्कम्
  8. कीऴ्‌पेन्नत्तूरु
  9. चेट्‌पेट्
  10. तण्डरम्पाट्टु

कृषिः वाणिज्यं च सम्पादयतु

कृषिः, कौशेयशाटिकावयनं च तिरुवण्णामलैमण्डले बहु प्रमुखम् । तण्डुलकृषिः संस्करणं च अत्रत्येषु बृहदुद्यमेषु अन्यतमम् । मण्डले १,१२,०१३ हेक्टेर् परिमिता भूमिः तण्डुलकृषौ उपयुज्यते । अत्र बहूनि तण्डुलसंस्करणकेन्द्राणि दृश्यन्ते । चेय्यारुसमीपे विद्यमानं माडर्न् तण्डुलसंस्करणकेन्द्रं सर्वकारीयतण्डुलसंस्करणकेन्द्रेषु बृहत्तमम् । आरणि प्रदेशे प्रायः २७८ संस्करणकेन्द्राणि सन्ति । अस्मिन् मण्डले ‘सेङ्गुन्तार्’ इत्याख्याः बहवः कौशेयकुविन्दाः वसन्ति । भारतदेशस्य कौशेयवस्त्रेषु अधिकः भागः आरणि प्रदेशे उत्पाद्यते ।

वीक्षणीयस्थलानि सम्पादयतु

चिन्तनमात्रेण मोक्षप्रदायकं तिरुवण्णामलैक्षेत्रम् । अत्रत्यः अरुणाचलेश्वरस्य देवालयः बहुप्रसिद्धः । श्रीशेषाद्रिस्वामिनः आश्रमः अपि अत्रत्येषु पवित्रस्थलेषु अन्यतमः । विश्वप्रसिद्धः रमणमहर्षिः अपि तिरुवण्णामलैनगरे एव वसति स्म । विश्वस्य सर्वेभ्यः प्रदेशेभ्यः जनाः रमणाश्रमं द्रष्टुम् आगच्छन्ति । रमणाश्रमस्य समीपे एव योगिनः रामसुरत्कुमारस्य आश्रमः अपि अस्ति ।

चन्नकेशवपर्वतमध्ये पेन्नैय्यर् नद्यां निर्मितः सातनूरुजलबन्धः । अयं १९५८ तमे वर्षे निर्मितः । अत्र सुन्दराणि उद्यानानि, प्राणिसङ्ग्रहालयः च सन्ति । तिरुवण्णामलैपत्तनतः ५० किलोमीटर् दूरे स्थिते देवकीपुरे ६०० वर्षेभ्यः प्राक् निर्मितः श्रीपेरियनायगि अम्मन् देवालयः अस्ति । अयं देवालयः अस्य मण्डलस्य द्वितीयबृहत्तमः देवालयः । श्रीकनकगिरिपर्वतस्य देवालयः अपि राज्ये प्रसिद्धः । पोलूरुसमीपे अरिहन्तगिरिजैनमठः अस्ति । अयं मठः प्राचीने जैनक्षेत्रे १९९८ तमे वर्षे स्थापितः । अत्र तिस्रः जैनगुहाः, चत्वारः जैनदेवालयाः, नेमिनाथस्य १६ मीटर् उन्नता शिलामूर्तिः च सन्ति । इयं मूर्तिः क्रिस्तीयद्वादशशतके निर्मिता इति वदन्ति । तमिऴ्‌नाडुराज्ये इयम् अत्युन्नता जैनमूर्तिः ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

  1. "2011 Census of India" (Excel). Indian government. 16 April 2011. 
"https://sa.wikipedia.org/w/index.php?title=तिरुवण्णामलैमण्डलम्&oldid=468085" इत्यस्माद् प्रतिप्राप्तम्