धर्मपुरी जनपदम् (Dharmapuri district) (तमिऴ् - தருமபுரி(தர்மபுரி) மாவட்டம்) दक्षिणभारतस्य तमिऴ्‌नाडुराज्यस्य मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं धर्मपुरीपत्तनम् । ऐतिहासिकतया अस्य नगरस्य ’तगडूरु’ इति नाम आसीत् ।

धर्मपुरि जनपदम्

தருமபுரி(தர்மபுரி) மாவட்டம்

—  धर्मपुरी  —
होगेनक्कल् जलपातः
होगेनक्कल् जलपातः


Location of धर्मपुरि जनपदम्
in तमिळ्नाडु
निर्देशाङ्काः

१२°७′३३.६″ उत्तरदिक् ७८°९′१४.४″ पूर्वदिक् / 12.126000°उत्तरदिक् 78.154000°पूर्वदिक् / १२.१२६०००; ७८.१५४०००

देशः भारतम्
राज्यम् तमिळ्नाडु
उपमण्डलम् धर्मपुरी, पालक्कोडु, हरूरु, पेण्णगरम्, पाप्पिरेड्डिपट्टि.
केन्द्रप्रदेशः धर्मपुरी
बृहत्तमं नगरम् धर्मपुरी
बृहत्तमं महानगरम् धर्मपुरी
Collector R. Lilly, IAS
Superintendent of Police Amit Kumar Singh, IPS
व्यावहारिकभाषा(ः) Tamil
समयवलयः IST (UTC+05:30)
Central location: १२°७′ उत्तरदिक् ७८°९′ पूर्वदिक् / 12.117°उत्तरदिक् 78.150°पूर्वदिक् / १२.११७; ७८.१५०
जालस्थानम् Official website of Dharmapuri District

इतिहासः

सम्पादयतु

तगडुरुप्रदेशस्य (अद्यतनधर्मपुरी) विज्ञातः प्राचीनतमः प्रशासकः सङ्गमकालस्य आदियमान् नेडुमान् अञ्जिः । तस्य आश्रये एव प्रसिद्धा कवयित्री अव्वैयार् आसीत् । अग्रे अस्य प्रदेशस्य उल्लेखः क्रिस्तीये अष्टमशतके श्रूयते, यदा सेलं मण्डलस्य उत्तरभागाः पल्लवप्रशासने आसन् । ततः गङ्गपल्लवाः ’सेलं’ मण्डलस्य पश्चिमभागान् अपि जितवन्तः । अष्टमशतकस्य अन्ते पश्चिमगङ्गाः बारामहलस्य अपि प्रशासकाः आसन् इति श्रूयते ।

नवमशतकस्य आरम्भे राष्ट्रकूटाः बलं प्राप्य अग्रिमयोः द्वयोः शतमानयोः अस्मिन् मण्डले प्रभावयुताः आसन् । ततः सेलम् मण्डलस्य पूर्णः भागः चोळैः जितः । तदा गङ्गवाडी चोळप्रशासनस्य भागः भूत्वा अडिगमान् तगडूरस्य अधीनतया स्थापितम् । द्वादशशतके चोळानाम् अवनतिः अभवत् । होय्सळाः प्रबलाः भूत्वा चोळान् गङ्गवाडीतः प्रभ्रष्टान् कृतवन्तः । तदा यद्यपि बारामहल् तथा तलघाट् प्रदेशौ चोळप्रशासने एव शिष्टौ, तथापि अडिगमान् प्रदेशः प्रायः स्वतन्त्रः अभवत् । नाममात्रेण तत्र चोळानां प्रभावः आसीत् ।

चतुर्दशे शतके विजयनगरसाम्राज्यस्य उदयः अभवत् । १३६५-६६ समये प्रथमः बुक्कराजः मधुरैप्रदेशस्य देहलीसुल्तानान् पराजितवान् । ततः सेलं प्रदेशः विजयनगरसाम्राज्यस्य अधीनः अभवत् । ताळीकोटे टसमरानन्तरं चेन्नपत्तनस्य जगदीशरायः मैसूरुप्रान्तेन सह बारामहलम् अपि शासितवान् । सप्तदशशतके तिरुमलनायकस्य आधिपत्ये मधुरैनायकाः एतं प्रदेशं स्वाधीनं कृतवन्तः । तिरुमलनायकं प्रति निष्ठानां पोलिगराणां शासने अयं प्रदेशः स्थापितः । पोलिगरेषु अन्यतमः रामचन्द्रनायकः नामक्कल् दुर्गं निर्मितवान् इति श्रूयते ।

श्रीरङ्गपत्तणस्य कण्ठीरवनरसराजः १६५४ तमे वर्षे बारामहल्, पेण्णगरं, डेङ्कनिकोट्ट तथा धर्मपुरीप्रदेशान् जितवान् । ततः किञ्चनकालं बारामहलप्रदेशः मराठैः शासितः । पुनः १६८८-८९ वर्षे मैसूरुराजः चिक्कदेवरायः सम्पूर्णं सेलं मण्डलं स्वायत्तीकृतवान् । १७०४ तमे वर्षे तस्य निधनानन्तरं १७१४ तमे वर्षे कडपानवाबः अब्दुल् नबि खानः बारामहलस्य अधिपतिः अभवत् । १७५० समये हैदर् आलि एतं प्रदेशं जितवान् । ततः १७६७ तमे वर्षे अयं प्रदेशः ब्रिटिषैः जितः । पुनः शीघ्रमेव हैदर् आलि ब्रिटिषान् पराजित्य एतान् प्रदेशान् प्राप्तवान् । तस्य पुत्रस्य टिप्पू सुल्तानस्य काले सम्भूतस्य शान्तिसन्धानस्य फलत्वेन बालघाट् तथा होसूरुप्रदेशम् अतिरिच्य प्रायेण पूर्णं सेलं मण्डलं ब्रिटिषानाम् अधीनम् अभवत् । प्रथमः ब्रिटिष् समाहर्ता कृष्णगिरिं स्वस्य केन्द्रस्थानम् अकरोत् । १७९९ तमे वर्षे सम्भूतस्य अन्तिममैसूरुसमरस्य अनन्तरं होसूरुप्रदेशस्य शिष्टाः भागाः अपि ब्रिटिषानाम् अधीनाः अभवन् । अद्यतनधर्मपुरीप्रदेशः तदा सेलंमण्डलस्य एव भागः आसीत् । १९४७ पर्यन्तम् अपि धर्मपुरी सेलं मण्डलस्य उपजनपदम् आसीत् । १९६५ तमे वर्षे अक्टोबर् मासस्य द्वितीये दिनाङ्के धर्मपुरीमण्डलं निर्मितम् । अस्य केन्द्रस्थानम् अभवत् धर्मपुरीपत्तनम् ।

२००४ तमवर्षस्य सेप्टम्बर् मासस्य द्वितीय दिनाङ्के धर्मपुरीमण्डलं धर्मपुरी तथा कृष्णगिरिः इति द्वेधा विभक्तम् ।

भौगोलिकम्

सम्पादयतु

धर्मपुरीमण्डलस्य विस्तारः ४४९७.७७ चतुरश्रकिलोमीटर् । अस्य उत्तरदिशे कृष्णगिरिमण्डलमं, पूर्वत्र तिरुवण्णामलै, विलुप्पुरमण्डलं, दक्षिणे सेलं मण्डलं, पश्चिमभागे कर्णाटकराज्यस्य चामराजनगरजनपदम् अस्ति । पूर्णं मण्डलं पर्वतैः अरण्यैः च आवृतम् अस्ति । अत्रत्यः वायुगुणः प्रायेण उष्णः भवति । मार्च्‌ मासतः मेमासपर्यन्तम् औष्ण्यम् अत्यधिकं भवति । एप्रिल्‌मासे अधिकतमः ३८.० सी उष्णांशः भवति । डिसेम्बर्मासतः फ़ेब्रवरीमासपर्यन्तं उष्णता मन्दीभवति । जनवरीमासे न्यूनतमः ११० सी उष्णांशः भवति ।

जनसंख्या

सम्पादयतु

२०११ जनगणनानुगुणं धर्मपुरीमण्डले १,५०२,९०० जनाः वसन्ति । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या धर्मपुर्याः ३३४ तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरस्रकिलोमीटर् ३३२ निवासिनः (प्रतिचतुरश्रमैल् ८६० जनाः) । २००१-२०११ दशके जनसंख्यावृद्धिः १६.०४% आसीत् । धर्मपुर्यां पुं, स्त्री अनुपातः १०००:९४६ अस्ति, साक्षरताप्रमाणं च ६४.७१% ।

उपमण्डलानि

सम्पादयतु

धर्मपुरीमण्डले पञ्च उपमण्दलानि सन्ति ।

  • धर्मपुरी
  • पालक्कोडु
  • हरूरु
  • पेण्णगरम्
  • पाप्पिरेड्डिपट्टि

कृषिः वाणिज्यं च

सम्पादयतु

राज्यस्य प्रमुखेषु फलशाकोत्पादकेषु प्रदेशेषु धर्मपुरीजनपदम् अपि अन्यतमम् । अत्र अनावृष्टिः काले काले भवति । अतः वृष्टिं विना रोढुं समर्थानां फलानां कृषिः अधिकतया दृश्यते । अत्रत्यं प्रमुखम् उत्पादनम् आम्रफलानाम् । मण्डलस्य प्रायः १/३ प्रदेशे आम्रकृषिः दृश्यते । राज्यस्य ५०% आम्रफलानि अत्रैव रुह्यन्ते । पालक्कोडुप्रदेशे टोमेटोकृषिः भवति । पेण्णगरप्रदेशे मरीचिकाकृषिः दृश्यते । पेण्णगरे हरूरु, पालक्कोडुप्रदेशयोः च उत्तमविधः कृष्णवर्णीयः ग्रानैट् खनिजः अपि लभ्यते । क्वार्ट्ज़् खनिजः पेण्णगर उपमण्डलस्य केण्डिगनपळ्ळिग्रामे, हरूरुतालुकायाः वेलम्पट्टिग्रामे, पाप्पिरेड्डिपट्टितालुकायाः पेद्दम्पट्टिग्रामे च लभ्यते । हरूरुप्रदेशे अमूल्यः मालिब्डिनं खनिजः अपि लभ्यते । अयं खनिजः उत्तमः संवाहकः ।

वीक्षणीयस्थलानि

सम्पादयतु

इदं धर्मपुरीमण्डलस्य प्रमुखं प्रवासिस्थानम् । धर्मपुर्याः ४६ किलोमीटर् दूरे कर्णाटकस्य सीमायाम् अयं जलपातः अस्ति । होगेनक्कल् प्रदेशे कावेरीनदी महता प्रवाहेण तमिऴ्‌नाडुराज्यं प्रविशति । तया नद्या अत्र नैसर्गिकः जलपातः निर्मितः । कन्नडभाषया होगेनक्कल् इत्यस्य पदस्य ’धूमावृतशिला’ इत्यर्थः । यदा जलम् अधः शिलायां सरभसं पतति, तदा उत्थिताः जलकणाः धूमसदृशाः भवन्ति । तेन शिलाः धूमावृताः इव दृश्यन्ते । होगेनक्कल् प्रदेशे जलं विस्तृततया प्रवहति । अत्र तरीभिः यानं सम्भवति । ‘परिसल्’ इति प्रसिद्धया तर्या यानं रोमाञ्जकम् अनुभवं जनयति । होगेनक्कल्प्रदेशं परितः बहवः गिरयः सन्ति, यैः प्रदेशस्य सौन्दर्यं वर्धते । जलपाते स्नानं कर्तुं शक्यम् । स्थलीयजनैः अभ्यञ्जनम् अपि क्रियते आसक्तानां प्रवासिनाम् । कावेरीनदी आवर्षं प्रवहति इत्यतः वर्षे यदा कदापि अयं जलपातः द्रष्टुं शक्यः । धर्मपुरीतः तथा कृष्णगिरेः होगेनक्कलं प्राप्तुं वाहनव्यवस्था अस्ति ।

तीर्थमलै देवालयः

सम्पादयतु

धर्मपुरीमण्डलस्य हरूरुतालुकायां तीर्थमलै पवित्रं क्षेत्रम् । गिरेः उपरि श्रीतीर्थगिरीश्वरस्य देवालयः अस्ति । चोळराजाः विजयनगरराजाः च एतं देवालयं प्रति भूरि धनं दत्तवन्तः । महाशिवरात्रिदिने बहवः भक्ताः अत्र आगच्छन्ति । भक्तानां कृते प्रवासोद्यमविभागेन निर्मितानि वासभवनानि सन्ति । धर्मपुरीमण्डले तीर्थमलै प्रमुखं प्रवासिस्थानम् इति निर्दिष्टम् अस्ति ।

आदियमान्कोट्टै

सम्पादयतु

इयं तगडूरुप्रदेशस्य प्राचीनप्रशासकानां आदियमान् वंशस्थानां राजधानी आसीत् । सेलम्, धर्मपुरीमार्गे धर्मपुर्याः ७ किलोमीटर् दूरे अस्ति इदम् । अण्डाकारस्य दुर्गस्य अवशेषाः अद्यापि द्रष्टुं शक्याः । अत्रत्येषु देवालयेषु चेन्नराय पेरुमाळ् देवालयः बृहत्तमः । कृष्णदेवरायेन, होय्सळराजैः वा निर्मितः अयं देवालयः इति श्रूयते । इदं संरक्षितं स्मारकम् । देवालयस्य अन्तच्छदे महाभारतस्य, विश्वरूपदर्शनस्य, रामायणस्य च चित्राणि चित्रितानि सन्ति । सर्वाणि चित्राणि त्रयोदशशतकस्य सन्ति ।

सुब्रह्मण्यशिवस्मारकम्

सम्पादयतु

पेण्णगरतालुकायाः पाप्पारप्पट्टिपत्तने प्रसिद्धस्य देशभक्तस्य सुब्रह्मण्यशिवस्य स्मारकं निर्मितम् अस्ति ।

सर् थामस् मन्रो स्तम्भः

सम्पादयतु

सर् थामस् मन्रो एप्रिल् १७९२ तः मार्च् १७९९ पर्यन्तं बारामहले आयाधिकारिणः सहायकः आसीत् । धर्मपुर्याः कृते तस्य सहयोगस्य स्मरणार्थं मद्रास् सर्वकारेण अयं स्तम्भः निर्मितः । समीपे एव तस्य गृहम्, उद्यानं च अस्ति ।

बाह्यसम्पर्कतंतुः

सम्पादयतु
  1. www.tn.gov.in
"https://sa.wikipedia.org/w/index.php?title=धर्मपुरीमण्डलम्&oldid=480477" इत्यस्माद् प्रतिप्राप्तम्