मल्लिनाथः
मल्लिनाथः ( ( शृणु) /ˈməllɪnɑːθəhə/) (हिन्दी: मल्लिनाथ,आङ्ग्ल: Mallinatha) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु एकोनविंशतितमः तीर्थङ्करः अस्ति । भगवतः मल्लिनाथस्य वर्णः नीलः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं कुम्भः अस्ति । भगवान् मल्लिनाथः इक्ष्वाकुवंशीयः, काश्यपगोत्रीयश्चासीत् ।
मल्लिनाथः | |
---|---|
एकोनविंशतितमः जैनतीर्थङ्करः | |
मल्लिनाथस्य प्रतिमा | |
विवरणम् | |
परिवारः | |
पिता | कुम्भः |
माता | प्रभावती |
वंशः | इक्ष्वाकुः |
स्थानम् | |
जन्म | मिथिला |
निर्वाणम् | सम्मेदशिखरम् |
लक्षणम् | |
वर्णः | नीलः |
चिन्हम् | कुम्भः |
औन्नत्यम् | २५ धनुर्मात्रात्मकम् (७५ मीटर्) |
आयुः | ५५,००० वर्षाणि |
शासकदेवः | |
यक्षः | कुबेरः |
यक्षिणी | धरणप्रिया |
जैनध्वजः | |
जैनधर्मस्य प्रतीकम् | |
धर्मावलम्बीनां संख्या | |
---|---|
प्रायः ५० लक्षजनाः | |
प्रवर्तकः | |
आदिनाथः | |
विस्तारः | |
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः | |
शिल्पकृतयः | |
जैनागमः | |
भाषा(ः) | |
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी |
एकोनविंशतितमः तीर्थङ्करः स्वयमेव एकः आश्चर्यः आसीत् । अन्ये तीर्थङ्कराः पुरुषशरीरधारिणः आसन् । किन्तु मल्लिनाथस्य स्त्रीशरीरे जन्म अभवत् । मल्लिनाथः मल्लिकुमारी नामिका स्त्री आसीत् । मल्लिकुमारी एव तीर्थङ्करत्वं प्राप्तवती आसीत् । तथापि दिगम्बर-मतानुसारं मल्लिनाथः इति नामकः पुरुषः मन्यते । स्त्रियां तावत् आत्मविश्वासः, पुरुषार्थः च अपि आश्चर्यम् एव गण्यते [१]।
कौमारावस्थायां मल्लिनाथस्य शरीरस्य औन्नत्यं पञ्चविंशति (२५) धनुर्मात्रात्मकम् आसीत्[२] । भगवतः धार्मिकपरिवारे “कुबेर” इत्याख्यः यक्षः, “धरणप्रिया” इत्याख्या यक्षिणी च आसीत् । भगवान् मल्लिनाथः आजीवनं सत्यस्य, अहिंसायाः च नियमानां पालनं कृतवान् । सः जनान् सत्यमार्गम् अनुसर्तुम् अवबोधयति स्म ।
जन्म, परिवारश्च
सम्पादयतुदेवायुष्यं समाप्य महाबलमुनेः जीवः पुनः मृत्युलोकम् आगतः । मिथिला-नगर्यां मार्गशीर्ष-मासस्य शुक्लपक्षस्य एकादश्यां तिथौ अश्विनी-नक्षत्रस्य मध्यरात्रौ भगवतः मल्लिनाथस्य जन्म अभवत् [३]।
मिथिलानगर्याः राजा कुम्भः आसीत् । कुम्भः मल्लिनाथस्य पिता आसीत्, माता च प्रभावती आसीत् । फाल्गुन-मासस्य शुक्लपक्षस्य चतुर्थ्यां तिथौ अश्विनी-नक्षत्रे रात्रौ प्रभावती तीर्थङ्करत्वसूचकान् चतुर्दश स्वप्नान् दृष्टवती । रात्रौ एव प्रभावती राज्ञे कुम्भाय चतुर्दशस्वप्नान् श्रावितवती । तस्यां रात्रौ एव भगवतः मल्लिनाथस्य जीवः प्रभावत्याः गर्भं प्राविशत् [४]।
आगामि-दिने राज्ञा स्वप्नशास्त्रिणः आहूताः । स्वप्नानां फलादेशाय स्वप्नशास्त्रमावश्यकं वर्तते । स्वप्नशास्त्रिणां पूजनं कृत्वा प्रभावती चतुर्दश स्वप्नान् श्रावितवती । स्वप्नशास्त्रिणः स्वप्नानां फलादेशं कृतवान् यत् – प्रभावतीदेव्याः गर्भे तीर्थङ्करः अस्ति ।
गर्भकालस्य समाप्त्यनन्तरम् एकस्याः पुत्र्याः जन्म अभवत् । सर्वदा पुरुषत्वेन एव तीर्थङ्करस्य जन्म भवति स्म । अयमेकः नियमविरुद्धः प्रसङ्गः आसीत् । तस्मिन् समये राजप्रासादेषु केवलं पुत्रजन्मनः एव उत्सवः आचर्यते स्म । किन्तु देवैः, चतुष्षष्टिः इन्द्रैः च कन्यायाः अपि उत्सवः आचरितः आसीत् । अतः राजा कुम्भः अपि स्वस्य आनन्दं, प्रसन्नतां च अवरोद्धुम् असमर्थः सन् सः अपि कन्यायाः जन्मोत्सवम् आचरितवान् । राज्ञा कुम्भेन प्रचलिता परम्परा उल्लङ्घिता । राज्ञा कुम्भेन पुत्र्याः जन्मोत्सवः अपि पुत्रजन्मोत्सवः इव आचरितः [५]।
ये बन्धिनः आसन्, तेभ्यः राजा मुक्तिम् अददात् । राज्ञा पुत्रीप्राप्त्याः प्रसन्नतायां सर्वेभ्यः दानं कृतवान् । नगरजनाः अपि प्रसन्नाः आसन् । एकादशदिनानि यावत् भगवतः मल्लिनाथस्य जन्मोत्सवः आचरितः ।
पूर्वजन्म
सम्पादयतुजम्बूद्वीपस्य पश्चिममहाविदेहस्य सलिलावतीविजये वीतशोका-नामिका काचन नगरी आसीत् । तस्याः नगर्याः राजा बलः आसीत् । राज्ञः बलस्य पत्नी धारिणी आसीत् । धारिणीदेवी एकं पुत्रम् अजीजनत् । तस्य नाम महाबलः इति कृतम् ।
यदा महाबलः यौवनावस्थां प्राविशत्, तदा राजा बलः पञ्चशतेन कन्याभिः सह तस्य विवाहम् अकारयत् । महाबलस्य कमलश्री-नामिका पत्नी आसीत् । बहुवर्षाणाम् अनन्तरं कमलश्रीः प्रथमं पुत्रम् अजीजनत् । सः पुत्रः बलभद्रः इति नाम्ना ख्यातः आसीत् ।
राजा बलः भवप्रपञ्चात् मुक्तिं प्राप्तुम् ऐच्छत् । अतः बलेन महाबलस्य राज्याभिषेकः कृतः । अनन्तरं महाबलाय राज्यस्य दायित्वं प्रदत्तम् आसीत् । बलः धर्मघोषाचार्यात् दीक्षां स्वीकृतवान् । दीक्षानन्तरं बलः साधनायै एकान्तं गतवान् । महाबलः शासनं प्राप्य राज्यस्य श्रेष्ठतया सञ्चालनं कुर्वन् आसीत् । महाबलस्य षण्मित्राणि आसन् । तानि - १ अचलः, २ धरणः, ३ पूरणः, ४ वसुः, ५ वैश्रवणः, ६ अभिचन्द्रः च ।
एकदा वीतशोका-नगर्याम् आचार्यः धर्मघोषः आगतवान् । तदा महाबलः राजा वैराग्यभावम् आपन्नः । अतः सः दीक्षां गृहीतुं सज्जः अभवत् । महाबलेन सह षण्मित्राणि अपि दीक्षां गृहीतुं सज्जाः अभवन् । सप्तजनैः धर्मघोषमुनेः दीक्षा गृहीता । दीक्षानन्तरं सर्वाणि मित्राणि निश्चितवन्ति यत् “सर्वे सहैव साधनां, तपस्यां च कुर्युः । यतः भविष्यत्काले अपि सर्वदा अस्माकं साहचर्यं भवेत् । इत्थं निश्चयं कृत्वा सर्वे सहैव साधनाम् आरब्धवन्तः ।
एकदा महाबलमुनेः मनसि विचारः प्रस्फुटितः यत् – “सप्तसु मित्रेषु मे स्थानं विशेषं वर्तते । किन्तु तपस्यायाः, अभिग्रहः इत्यादीनां समानतायाः कारणात् इदं वैशिष्ट्यं भविष्यत्काले न प्राप्स्यामि” । अहङ्कारवशात् महाबलेन अनुचितः निर्णयः कृतः । “सर्वेभ्यः मित्रेभ्यः विशिष्टः भवितुं कस्यचित् विशिष्टस्य तपसः आवश्यकता वर्तते” इति महाबलेन विचारितम् ।
यदा आहारदिनं भवति तदा महाबलस्य सर्वाणि मित्राणि आहारं स्वीकुर्वन्ति स्म । किन्तु महाबलः न स्वीकरोति स्म, त्यजति स्म च । अनेन प्रकारेण कृतेन छद्मपूर्वकेण तपसा, अहङ्कारेण, मायया च स्त्रीगोत्रस्य बन्धनम् अभवत् । विशिष्टतपस्यया तेन तीर्थङ्करगोत्रस्य बन्धनम् अपि कृतमासीत् । अन्ते महाबलः अनुत्तरलोकस्य वैजयन्तविमाने सर्वैः मुनिभिः सह देवस्वरूपम् अधरत् ।
शिशोः जन्मनः दशमे, एकादशे वा दिवसे नामकरणं क्रियते । राज्ञा कुम्भेन अपि बालिकायाः नामकरणप्रसङ्गे उत्सवः आयोजितः आसीत् । उत्सवे नगरजनाः, लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च समुपस्थिताः आसन् । तीर्थङ्कराणां सर्वेषु महोत्सवेषु इन्द्राणाम् उपस्थितिः आवश्यकी वर्तते एव ।
देवाः बालिकायै आशीर्वादान् अयच्छन् । अनन्तरं बालिकायाः नामकरणस्य चर्चा जाता । चर्चायां सर्वैः स्वविचाराः समुपस्थापिताः । राज्ञा कुम्भेन उक्तं यत् – “प्रभावतीदेवी यदा गर्भवती आसीत्, तदा प्रभावतीदेवी माल्यशय्यायां (पुष्पशय्या) शयितुम् ऐच्छत् । प्रभावतीदेव्याः इच्छा दैवैः, इन्द्रैः च पूर्णीकृता । अतः मन्ये अस्याः बालिकायाः नाम मल्लिकुमारी भवेत् इति । नगरजनाः, देवाः, इन्द्राः च सन्तुष्टाः आसन् । अतः सर्वे समर्थनं कृतवन्तः ।
मित्रेभ्यः प्रतिबोधः
सम्पादयतुयथा यथा मल्लिकुमार्याः वयः वर्धमानम् आसीत्, तथैव सौन्दर्यमपि वर्धमानम् आसीत् । मल्लिकुमार्याः सौन्दर्यस्य बहुप्रचारः अभवत् । यतः तस्याः सौन्दर्यमद्भुतम् आसीत् । “स्वस्य पूर्वभवस्य मित्राणि समीपस्थानां जनपदानां राजानः सन्ति” इति मल्लिकुमार्या अवधिज्ञानेन दृष्टम् । अतः तानि मित्राणि प्रतिबोधितुं मल्लिकुमार्या स्वस्याः उद्याने एकस्य मोहनगृहस्य निर्माणं कारितम् । तस्य भवनस्य मध्यभागे मल्लिकुमारी स्वरूपसदृश्याः एकस्याः स्वर्णमूर्तेः स्थापनाम् अकारयत् ।
मूर्तेः सम्मुखं तया षड्कक्षाः निर्मापिताः । सा मूर्तिः अन्तः रिक्ता आसीत् । मूर्तेः ग्रीवायाम् एकं लघुद्वारम् आसीत् । तद्वारम् उद्घाट्य मल्लिकुमारी प्रतिदिनम् एकम् एकं ग्रासं तस्यां मूर्तौ प्रक्षिपति स्म ।
समीपस्थैः षण्मित्रैः मल्लिकुमार्याः सौन्दर्यस्य प्रशंसा प्राप्ता । प्रशंसां श्रुत्वा मित्राणि अनुरक्तानि अभवन् । सर्वाणि मित्राणि मल्लिकुमार्या सह विवाहं कर्तुम् इच्छन्ति स्म । अतः विवाहस्य सन्देशान् प्रेषितवन्तः । किन्तु राज्ञा कुम्भेन ते सन्देशाः अवहेलिताः । राज्ञः निर्णयेन खिन्नाः समीपस्थाः राजानः युद्धं कर्तुं सूचनां प्रदत्तवन्तः ।
युद्धस्य सन्देशं प्राप्य राजा कुम्भः चिन्ताग्रस्तः जातः । “कथम् अहं षड्भिः राजभिः सह युद्धं करिष्ये” इति राजा कुम्भः अचिन्तयत् । तस्मिन् समये मल्लिकुमारी ततः गच्छन्ती आसीत् । तया चिन्ताग्रस्तः पिता दृष्टः । तदा तया उक्तं यत् – “किमर्थं भवान् युद्धस्य चिन्तां कुर्वन् अस्ति । अहम् अस्याः समस्याः निवारणं करिष्यामि । चिन्ता मास्तु” इति ।
पितुः आज्ञां नीत्वा मल्लिकुमारी षड्भ्यः राजभ्यः सन्देशं प्रदातुम् एकमेकं दूतं प्रेषितवती । अशोकवाटिकायां मेलितुं सा षड्राज्ञः आहूतवती । मल्लेश्वर्याः प्रस्तावं प्राप्य सर्वे राजानः प्रस्तावं स्वीकृतवन्तः । सर्वे राजानः मनसि विचारयन्तः आसन् यत् - “केवलम् अहमेव तया आहूतः अस्मि” ।
निश्चितसमये सर्वे राजानः पृथक् पृथक् द्वारैः पृथक् पृथक् खण्डेषु प्रविष्टवन्तः । पूर्वजन्मनि अपि महाबलस्य एतानि एव षण्मित्राणि आसन् । अस्मिन् जन्मनि तेषां नामानि –
- प्रतिबद्धः – सः साकेतपूरी-नामिकायाः नगर्याः राजा आसीत् ।
- चन्द्रभागः – अयं चम्पा-नामिकायाः नगर्याः राजा आसीत् ।
- रुक्मी – अयं कुणाला-नामिकायाः नगर्याः राजा आसीत् ।
- शङ्खः – वाराणसी-नगर्याः राजा अयं शङ्खः वर्तते ।
- अदीनशत्रुः - हस्तिनापुरस्य नगरस्य राजा अयं वर्तते ।
- जितशत्रुः – अयं कम्पिलपुरनगरस्य राजा वर्तते ।
सर्वे मित्रराजानः अशोकवाटिकायाः मोहनगृहं प्राप्तवन्तः । तत्रत्यां स्थापितां सुसज्जितां मूर्तिं दृष्ट्वा सर्वे राजानः चकिताः अभवन् । मूर्तिं दृष्ट्वा “मल्लिकुमारी अस्ति” इति राजानः अवागमन् । तस्मिन् समये एव मल्लिकुमार्या आगत्य मूर्त्याः छादनम् उद्घाटितम् । सहसा एव अवक्षयस्य अन्नस्य दुर्गन्धः विस्तृतः । तत् दुर्गन्धं सोढुम् अक्षमम् आसीत् ।
तस्मिन् एव समये मल्लिकुमारी उक्तवती यत् – “यदि प्रतिदिनम् एकेन अन्नग्रासेन यदि मूर्तौ दुर्गन्धः उद्भवति, तदा अस्माकं शरीरं तु अन्नभाण्डारं वर्तते । अस्मिन् शरीरे केवलम् अस्थीनि, मांसं, मलं, मूत्रं चैव अस्ति । तदा शरीरे किमर्थम् आसक्तिः ? भवन्तः सर्वे आसक्तिं त्यक्त्वा पूर्वजन्मनः अस्माकं मैत्रीं स्मरन्तु । पूर्वजन्मनि वयं सप्तमित्राणि आस्म । मम नाम महाबलः आसीत् । अस्माभिः मिलित्वा सिद्धं पदं प्राप्तव्यम् । मल्लिकुमार्याः प्रेरणात्मकानि वचनानि श्रुत्वा राजानः स्वं स्वं पूर्वजन्म स्मृतवन्तः । तस्मिन् काले एव सर्वे राजानः विरक्ताः अभवन् । अनन्तरं ते सर्वे दीक्षां प्राप्तुं सज्जाः अभवन् [६]।
दीक्षा
सम्पादयतुमल्लिकुमार्याः स्वीकृतिं प्राप्य षड्राजानः स्वराज्यं गतवन्तः आसन् । स्वराज्यं प्राप्य राजानः दीक्षां स्वीकर्तुं व्यवस्थां चक्रुः । मल्लिकुमार्या अपि दीक्षां गृहीतुं घोषणा कृता ।
सा वार्षिकीदानं कर्तुं व्यवस्थां चकार । स्वर्गलोकात् लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च तत्र आगताः । ततः परं भगवत्या मल्लिदेव्या वार्षिकीदानं कृतम् । वार्षिकीदानम् एकवर्षं यावत् क्रियते । अतः एकवर्षं यावत् तया वार्षिकीदानं कृतम् आसीत् । वार्षिकीदाने सुवर्णमुद्रिकाः दीयन्ते स्म । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।
यदा वार्षिकीदानं समाप्तं जातं, तदा मार्गशीर्ष-मासस्य शुक्लपक्षस्य एकादश्यां तिथौ अश्विनी-नक्षत्रे भगवती मल्लिदेवी त्रिशतेन स्त्रिभिः, त्रिशतेन पुरुषैः च सह मिथिला-नगरस्य सहस्राम्रोद्यानं गतवती । तत्र देवाः, इन्द्राः चापि समुपस्थिताः आसन् । सर्वेषां समक्षं भगवत्या मल्लिदेव्या दीक्षा गृहीता । दीक्षानन्तरं तया त्वरिमेव तपः आरब्धम् ।
दीक्षायाः दिवसे तस्यै अठ्ठमस्य व्रतम् आसीत् । दीक्षायाः अपरे दिने भगवत्या मल्लिदेव्या मिथिला-नगर्याः राज्ञः विश्वसेनस्य गृहे आहारः गृहीतः । दीक्षायां स्वीकृतायां सत्यां सा मनःपर्यवज्ञानी अभवत् । तस्य दिवसस्य तृतीये प्रहरे एव तस्यै कैवल्यज्ञानम् अभवत् । तस्याम् अवसर्पिण्यां सर्वेषु तीर्थङ्करेषु भगवत्या मल्लिदेव्या एव स्वल्परहस्यावस्थायां कैवल्यज्ञानं प्राप्तम् आसीत् ।
तीर्थङ्करेषु केवलं मल्लिदेव्या एव दीक्षायाः दिवसे सर्वज्ञता प्राप्ता आसीत् । तस्मिन् दिवसे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः, नगरजनाः च समुपस्थिताः आसन् । सर्वैः मिलित्वा केवलमहोत्सवस्य आयोजनं कृतम्, उत्सवः आचरितः च ।
ततः परं सः मल्लिनाथः इति नाम्ना प्रसिद्धा जाता । भगवता मल्लिनाथेन समवसरणदिने प्रथमं प्रवचनं कृतम् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः संसारसागरात् निवृत्तिं प्राप्तवन्तः । भगवतः मल्लिनाथस्य प्रवचनस्य तादृशः प्रभावः आसीत्, येन जनाः मुग्धाः, तल्लीनाः च अभवन् ।
धार्मिकः परिवारः
सम्पादयतुयदा भगवान् मल्लिनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा मल्लिनाथेन धार्मिकपरिवारस्य अपि रचना कृता[७]।
- २७ गणधराः
- २,२०० केवलज्ञानिनः
- १,७५० मनःपर्यवज्ञानिनः
- २,२०० अवधिज्ञानिनः
- २,९०० अवैक्रियलब्धिधारिणः
- ६६८ चतुर्दशपूर्विणः
- १,४०० चर्चावादिनः
- ४०,००० साधवः
- ५५,००० साध्व्यः
- १,८३,००० श्रावकाः
- ३,७०,००० श्राविकाः
अयं भगवतः धार्मिकः परिवारः वर्तते । तेषु परिवारजनेषु षड्त्रिंशत् गणधरेषु “अभीक्षस्वामी” इत्याख्यः प्रथमः गणधरः आसीत् ।
निर्वाणम्
सम्पादयतुयदा भगवान् मल्लिनाथः स्वस्य निर्वाणसमयं ज्ञातवान् आसीत्, तदा सः सहस्रसाधुभिः सह सम्मेदशिखरं गतवान् । तत्र सः एकमासं यावत् अनशनञ्चकार । तेन एकमासं यावत् पुनः तपस्या, साधना च कृता । एकमासानन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्मणां नाशः अभवत् । अनन्तरं सः सिद्धत्वं प्रापत् ।
अनन्तरम् एकमासस्य अनशनान्ते फाल्गुन-मासस्य शुक्लपक्षस्य द्वादश्यां तिथौ भरणी-नक्षत्रे सम्मेदशिखरे भगवतः मल्लिनाथस्य निर्वाणम् अभवत् । भगवता सह बहवः मुनयः अपि मोक्षं प्रापन् [८]। इन्द्रादिभिः देवैः भगवतः मल्लिनाथस्य मोक्षकल्याणकमहोत्सवः आचरितः ।
मल्लिनाथेन कौमारावस्थायां शतवर्षाणां, दीक्षायां नवशताधिकचतुःपञ्चाशतवर्षाणां च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने पञ्चपञ्चाशतं वर्षाणि भुक्तानि आसन् [९]।
भगवतः अरनाथस्य निर्वाणस्य कोटिवर्षानन्तरं भगवान् मल्लिनाथः मोक्षं प्रापत् ।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये मल्लिनाथः सम्बन्धिताः सञ्चिकाः सन्ति। |
- चौबीस तीर्थङ्कर
- तीर्थङ्कर Archived २०१५-०५-२३ at the Wayback Machine
- जैन पूजा – मल्लिनाथ
- श्री मल्लिनाथ भगवान Archived २०१६-०३-०५ at the Wayback Machine
सन्दर्भाः
सम्पादयतु- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १२८, १३२
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 110
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १३३
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. १०८
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १२९
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १२९-१३०
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १३२
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. ११०
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १३३