धर्मपुरीमण्डलम्
धर्मपुरी जनपदम् (Dharmapuri district) (तमिऴ् - தருமபுரி(தர்மபுரி) மாவட்டம்) दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं धर्मपुरीपत्तनम् । ऐतिहासिकतया अस्य नगरस्य ’तगडूरु’ इति नाम आसीत् ।
धर्मपुरि जनपदम् தருமபுரி(தர்மபுரி) மாவட்டம் | |||||||
— धर्मपुरी — | |||||||
निर्देशाङ्काः
१२°७′३३.६″ उत्तरदिक् ७८°९′१४.४″ पूर्वदिक् / 12.126000°उत्तरदिक् 78.154000°पूर्वदिक् | |||||||
देशः | भारतम् | ||||||
राज्यम् | तमिळ्नाडु | ||||||
उपमण्डलम् | धर्मपुरी, पालक्कोडु, हरूरु, पेण्णगरम्, पाप्पिरेड्डिपट्टि. | ||||||
केन्द्रप्रदेशः | धर्मपुरी | ||||||
बृहत्तमं नगरम् | धर्मपुरी | ||||||
बृहत्तमं महानगरम् | धर्मपुरी | ||||||
Collector | R. Lilly, IAS | ||||||
Superintendent of Police | Amit Kumar Singh, IPS | ||||||
व्यावहारिकभाषा(ः) | Tamil | ||||||
---|---|---|---|---|---|---|---|
समयवलयः | IST (UTC+05:30) | ||||||
Central location: | १२°७′ उत्तरदिक् ७८°९′ पूर्वदिक् / 12.117°उत्तरदिक् 78.150°पूर्वदिक् | ||||||
सङ्केताः
| |||||||
जालस्थानम् | Official website of Dharmapuri District |
इतिहासः
सम्पादयतुतगडुरुप्रदेशस्य (अद्यतनधर्मपुरी) विज्ञातः प्राचीनतमः प्रशासकः सङ्गमकालस्य आदियमान् नेडुमान् अञ्जिः । तस्य आश्रये एव प्रसिद्धा कवयित्री अव्वैयार् आसीत् । अग्रे अस्य प्रदेशस्य उल्लेखः क्रिस्तीये अष्टमशतके श्रूयते, यदा सेलं मण्डलस्य उत्तरभागाः पल्लवप्रशासने आसन् । ततः गङ्गपल्लवाः ’सेलं’ मण्डलस्य पश्चिमभागान् अपि जितवन्तः । अष्टमशतकस्य अन्ते पश्चिमगङ्गाः बारामहलस्य अपि प्रशासकाः आसन् इति श्रूयते ।
नवमशतकस्य आरम्भे राष्ट्रकूटाः बलं प्राप्य अग्रिमयोः द्वयोः शतमानयोः अस्मिन् मण्डले प्रभावयुताः आसन् । ततः सेलम् मण्डलस्य पूर्णः भागः चोळैः जितः । तदा गङ्गवाडी चोळप्रशासनस्य भागः भूत्वा अडिगमान् तगडूरस्य अधीनतया स्थापितम् । द्वादशशतके चोळानाम् अवनतिः अभवत् । होय्सळाः प्रबलाः भूत्वा चोळान् गङ्गवाडीतः प्रभ्रष्टान् कृतवन्तः । तदा यद्यपि बारामहल् तथा तलघाट् प्रदेशौ चोळप्रशासने एव शिष्टौ, तथापि अडिगमान् प्रदेशः प्रायः स्वतन्त्रः अभवत् । नाममात्रेण तत्र चोळानां प्रभावः आसीत् ।
चतुर्दशे शतके विजयनगरसाम्राज्यस्य उदयः अभवत् । १३६५-६६ समये प्रथमः बुक्कराजः मधुरैप्रदेशस्य देहलीसुल्तानान् पराजितवान् । ततः सेलं प्रदेशः विजयनगरसाम्राज्यस्य अधीनः अभवत् । ताळीकोटे टसमरानन्तरं चेन्नपत्तनस्य जगदीशरायः मैसूरुप्रान्तेन सह बारामहलम् अपि शासितवान् । सप्तदशशतके तिरुमलनायकस्य आधिपत्ये मधुरैनायकाः एतं प्रदेशं स्वाधीनं कृतवन्तः । तिरुमलनायकं प्रति निष्ठानां पोलिगराणां शासने अयं प्रदेशः स्थापितः । पोलिगरेषु अन्यतमः रामचन्द्रनायकः नामक्कल् दुर्गं निर्मितवान् इति श्रूयते ।
श्रीरङ्गपत्तणस्य कण्ठीरवनरसराजः १६५४ तमे वर्षे बारामहल्, पेण्णगरं, डेङ्कनिकोट्ट तथा धर्मपुरीप्रदेशान् जितवान् । ततः किञ्चनकालं बारामहलप्रदेशः मराठैः शासितः । पुनः १६८८-८९ वर्षे मैसूरुराजः चिक्कदेवरायः सम्पूर्णं सेलं मण्डलं स्वायत्तीकृतवान् । १७०४ तमे वर्षे तस्य निधनानन्तरं १७१४ तमे वर्षे कडपानवाबः अब्दुल् नबि खानः बारामहलस्य अधिपतिः अभवत् । १७५० समये हैदर् आलि एतं प्रदेशं जितवान् । ततः १७६७ तमे वर्षे अयं प्रदेशः ब्रिटिषैः जितः । पुनः शीघ्रमेव हैदर् आलि ब्रिटिषान् पराजित्य एतान् प्रदेशान् प्राप्तवान् । तस्य पुत्रस्य टिप्पू सुल्तानस्य काले सम्भूतस्य शान्तिसन्धानस्य फलत्वेन बालघाट् तथा होसूरुप्रदेशम् अतिरिच्य प्रायेण पूर्णं सेलं मण्डलं ब्रिटिषानाम् अधीनम् अभवत् । प्रथमः ब्रिटिष् समाहर्ता कृष्णगिरिं स्वस्य केन्द्रस्थानम् अकरोत् । १७९९ तमे वर्षे सम्भूतस्य अन्तिममैसूरुसमरस्य अनन्तरं होसूरुप्रदेशस्य शिष्टाः भागाः अपि ब्रिटिषानाम् अधीनाः अभवन् । अद्यतनधर्मपुरीप्रदेशः तदा सेलंमण्डलस्य एव भागः आसीत् । १९४७ पर्यन्तम् अपि धर्मपुरी सेलं मण्डलस्य उपजनपदम् आसीत् । १९६५ तमे वर्षे अक्टोबर् मासस्य द्वितीये दिनाङ्के धर्मपुरीमण्डलं निर्मितम् । अस्य केन्द्रस्थानम् अभवत् धर्मपुरीपत्तनम् ।
२००४ तमवर्षस्य सेप्टम्बर् मासस्य द्वितीय दिनाङ्के धर्मपुरीमण्डलं धर्मपुरी तथा कृष्णगिरिः इति द्वेधा विभक्तम् ।
भौगोलिकम्
सम्पादयतुधर्मपुरीमण्डलस्य विस्तारः ४४९७.७७ चतुरश्रकिलोमीटर् । अस्य उत्तरदिशे कृष्णगिरिमण्डलमं, पूर्वत्र तिरुवण्णामलै, विलुप्पुरमण्डलं, दक्षिणे सेलं मण्डलं, पश्चिमभागे कर्णाटकराज्यस्य चामराजनगरजनपदम् अस्ति । पूर्णं मण्डलं पर्वतैः अरण्यैः च आवृतम् अस्ति । अत्रत्यः वायुगुणः प्रायेण उष्णः भवति । मार्च् मासतः मेमासपर्यन्तम् औष्ण्यम् अत्यधिकं भवति । एप्रिल्मासे अधिकतमः ३८.० सी उष्णांशः भवति । डिसेम्बर्मासतः फ़ेब्रवरीमासपर्यन्तं उष्णता मन्दीभवति । जनवरीमासे न्यूनतमः ११० सी उष्णांशः भवति ।
जनसंख्या
सम्पादयतु२०११ जनगणनानुगुणं धर्मपुरीमण्डले १,५०२,९०० जनाः वसन्ति । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या धर्मपुर्याः ३३४ तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरस्रकिलोमीटर् ३३२ निवासिनः (प्रतिचतुरश्रमैल् ८६० जनाः) । २००१-२०११ दशके जनसंख्यावृद्धिः १६.०४% आसीत् । धर्मपुर्यां पुं, स्त्री अनुपातः १०००:९४६ अस्ति, साक्षरताप्रमाणं च ६४.७१% ।
उपमण्डलानि
सम्पादयतुधर्मपुरीमण्डले पञ्च उपमण्दलानि सन्ति ।
- धर्मपुरी
- पालक्कोडु
- हरूरु
- पेण्णगरम्
- पाप्पिरेड्डिपट्टि
कृषिः वाणिज्यं च
सम्पादयतुराज्यस्य प्रमुखेषु फलशाकोत्पादकेषु प्रदेशेषु धर्मपुरीजनपदम् अपि अन्यतमम् । अत्र अनावृष्टिः काले काले भवति । अतः वृष्टिं विना रोढुं समर्थानां फलानां कृषिः अधिकतया दृश्यते । अत्रत्यं प्रमुखम् उत्पादनम् आम्रफलानाम् । मण्डलस्य प्रायः १/३ प्रदेशे आम्रकृषिः दृश्यते । राज्यस्य ५०% आम्रफलानि अत्रैव रुह्यन्ते । पालक्कोडुप्रदेशे टोमेटोकृषिः भवति । पेण्णगरप्रदेशे मरीचिकाकृषिः दृश्यते । पेण्णगरे हरूरु, पालक्कोडुप्रदेशयोः च उत्तमविधः कृष्णवर्णीयः ग्रानैट् खनिजः अपि लभ्यते । क्वार्ट्ज़् खनिजः पेण्णगर उपमण्डलस्य केण्डिगनपळ्ळिग्रामे, हरूरुतालुकायाः वेलम्पट्टिग्रामे, पाप्पिरेड्डिपट्टितालुकायाः पेद्दम्पट्टिग्रामे च लभ्यते । हरूरुप्रदेशे अमूल्यः मालिब्डिनं खनिजः अपि लभ्यते । अयं खनिजः उत्तमः संवाहकः ।
वीक्षणीयस्थलानि
सम्पादयतुहोगेनक्कल् जलपातः
सम्पादयतुइदं धर्मपुरीमण्डलस्य प्रमुखं प्रवासिस्थानम् । धर्मपुर्याः ४६ किलोमीटर् दूरे कर्णाटकस्य सीमायाम् अयं जलपातः अस्ति । होगेनक्कल् प्रदेशे कावेरीनदी महता प्रवाहेण तमिऴ्नाडुराज्यं प्रविशति । तया नद्या अत्र नैसर्गिकः जलपातः निर्मितः । कन्नडभाषया होगेनक्कल् इत्यस्य पदस्य ’धूमावृतशिला’ इत्यर्थः । यदा जलम् अधः शिलायां सरभसं पतति, तदा उत्थिताः जलकणाः धूमसदृशाः भवन्ति । तेन शिलाः धूमावृताः इव दृश्यन्ते । होगेनक्कल् प्रदेशे जलं विस्तृततया प्रवहति । अत्र तरीभिः यानं सम्भवति । ‘परिसल्’ इति प्रसिद्धया तर्या यानं रोमाञ्जकम् अनुभवं जनयति । होगेनक्कल्प्रदेशं परितः बहवः गिरयः सन्ति, यैः प्रदेशस्य सौन्दर्यं वर्धते । जलपाते स्नानं कर्तुं शक्यम् । स्थलीयजनैः अभ्यञ्जनम् अपि क्रियते आसक्तानां प्रवासिनाम् । कावेरीनदी आवर्षं प्रवहति इत्यतः वर्षे यदा कदापि अयं जलपातः द्रष्टुं शक्यः । धर्मपुरीतः तथा कृष्णगिरेः होगेनक्कलं प्राप्तुं वाहनव्यवस्था अस्ति ।
तीर्थमलै देवालयः
सम्पादयतुधर्मपुरीमण्डलस्य हरूरुतालुकायां तीर्थमलै पवित्रं क्षेत्रम् । गिरेः उपरि श्रीतीर्थगिरीश्वरस्य देवालयः अस्ति । चोळराजाः विजयनगरराजाः च एतं देवालयं प्रति भूरि धनं दत्तवन्तः । महाशिवरात्रिदिने बहवः भक्ताः अत्र आगच्छन्ति । भक्तानां कृते प्रवासोद्यमविभागेन निर्मितानि वासभवनानि सन्ति । धर्मपुरीमण्डले तीर्थमलै प्रमुखं प्रवासिस्थानम् इति निर्दिष्टम् अस्ति ।
आदियमान्कोट्टै
सम्पादयतुइयं तगडूरुप्रदेशस्य प्राचीनप्रशासकानां आदियमान् वंशस्थानां राजधानी आसीत् । सेलम्, धर्मपुरीमार्गे धर्मपुर्याः ७ किलोमीटर् दूरे अस्ति इदम् । अण्डाकारस्य दुर्गस्य अवशेषाः अद्यापि द्रष्टुं शक्याः । अत्रत्येषु देवालयेषु चेन्नराय पेरुमाळ् देवालयः बृहत्तमः । कृष्णदेवरायेन, होय्सळराजैः वा निर्मितः अयं देवालयः इति श्रूयते । इदं संरक्षितं स्मारकम् । देवालयस्य अन्तच्छदे महाभारतस्य, विश्वरूपदर्शनस्य, रामायणस्य च चित्राणि चित्रितानि सन्ति । सर्वाणि चित्राणि त्रयोदशशतकस्य सन्ति ।
सुब्रह्मण्यशिवस्मारकम्
सम्पादयतुपेण्णगरतालुकायाः पाप्पारप्पट्टिपत्तने प्रसिद्धस्य देशभक्तस्य सुब्रह्मण्यशिवस्य स्मारकं निर्मितम् अस्ति ।
सर् थामस् मन्रो स्तम्भः
सम्पादयतुसर् थामस् मन्रो एप्रिल् १७९२ तः मार्च् १७९९ पर्यन्तं बारामहले आयाधिकारिणः सहायकः आसीत् । धर्मपुर्याः कृते तस्य सहयोगस्य स्मरणार्थं मद्रास् सर्वकारेण अयं स्तम्भः निर्मितः । समीपे एव तस्य गृहम्, उद्यानं च अस्ति ।
बाह्यसम्पर्कतंतुः
सम्पादयतु- Dharmapuri District's Government website Archived २०११-०७-२१ at the Wayback Machine
- Dharmapuri District's Support website