नमिनाथः ( /ˈnəmɪnɑːθəhə/) (हिन्दी: नमिनाथ,आङ्ग्ल: Naminatha) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु एकविंशतितमः तीर्थङ्करः अस्ति । भगवतः नमिनाथस्य वर्णः सुवर्णः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं नीलकमलम् अस्ति ।

नमिनाथः
एकविंशतितमः जैनतीर्थङ्करः
Sri Arishth Neminath Bhagwan, Santhu.JPG
नमिनाथस्य प्रतिमा
विवरणम्
परिवारः
पिता विजयः
माता वप्रा
वंशः इक्ष्वाकुः
स्थानम्
जन्म मिथिला
निर्वाणम् सम्मेदशिखरम्
लक्षणम्
वर्णः सुवर्णः
चिह्नम् नीलकमलम्
औन्नत्यम् १५ धनुर्मात्रात्मकम् (४५ मीटर्)
आयुः १०,००० वर्षाणि
शासकदेवः
यक्षः भृकुटी
यक्षिणी गान्धारी
जैनधर्मः
In-jain.svg
जैनध्वजः
Jain Prateek Chihna.svg
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी

कौमारावस्थायां नमिनाथस्य शरीरस्य औन्नत्यं पञ्चदश(१५)धनुर्मात्रात्मकम् आसीत्[१] । भगवतः धार्मिकपरिवारे “भ्रकुटी” इत्याख्यः यक्षः, “गान्धारी” इत्याख्या यक्षिणी च आसीत् । भगवान् नमिनाथः इक्ष्वाकुवंशीयः, काश्यपगोत्रीयश्चासीत् ।

जन्म, परिवारश्चसम्पाद्यताम्

देवलोकस्य आयुष्यं समाप्य मिथिला-नगर्याम् आषाढ-मासस्य कृष्णपक्षस्य अष्टम्यां तिथौ अश्विनी-नक्षत्रे भगवान् नमिनाथः अवतीर्णः ।

नमिनाथस्य पिता विजयः, माता च वप्रा आसीत् । विजयः मिथिला-नगर्याः राजा आसीत् । राजा विजयः राज्यसञ्चालने श्रेष्ठः आसीत् । एकदा आश्विन-मासस्य शुक्लपक्षस्य पौर्णिमायां तिथौ अश्विनी-नक्षत्रे रात्रौ वप्रया तीर्थङ्करत्वसूचकाः चतुर्दश स्वप्नाः दृष्टाः । द्वौ अतीव प्रसन्नौ अभवताम् । तौ स्वप्नानां फलं न जानीतः स्म । तथापि स्वप्नान् दृष्ट्वा राज्ञी प्रफुल्लिता जाता ।

आगामिदिवसे राजा स्वप्नशास्त्रिणः आहूतवान् । स्वप्नशास्त्रिभिः चतुर्दशस्वप्नानां फलम् उक्तम् यत् – “एते स्वप्नाः साधारणाः न सन्ति । कस्यचित् तीर्थङ्करस्य जन्म भविष्यति” इति स्वप्नाः सूचयन्ति । स्वप्नानां फलादेशं श्रुत्वा राजा, राज्ञी चेत्येतौ द्वौ प्रसन्नौ अभवताम् । राज्ये आनन्दस्य वातावरणम् अभवत् । शुभसमाचारं प्राप्य राज्ञा सम्पूर्णे राज्ये दानं कृतम् ।

नवमासानन्तरं भगवतः नमिनाथस्य जन्म अभवत् । प्रसवः अपि पीडारहितः अभवत् । यदा प्रसवः अभवत्, तदैव इन्द्राः आगतवन्तः आसन् । तस्मिन् समये एव इन्द्राः नवजातशिशुं सुमेरुपर्वते पाण्डुकवनं नीतवन्तः । तत्र तैः इन्द्रैः शिशोः उपरि जलाभिषेकः कृतः । पुनश्च इन्द्राः तं शिशुं मातुः क्रोडे स्थापितवन्तः ।

यदा राज्ञः पुत्रजन्मनः सन्देशः प्राप्तः, तदा पुत्रप्राप्त्याः आनन्दितेन राज्ञा राज्ये पुत्रोत्सवस्य आयोजनं कृतम् । तस्मिन् उत्सवे राजा जनेभ्यः दानं करोति स्म । राज्ये एकादशदिवसात्मकः उत्सवः आचरितः । पुत्रोत्सवे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः चापि समुपस्थिताः आसन् । देवैः, इन्द्रैः च बालकाय आशीर्वादाः प्रदत्ताः ।

पूर्वजन्मसम्पाद्यताम्

जम्बूद्वीपस्य पश्चिममहाविदेहे भरतविजये कौशाम्बी-नामिका नगरी आसीत् । कौशाम्बी-नगर्याः कश्चन सिद्धार्थः नामकः राजा आसीत् । तस्य राज्ये जनेभ्यः उत्तमा व्यवस्था आसीत् । पारस्परिकाः विग्रहाः अपि समाप्ताः अभवन् । राज्ये कस्यापि वस्तुनः अभावः नासीत् । सर्वे नागरिकाः सन्तुष्टाः आसन् ।

एकदा सिद्धार्थः संसारस्य नश्वरतायाः चिन्तनं कुर्वन् आसीत् । संसारस्य विषये विचिन्त्य सः विरक्तः जातः । सिद्धार्थस्य मनसि वैराग्यस्य भावना जागृता । तस्मिन् दिने एव सिद्धार्थेन श्रुतं यत् – “नन्दन-नामकः कश्चन मुनिः नगरस्य उद्यानं प्राप्तवान्” । सिद्धार्थः त्वरितमेव मुनेः दर्शनं कर्तुं प्रस्थितवान् । मुनेः दर्शनं कृत्वा सिद्धार्थस्य मनसि दीक्षाम् अङ्गीकर्तुं विचारः आगतः ।

सिद्धार्थेन उत्तराधिकारिणः राज्याभिषेकं कृत्वा, तस्मै राज्यस्य दायित्वं प्रदत्तम् आसीत् । अनन्तरं सिद्धार्थः नन्दनमुनेः दीक्षाम् अङ्गीकृतवान् । ततः परं सिद्धार्थेन विविधाः तपस्याः, साधनाः च कृता । सः रुग्णानां साधूनां सेवां कुर्वन् आसीत् । सञ्चितकर्मणां महानिर्जरया तीर्थङ्करगोत्रस्य बन्धनं कृतम् । अन्ते तेन अनशनपूर्वकं मोक्षः प्राप्तः । सः स्वर्गलोकस्य अपराजित-नामके महाविमाने महर्धिकः देवः अभवत् ।

नामकरणम्सम्पाद्यताम्

भगवतः नमिनाथस्य जन्मनः एकादशदिनानाम् अनन्तरं राज्ञा विजयेन नामकरणसंस्कारविधिः आयोजितः । तस्मिन् दिने जनैः उत्सवः अपि आचरितः आसीत् । स्वर्गलोकात् अपि बहवः देवाः समागताः । चतुष्षष्टिः इन्द्रैः, लोकान्तिकदेवैः चापि उत्सवः आचरितः आसीत् । उत्सवे तेषां देवानाम् उपस्थितिः आवश्यकी वर्तते । राज्यस्य नागरिकाः अपि प्रसन्नाः आसन् ।

नामकरणोत्सवे बालकस्य नामकरणं क्रियते । अतः राजा नामकरणाय देवतानां, जनानां च परामर्शं पृष्टवान् । वप्रा बालकं नीत्वा आयोजितं स्थलं प्राप्तवती । बालकं दृष्ट्वा जनाः स्तब्धाः अभवन् । बालकस्य शरीरे महत्तेजः दृश्यते स्म । नामकरणाय सर्वैः स्वमतानि प्रदत्तानि आसन् ।

गर्भकालस्य घटनां विचार्य राज्ञा स्वस्य विचारः उक्तः यत् – “अस्माकं राज्यमिदानीं निष्कण्टकं वर्तते । किन्तु नवमासेभ्यः प्राक् अस्माकं राज्यं विपत्तिग्रस्तम् आसीत् । भवन्तः सर्वे जानन्ति यत् – अस्माकं राज्यं शत्रुभिः परिगृहीतम् आसीत् । ते शत्रवः साधारणाः नासन् । तेषां सैन्यबलस्य अपेक्षया अस्माकं सैन्यबलं न्यूनम् आसीत् । तदा अहं चिन्ताग्रस्तः आसम् । जनानां रक्षणं कथं करणीयम् ? इति मनसि चिन्ता आसीत् ।

अहं किमपि विचारयितुम् असमर्थः आसम् । तस्मिन् समये यदा वप्रादेव्या शत्रुसेनायां दृष्टिपातः कृतः, तदैव शत्रुनरेशस्य हृदयं परिवर्तितं जातम् । शत्रुराज्ञा स्वस्या सेना तत्रैव स्तब्धा । अनन्तरं शत्रुराजा तं युद्धं स्थगितवान् । साम्प्रतं तद्राज्यं मिथिलायाः मित्रराज्यम् अस्ति । इतः परं सः राजा पितृव्यः इव मे सम्माननं करोति । अयं प्रभावः गर्भस्थशिशोः एव आसीत् । अन्यथा अस्माकं पराजयः निश्चितः एव आसीत् । गर्भप्रभावादेव शत्रुराजा मैत्रीभावयुतः जातः । अतः अस्य बालकस्य नाम नमिकुमारः इति करणीयम्” । सर्वैः जनैः, देवैः च समर्थनं प्रदत्तम् । ततः आरभ्य एव नमिनाथः इति नाम्ना ख्यातः अस्ति ।

विवाहःसम्पाद्यताम्

भगवतः नमिनाथस्य बाल्यावस्था क्रीडायां व्यतीता । शनैः शनैः भगवान् कल्पवृक्षः इव विकसति स्म । यदा नमिकुमारः तारुण्यावस्थां प्राविशत्, तदा तस्य शरीरात् तेजः प्रस्फुटितम् । तस्य शरीरं रश्मिपुञ्जः इव दृश्यते स्म । भगवतः मनसि विरक्तेः भावः आसीत् । किन्तु राज्ञा विजयेन भगवतः नमिनाथस्य अनेकाभिः सुयोग्याभिः आर्यकुलस्य राजकन्याभिः सह विवाहः कारितः । नमिनाथस्य सुखानाम् उपभोगं कुर्वन् आसीत् ।

नमिनाथस्य विवाहानन्तरं राज्ञः विजयस्य मनसि राज्यात् निवृत्तेः विचारः आगतः । अतः सः योग्यावसरे नमिनाथस्य राज्याभिषेकं कृतवान्, नमिनाथाय राज्यस्य दायित्वं च प्रदत्तवान् । ततः परं विजयः दीक्षां प्रापत् । सः साधनां कर्तुं निर्गतवान् ।

राज्यम्सम्पाद्यताम्

नमिनाथः यदा राजा अभवत्, तावदेव सः श्रेष्ठतया शासनं करोति स्म । नमिनाथः अद्भूतरीत्या राज्यसञ्चालनं कुर्वन् आसीत् । राज्ये कस्यापि वस्तुनः अभावः एव नासीत्, अतः अपराधाः अपि न भवन्ति स्म । तेन कारणेन नमिनाथस्य राज्ये अपराधिनः अपि अल्पसङ्ख्यकाः आसन् । जनाः अपि आन्तरिकविवादान् स्वयम् एव निवारयन्ति स्म । कस्यचिदपि जनस्य दुःखं जनाः स्वदुःखं मन्यन्ते स्म । जनेषु स्वार्थभावना अपि प्रायशः लुप्ता जाता । राज्यस्य प्रत्येकः जनः राज्यस्य सम्प्रवर्धनाय, व्यवस्थायै च दायित्वं वहति स्म ।

जनेषु सम्पत्तेः, धनस्य च उन्मादः एव नासीत् । भगवतः नमिनाथस्य राज्ये सामूहिकजीवनस्य परम्परा आरब्धा । जनाः परस्परम् एव विवादानां निवारणं कुर्वन्ति स्म । राजा नमिनाथः अपि राज्यस्य सञ्चालनेन सन्तुष्टः आसीत् । राज्ञः मनसि सन्तोषः आसीत् । जनानाम् एकात्मतायाः कारणेन एव सम्पूर्णं राज्यं कुटुम्बम् इव प्रतिभाति स्म । राज्ये जनाः सुखिनः आसन् ।

राजत्यागः, दीक्षा चसम्पाद्यताम्

भगवता नमिनाथेन पञ्चसहस्रं वर्षाणि यावत् राज्यस्य सञ्चालनं कृतम् आसीत् । एकदा नमिनाथः अटितुमुपवनं गतवान् । तत्र द्वौ देवौ आगतौ । राजा नमिनाथः देवाभ्याम् आगमनस्य कारणं पृष्टवान् । तदा देवाभ्याम् उक्तं यत् – “जम्बूद्वीपस्य विदेहक्षेत्रे सुसीमा-नगर्याम् अपराजित-नामकः मुनिः अस्ति । सः सद्यः एव तीर्थङ्करपदं प्रापत् । यदा आवाभ्यां पृष्टं यत् - को अग्रिमः तीर्थङ्करः भविष्यति ? तदा तेन भवतः नाम उक्तम् । अतः आवां भवते सूचनां प्रदातुम् आगवन्तौ । देवयोः वचांसि श्रुत्वा राजा नमिनाथः विरक्तः जातः । यदा नमिनाथः दीक्षायाः कालं ज्ञातवान्, तदा स्वस्य उत्तराधिकारिणः राज्याभिषेकं कृत्वा तस्मै राज्यस्य दायित्वं प्रदत्तम् ।

तस्य मनसि वैराग्यस्य भावना उद्भूता । अनन्तरं परम्परानुसारं सः वार्षिकीदानं कर्तुं सज्जः अभवत् । स्वर्गलोकात् लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च तत्र समागताः । ततः परं भगवता नमिनाथेन वार्षिकीदानं कृतम् । एकवर्षं यावत् तेन वार्षिकीदानं कृतमासीत् । वार्षिकीदाने सुवर्णमुद्रिकाः दीयन्ते स्म । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।

राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः अभवन् । जनाः अपि दीक्षामङ्गीकर्तुं विचारितवन्तः । यतः राज्ञः स्वभावः शान्तः, प्रभावी च आसीत् । यदा वार्षिकीदानं पूर्णमभवत्, तदा ज्येष्ठ-मासस्य कृष्णपक्षस्य नवम्यां तिथौ अश्विनी-नक्षत्रे भगवान् नमिनाथः सहस्रजनैः सह मिथिला-नगरस्य सहस्राम्रोद्यानं प्राप्तवान् । उद्याने देवाः, इन्द्राः चापि समुपस्थिताः आसन् । सर्वेषां समक्षे भगवान् नमिनाथः दीक्षाम् अङ्गीकृतवान् । दीक्षायाः दिवसे भगवान् षष्ठ्याः तपः कृतवान् ।

अपरे दिने भगवान् नमिनाथः वीरपुरस्य राज्ञः दत्तस्य गृहे प्रथमं क्षीराहारं गृहीतवान् । दीक्षानन्तरं नवमासाः यावत् भगवान् नमिनाथः रहसि आसीत् । भगवता नमिनाथेन नवमासान् यावत् विविधाः तपस्याः, साधनाः च कृताः । सः पुनः मिथिला-नगर्याः सहस्राम्रोद्यानं प्राप्तवान् । तत्र बकुलवृक्षस्याधः तेन तपस्या कृता ।

मिथिला-नगर्यां मार्गशीर्ष-मासस्य कृष्णपक्षस्य एकादश्यां तिथौ अश्विनी-नक्षत्रे तस्मै कैवल्यज्ञानम् अभवत् [२]। तस्मिन् दिवसे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः, नगरजनाः च समुपस्थिताः आसन् । सर्वैः मिलित्वा केवलमहोत्सवस्य आयोजनं कृतम् । देवाः, इन्द्राः, नगरजनाः च कैवल्यमहोत्सवम् आचरितवन्तः ।

ततः परं भगवता नमिनाथेन प्रथमं प्रवचनं कृतम् । सहस्राधिकाः जनाः भगवतः नमिनाथस्य प्रवचनं श्रोतुं सहस्राम्रोद्यानं प्राप्तवन्तः । प्रवचने भगगता नमिनाथेन ’आगार’, ’अणगार’ च इत्येतयोः व्याख्या कृता । भगवतः प्रवचनं श्रुत्वा बहवः जनाः विरक्ताः अभवन् । जनाः दीक्षां स्वीकर्तुन् ऐच्छन् । बहवः जनाः धर्मस्य उपासनायाः नियमान् अङ्गीकृतवन्तः ।

धार्मिकः परिवारःसम्पाद्यताम्

यदा भगवान् नमिनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा नमिनाथेन धार्मिकपरिवारस्य अपि रचना कृता[३]

  1. १७ गणधराः
  2. १,६०० केवलज्ञानिनः
  3. १,२५० मनःपर्यवज्ञानिनः
  4. १,६०० अवधिज्ञानिनः
  5. ५,००० अवैक्रियलब्धिधारिणः
  6. ४५० चतुर्दशपूर्विणः
  7. १,००० चर्चावादिनः
  8. २०,००० साधवः
  9. ४१,००० साध्व्यः
  10. १,७०,००० श्रावकाः
  11. ३,४८,००० श्राविकाः


अयं भगवतः धार्मिकः परिवारः वर्तते । तेषु परिवारजनेषु त्रिचत्वारिंशत् गणधरेषु “शुभस्वामी” इत्याख्यः प्रथमः गणधरः आसीत् ।

निर्वाणम्सम्पाद्यताम्

दीर्घकालं यावत् भगवान् नमिनाथः धर्मसङ्घस्य प्रभावनां कुर्वन् आर्यजनपदि विचरति स्म । तीर्थङ्कराः त्रिकालज्ञानिनः भवन्ति । अतः पूर्वमेव तेभ्यः निर्वाणसमयस्य ज्ञानं भवति । यदा भगवता नमिनाथः अपि स्वस्य निर्वाणकालं ज्ञातवान्, तदा सः अनैकैः साधुभिः सह सम्मेदशिखरं गतवान् । तत्र नमिनाथेन एकमासं यावत् अनशनं कृतम् । सः एकमासं यावत् पुनः तपस्यां, साधनां च कृतवान् । एकमासानन्तरं तेन शैलेशीपदं प्राप्तम् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्मणां नाशः जातः । अनन्तरं तेन सिद्धत्वं प्राप्तम् आसीत् ।

एकमासस्य अनशनान्ते वैशाख-मासस्य कृष्णपक्षस्य दशम्यां तिथौ अश्विनी-नक्षत्रे सम्मेदशिखरे भगवतः नमिनाथस्य निर्वाणम् अभवत् । भगवता सह बहुभिः मुनिभिः अपि मोक्षः प्राप्तः आसीत् [४]

नमिनाथेन कौमारावस्थायां पञ्चविंशतिशतस्य वर्षाणां, राज्ये पञ्चसहस्रस्य वर्षाणां, दीक्षायां पञ्चविंशतिशतस्य वर्षाणां च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने एकलक्षं वर्षाणि भुक्तानि आसन् [५]

मुनिसुव्रतनाथस्य निर्वाणानन्तरं षड्लक्षवर्षाणाम् अनन्तरं नमिनाथस्य मोक्षः अभवत् ।

जैनतीर्थङ्कराः
  पूर्वतनः
मुनिसुव्रतः
नमिनाथः अग्रिमः
नेमिनाथः
 

सम्बद्धाः लेखाःसम्पाद्यताम्

  1. जैनधर्मः
  2. दिगम्बरः सम्प्रदायः
  3. श्वेताम्बरः सम्प्रदायः
  4. भिक्षुः आचार्यः
  5. पुराणानि

बाह्यसम्पर्कतन्तुःसम्पाद्यताम्

सन्दर्भाःसम्पाद्यताम्

  1. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. ११४
  2. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. ११५
  3. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १३९
  4. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. ११४
  5. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १४०

 अधिकवाचनायसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=नमिनाथः&oldid=321874" इत्यस्माद् प्रतिप्राप्तम्