चन्द्रप्रभुः
चन्द्रप्रभुः ( ( शृणु) /ˈxəndrəprəbhʊhʊ/) (हिन्दी: चन्द्रप्रभु, आङ्ग्ल: Chandraprabhu) जैनधर्मस्य चतुर्विंशत्यां तीर्थङ्करेषु अष्टमः तीर्थङ्करः अस्ति । भगवतः चन्द्रप्रभोः वर्णः श्वेतः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं चन्द्रः अस्ति ।
चन्द्रप्रभुः | |
---|---|
अष्टमः जैनतीर्थङ्करः | |
चन्द्रप्रभोः प्रतिमा | |
विवरणम् | |
ऐतिहासिककालः | १ × १०२१९ वर्षाणि पूर्वम् |
परिवारः | |
पिता | महासेन |
माता | लक्ष्मणा |
वंशः | इक्ष्वाकुः |
स्थानम् | |
जन्म | चन्द्रपुरी |
निर्वाणम् | सम्मेदशिखरम् |
लक्षणम् | |
वर्णः | श्वेतः |
चिन्हम् | चंद्रः |
औन्नत्यम् | १५० धनुर्मात्रात्मकम् (४५० मीटर्) |
आयुः | १०,००,००० पूर्वम् (७०.५६ × १०१८ वर्षाणि) |
शासकदेवः | |
यक्षः | विजयः |
यक्षिणी | भूकुटि |
जैनध्वजः | |
जैनधर्मस्य प्रतीकम् | |
धर्मावलम्बीनां संख्या | |
---|---|
प्रायः ५० लक्षजनाः | |
प्रवर्तकः | |
आदिनाथः | |
विस्तारः | |
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः | |
शिल्पकृतयः | |
जैनागमः | |
भाषा(ः) | |
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी |
कौमारावस्थायां चन्द्रप्रभोः शरीरस्य औन्नत्यं सार्धशतं (१५०) धनुर्मात्रात्मकम् आसीत्[१] । भगवतः धार्मिकपरिवारे “विजय” इत्याख्यः यक्षः, “भूकुटि” इत्याख्या शासनदेवी च आसीत् ।
जन्म, परिवारश्च
सम्पादयतुचन्द्रपुरीनाम्न्यां नगर्यां मार्गशीर्ष-मासस्य कृष्णपक्षस्य एकादश्यां तिथौ अनुराधा-नक्षत्रे भगवतः चन्द्रप्रभोः जन्म अभवत् ।
चन्द्रप्रभोः पितुः नाम महासेनः, मातुः नाम लक्ष्मणा च आसीत् । महासेनः चन्द्रपुरीनगर्याः राजा आसीत् । महासेनः श्रेष्ठः राजा आसीत् । तस्य शासनकाले प्रजा सुखेन जीवति स्म । एकदा फाल्गुन-मासस्य कृष्णपक्षस्य पञ्चम्यां तिथौ अनुराधा-नक्षत्रे रात्रौ लक्ष्मणा तीर्थङ्करत्वसूचकान् चतुर्दश स्वप्नान् दृष्टवती । राजा, राज्ञी च अतीव प्रसन्नौ अभवताम् । तौ स्वप्नानां फलं न जानीतः स्म । तथापि स्वप्नान् दृष्ट्वा राज्ञी आनन्दिता जाता ।
आगामिदिवसे राजा स्वप्नशास्त्रिणः आवाहितवान् । स्वप्नशास्त्रिभिः चतुर्दशस्वप्नानां फलम् उक्तम् यत् – “कस्यचित् तीर्थङ्करस्य जन्म भविष्यति इति सूच्यते" । स्वप्नानां फलादेशं श्रुत्वा राजा, राज्ञी च प्रफुल्लितौ अभवताम् । राज्ये आनन्दस्य वातावरणम् अभवत् । शुभसमाचारं प्राप्य राज्ञा सम्पूर्णे राज्ये दानं प्रदत्तम् ।
नवमासानन्तरं भगवतः चन्द्रप्रभोः जन्म अभवत् । यदा प्रसवः अभवत्, तदैव इन्द्राः आगतवन्तः आसन् । तस्मिन् समये एव इन्द्राः नवजातशिशुं सुमेरुपर्वते पाण्डुकवनं नीतवन्तः । तत्र तैः इन्द्रैः शिशोः उपरि जलाभिषेकः कृतः । पुनश्च इन्द्राः तं शिशुं मातुः क्रोडे स्थापितवन्तः ।
यदा राजा पुत्रजन्मनः सन्देशं प्राप्तवान्, तदा पुत्रप्राप्त्याः उत्साहेन राज्ञा राज्ये पुत्रोत्सवस्य आयोजनं कृतम् । तस्मिन् उत्सवे राजा जनेभ्यः दानम् अयच्छत् । पुत्रोत्सवे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः चापि समुपस्थिताः आसन् । देवैः बालकाय आशीर्वादः प्रदत्तः ।
पूर्वजन्म
सम्पादयतुघातकी-खण्डद्वीपे पूर्वविदेहक्षेत्रे मङ्गलावतीविजये रत्नसञ्चया-नगरी आसीत् । तस्याः नगर्याः राजा पद्मनाभः आसीत् । पद्मनाभः एव भगवतः चन्द्रप्रभोः पूर्वजन्म आसीत् । तस्यां नगर्यां साधूनाम् गमनागमनं निरन्तरं भवति स्म । अतः बहवः धर्मगुरवः तस्यां नगर्यां प्रवचनानि कुर्वन्ति स्म ।
धर्मगुरवः जनान् प्रेरयन्ति स्म । तेन जनाः धर्ममार्गे कार्यरताः भवन्ति स्म । राजा अपि युगन्धरमुनेः दीक्षां प्राप्तवान् । ततः परं तेन उत्तराधिकारिणे राज्यस्य दायित्वं प्रदत्तम् । अनन्तरं सः साधनायां रतः अभवत् । तेन साधनायाः तीर्थङ्करगोत्रस्य बन्धनं कृतम् । तस्य सर्वेषां कर्मणां नाशः अभवत् । एकमासं यावत् अनशनं कृत्वा सः स्वर्गलोकं प्रस्थितवान् ।
भगवतः चन्द्रप्रभोः जन्मनः एकादशदिनानि अनन्तरं नामकरणसंस्कारस्य विधिः आयोजिता । तस्मिन् दिने जनैः उत्सवः अपि आचरितः आसीत् । स्वर्गलोकात् बहवः देवाः समागताः । चतुष्षष्टिभिः इन्द्रैः, लोकान्तिकैः देवैः च अपि उत्सवः आचरितः । उत्सवे तेषां देवानाम् उपस्थितिः आवश्यकी वर्तते ।
राज्ये जनाः अपि प्रसन्नाः आसन् । नामकरणोत्सवे बालकस्य नामकरणं क्रियते । अतः राजा नामकरणाय देवतानां, जनानां च परामर्शं पृष्टवान् । लक्ष्मणा बालकं नीत्वा निश्चितं स्थलं प्रापयत् । बालकं दृष्ट्वा जनाः स्तब्धाः अभवन् । यथा गगनात् चन्द्रः स्वयमेव आगच्छेत्, तथैव बालकस्य कान्तिः आसीत् । सर्वैः स्वमतानि प्रदत्तानि आसन् ।
गर्भकालस्य घटनां विचार्य राज्ञा स्वस्य विचारः उक्तः यत् – “गर्भकाले राज्ञी चन्द्रमसं प्राप्तुम् ऐच्छत् । मया तस्येच्छा अपि पूर्णा कृता आसीत् । बालकस्य शरीरस्य तेजः अपि चन्द्रः इव दृश्यते । अतः अस्य बालकस्य नाम चन्द्रप्रभुः इति करणीयम् । सर्वैः जनैः, देवैः च समर्थनं प्रदत्तम् । तद् आरभ्य एषः चन्द्रप्रभुः इति नाम्ना ख्यातः अस्ति ।
चन्द्रप्रभुः त्रिज्ञानधारी (मतिः, श्रुतः, अवधिः) आसीत् । चन्द्रप्रभोः मनसि गुरुकुलीयायाः दीक्षायाः अपेक्षा नासीत् । यतः कोऽपि तीर्थङ्करः गुरुकुले अध्ययनं न करोति । सर्वे तीर्थङ्कराः त्रिज्ञानधारिणः भवन्ति ।
लक्ष्मणया श्रेष्ठतया चन्द्रप्रभोः पालनं कृतम् । समयान्तरे भगवतः चन्द्रप्रभोः बाल्यावस्था, किशोरावस्था च व्यतीता । अनन्तरं राजा महासेनः राजकन्याभिः सह चन्द्रप्रभोः विवाहम् अकारयत् । विवाहानन्तरं राज्ञः महासेनस्य मनसि राज्यात् निवृत्तेः विचारः आगतः । अतः सः चन्द्रप्रभोः राज्याभिषेकं कृतवान्, चन्द्रप्रभवे राज्यस्य दायित्वं च प्रदत्तवान् । ततः परं प्रतिष्ठसेनः दीक्षां प्रापत् ।
राज्यम्
सम्पादयतुचन्द्रप्रभुणा राजपदं प्राप्तम् आसीत् । यथा माता बालकस्य पालनं करोति, तथैव सः अपि राज्यस्य सत्यनिष्ठया पालनं कृतवान् आसीत् । राज्ये कस्यापि वस्तुनः अभावः एव नासीत्, अतः अपराधाः अपि न भवन्ति स्म । तेन कारणेन चन्द्रप्रभोः राज्ये अपराधिनः अपि न्यूनाः अभवन् । जनैः अपि आन्तरिकविवादाः विस्मृताः ।
प्रजाजनाः परस्परम् एव विवादानां निवारणं कुर्वन्ति स्म । राजा चन्द्रप्रभुः अपि राज्यस्य सञ्चालनेन सन्तुष्टः आसीत् । राज्ञः मनसि सात्विकः सन्तोषः आसीत् । प्रजाजनानाम् एकात्मतायाः कारणेन एव सम्पूर्णं राज्यं कुटुम्बः इव प्रतिभाति स्म । राज्ये प्रजा सुखी आसीत् ।
राजत्यागः, दीक्षा च
सम्पादयतुभगवता चन्द्रप्रभुणा चतुर्विंशतिपूर्वाङ्गाधिकं सार्धषड्वर्षाणि यावत् राज्यसञ्चालनम् कृतम् आसीत् । यदा दीक्षायाः समयः ज्ञातः, तदा स्वस्य उत्तराधिकारिणः राज्याभिषेकं कृत्वा राज्यस्य तस्मै दायित्वं प्रदत्तम् । अनन्तरं राजा चन्द्रप्रभुः विरागी अभवत् । तस्य मनसि वैराग्यस्य भावना प्रकटिता ।
ततः परं सः वार्षिकीदानं कर्तुं सज्जः अभवत् । स्वर्गलोकात् लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च तत्र समागताः । ततः परं भगवता चन्द्रप्रभुणा वार्षिकीदानं कृतम् । एकवर्षं यावत् तेन वार्षिकीदानं कृतमासीत् । वार्षिकीदाने सुवर्णमुद्रिकाः दीयन्ते स्म । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।
राज्ञः स्वभावः शान्तः, तेजस्वि च आसीत् । राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः अभवन् । यदा वार्षिकीदानं पूर्णमभवत्, तदा मार्गशीर्ष-मासस्य कृष्णपक्षस्य त्रयोदश्यां तिथौ अनुराधा-नक्षत्रे भगवान् चन्द्रप्रभुः सहस्रजनैः सह नगरस्य सहस्राम्रोद्यानं प्राप्तवान् । उद्याने देवाः, इन्द्राः चापि समुपस्थिताः आसन् । सर्वेषां समक्षे भगवता चन्द्रप्रभुणा दीक्षा स्वीकृता ।
दीक्षायाः दिवसे भगवान् षष्ठ्याः तपः कृतवान् । अपरे दिने भगवता चन्द्रप्रभुणा राज्ञः सोमदत्तस्य गृहे क्षीराहारः गृहीतः । दीक्षानन्तरं मासत्रयं यावत् भगवान् चन्द्रप्रभुः छद्मस्थः आसीत् । भगवता चन्द्रप्रभुना मासत्रयं यावत् विविधाः तपस्याः, साधनाः च कृताः । सः पुनः सहस्राम्रोद्यानं प्राप्तवान् ।
चन्द्रपुरी-नगर्यां माघ-मासस्य कृष्णपक्षस्य सप्तम्यां तिथौ अनुराधा-नक्षत्रे तस्मै केवलज्ञानम् अभवत् । तस्मिन् दिवसे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः, नगरजनाः च समुपस्थिताः आसन् । सर्वैः मिलित्वा केवलमहोत्सवस्य आयोजनं कृतम्, उत्सवः आचरितः च ।
अनन्तरं भगवता चन्द्रप्रभुणा प्रथमं प्रवचनं कृतम् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः संसारसागरात् निवृत्तिं प्राप्तवन्तः । भगवतः चन्द्रप्रभोः प्रवचनस्य तादृशः प्रभावः आसीत्, येन जनाः मुग्धाः, लीनाः च अभवन् ।
धार्मिकः परिवारः
सम्पादयतुयदा भगवान् चन्द्रप्रभुः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा चन्द्रप्रभुना धार्मिकपरिवारस्य अपि रचना कृता[२]।
- ९५ गणधराः
- ११,००० केवलज्ञानिनः
- ९,१५० मनःपर्यवज्ञानिनः
- ९,००० अवधिज्ञानिनः
- १५,३०० अवैक्रियलब्धिधारिणः
- २,०३० चतुर्दशपूर्विणः
- ८,४०० चर्चावादिनः
- ३,००,००० साधवः
- ४,३०,००० साध्व्यः
- २,५७,००० श्रावकाः
- ४,९३,००० श्राविकाः
निर्वाणम्
सम्पादयतुयदा भगवान् चन्द्रप्रभुः स्वस्य निर्वाणसमयं ज्ञातवान्, तदा सः सहस्रसाधुभिः सह सम्मेदशिखरं गतवान् । तत्र सः अनशनञ्चकार । तेन पुनः तपस्या, साधना च कृता । अनन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्मणां नाशः अभवत् । तेन सः सिद्धत्वं प्रापत् ।
तत्पश्चात् अनशनान्ते भाद्रपद-मासस्य कृष्णपक्षस्य सप्तम्यां तिथौ श्रवण-नक्षत्रे सम्मेदशिखरे भगवतः चन्द्रप्रभोः निर्वाणम् अभवत् । भगवता सह बहवः मुनयः अपि मोक्षं प्रापन् [३]।
चन्द्रप्रभुणा कौमारावस्थायां सार्धद्विलक्षवर्षाणां, राज्ये सार्धषड्लक्षवर्षाणां, दीक्षायां चतुर्विंशतिपूर्वाङ्गं च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने दशलक्षं वर्षाणि भुक्तानि [४]।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये चन्द्रप्रभुः सम्बन्धिताः सञ्चिकाः सन्ति। |