मुनिसुव्रतः
मुनिसुव्रतनाथः( ( शृणु) /ˈmʊnɪsʊvrətəhə/) (हिन्दी: मुनिसुव्रतनाथ,आङ्ग्ल: Munisuvratnatha) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु विंशतितिमः तीर्थङ्करः अस्ति । भगवतः मुनिसुव्रतनाथस्य वर्णः श्यामः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं कूर्मः च अस्ति । भगवान् मुनिसुव्रतनाथः हरिवंशीयः, गौतमगोत्रीयश्चासीत् ।
मुनिसुव्रतनाथः | |
---|---|
विंशतितमः जैनतीर्थङ्करः | |
मुनिसुव्रतनाथस्य प्रतिमा | |
विवरणम् | |
परिवारः | |
पिता | सुमित्रः |
माता | पदमावती |
वंशः | हरिवंशः |
स्थानम् | |
जन्म | राजगृह |
निर्वाणम् | सम्मेदशिखरम् |
लक्षणम् | |
वर्णः | कृष्णः |
चिह्नम् | कूर्मः |
औन्नत्यम् | २० धनुर्मात्रात्मकम् (६० मीटर्) |
आयुः | ३०,००० वर्षाणि |
शासकदेवः | |
यक्षः | वरुणः |
यक्षिणी | नरदत्ता |
जैनध्वजः | |
जैनधर्मस्य प्रतीकम् | |
धर्मावलम्बीनां संख्या | |
---|---|
प्रायः ५० लक्षजनाः | |
प्रवर्तकः | |
आदिनाथः | |
विस्तारः | |
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः | |
शिल्पकृतयः | |
जैनागमः | |
भाषा(ः) | |
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी |
कौमारावस्थायां मुनिसुव्रतनाथस्य शरीरस्य औन्नत्यं विंशति (२०) धनुर्मात्रात्मकम् आसीत्[१] । भगवतः धार्मिकपरिवारे “वरुण” इत्याख्यः यक्षः, “नरदत्ता” इत्याख्या यक्षिणी आसीत् । भगवान् मुनिसुव्रतनाथः आजीवनं सत्यस्य, अहिंसायाः च नियमानां पालनं कृतवान् । सः जनान् सत्यमार्गम् अनुसर्तुम् अवबोधयति स्म ।
जन्म, परिवारश्च
सम्पादयतुदेवायुष्यं समाप्य भगवतः मुनिसुव्रतनाथस्य जीवः पुनः मृत्युलोकम् आगच्छत् । भरतक्षेत्रस्य राजगृह-नामिका नगरी आसीत् । तस्यां नगर्यां वैशाख-मासस्य कृष्णपक्षस्य अष्टम्यां तिथौ श्रवण-नक्षत्रस्य मध्यरात्रौ भगवतः मुनिसुव्रतनाथस्य जन्म अभवत् [२]।
सुमित्र-नामकः राजगृहनगर्याः राजा आसीत् । सुमित्रः मुनिसुव्रतनाथस्य पिता आसीत्, माता च पद्मावती आसीत् । श्रावण-मासस्य शुक्लपक्षस्य पौर्णिमायां तिथौ श्रवण-नक्षत्रे रात्रौ पद्मावती तीर्थङ्करत्वसूचकान् चतुर्दश स्वप्नान् दृष्टवती । रात्रौ एव पद्मावतीदेवी राज्ञे सुमित्राय चतुर्दशस्वप्नान् श्रावितवती । तस्यां रात्रौ एव भगवतः मुनिसुव्रतनाथस्य जीवः पद्मावतीदेव्याः गर्भं प्राविशत् [३]। इन्द्रादिभिः देवैः च्यवनकल्याणकमहोत्सवः आचरितः आसीत् ।
आगामि-दिने राजा स्वप्नशास्त्रिणः आहूतवान् । स्वप्नशास्त्रेण एव स्वप्नानां फलादेशः भवितुं शक्यते । स्वप्नशास्त्रिणां पूजनं कृत्वा पद्मावतीदेवी चतुर्दश स्वप्नान् श्रावितवती । स्वप्नशास्त्रिणः स्वप्नानां फलादेशं कृतवन्तः यत् – “पद्मावतीदेव्याः गर्भे एकः श्रेष्ठः, विशिष्टश्च बालकः अस्ति । सः तीर्थङ्करः भविष्यति” इति ।
गर्भकालस्य समाप्त्यनन्तरं भगवतः मुनिसुव्रतनाथस्य पीडारहितं जन्म अभवत् । भगवतः जन्मसमये सम्पूर्णे जगति शान्तवातावरणम् आसीत् । राजा सुमित्रः सम्पूर्णे राज्ये पुत्रोत्सवस्य घोषणां चकार ।
ये बन्धिनः आसन्, तेभ्यः राजा मुक्तिम् अददात् । राज्ञा पुत्रप्राप्त्याः प्रसन्नतायां सर्वेभ्यः दानं कृतम् । नगरजनाः अपि प्रसन्नाः आसन् । एकादशदिनानि यावत् भगवतः मुनिसुव्रतनाथस्य जन्मोत्सवः आचरितः ।
पूर्वजन्म
सम्पादयतुभगवतः मुनिसुव्रतनाथस्य जीवः पूर्वजन्मनि पश्चिममहाविदेहस्य भरतविजयस्य चम्पा-नामिकायां नगर्याम् अवतीर्णः आसीत् । सुरश्रेष्ठनामकः तस्याः नगर्याः राजा आसीत् । भगवान् मुनिसुव्रतनाथः पूर्वजन्मनि सुरश्रेष्ठः राजा आसीत् । सुरश्रेष्ठेन तस्मिन् जन्मनि धर्मस्य साधना कृता । तेन बहुवर्षाणि यावत् राज्यसञ्चालनमपि कृतम् आसीत् ।
सुरश्रेष्ठस्य राज्यस्य नागरिकाः नीतिमन्तः आसन् । अतः राज्ञा कदापि कस्मैचित् अपि दण्डः न प्रदत्तः । अन्ते राजा सुरश्रेष्ठः विरक्तः अभवत् । दीक्षाम् अङ्गीकृत्य अभिग्रहस्य, स्वाध्यायस्य, ध्यानस्य च विशिष्टा साधना सुरश्रेष्ठेन कृता ।
भगवतः मुनिसुव्रतनाथस्य जन्मनः एकादशदिनोत्तरं नामकरणसंस्कारस्य विधिः अभवत् । तस्मिन् दिने जनाः उत्सवम् अपि आचरितवन्तः । स्वर्गलोकात् बहवः देवाः भगवतः मुनिसुव्रतनाथस्य दर्शनार्थं समागताः । चतुष्षष्टिः इन्द्राः, लोकान्तिकाः देवाः च अपि उत्सवम् आचरितवन्तः । उत्सवे तेषां देवानाम् उपस्थितिः आवश्यकी वर्तते ।
राज्यस्य जनाः अपि प्रसन्नाः आसन् । नामकरणोत्सवे बालकस्य नामकरणं भवति । अतः राजा नामकरणाय देवतानां, जनानां च परामर्शं पृष्टवान् । अन्ते राज्ञा स्वस्य विचारः कथितः यत् – “यदा पद्मावतीदेवी गर्भवती आसीत्, तदा पद्मावतीदेव्या निष्ठापूर्वकं बहवः व्रतोपवासाः कृताः । अतः अस्य बालकस्य नाम मुनिसुव्रतकुमारः इति करणीयम् । सर्वैः जनैः, देवैः च समर्थनं प्रदत्तम् । ततःएव मुनिसुव्रतनाथः इति नाम प्रसिद्धम् अस्ति ।
भगवतः मुनिसुव्रतनाथस्य बाल्यावस्था मनोरञ्जने अतीता । समयान्तरे सः तारुण्यं प्रापत् । भगवतः मनसि विरक्तेः भावः आसीत् । किन्तु राज्ञा सुमित्रेण भगवतः मुनिसुव्रतनाथस्य अनेकाभिः राजकन्याभिः सह विवाहः कारितः । मुनिसुव्रतनाथस्य विवाहानन्तरं राज्ञः सुमित्रस्य मनसि राज्यात् निवृत्तेः विचारः आगतः । अतः सः मुनिसुव्रतनाथस्य राज्याभिषेकं कृतवान्, मुनिसुव्रतनाथाय राज्यस्य दायित्वं च प्रदत्तवान् । ततः परं सुमित्रः स्थवीरमुनेः दीक्षां प्रापत् । दीक्षानन्तरं सः गृहं त्यक्त्वा साधनायां लीनः अभवत् ।
राज्यम्
सम्पादयतुयदा मुनिसुव्रतनाथः राजा अभवत् तदा तेन राज्यस्य निष्ठापूर्वकं, विरक्तिपूर्वकं च पालनं कृतम् आसीत् । मुनिसुव्रतनाथस्य राज्ये अपराधिनः अपि न्यूनाः अभवन् । भगवान् मुनिसुव्रतनाथः सम्पूर्णे राज्ये जनेभ्यः सर्वाणि सौकर्याणि यच्छति स्म । कस्यापि वस्तुनः अभावः एव नासीत्, अतः अपराधाः अपि न भवन्ति स्म । जनाः अपि आन्तरिकविवादान् विस्मृतवन्तः । जनाः परस्परम् एव विवादानां निवारणं कुर्वन्ति स्म । यथा कमले पङ्के उत्पन्ने सत्यपि पङ्कात् मुक्तं भवति, तथैव भगवान् मुनिसुव्रतनाथः अपि राज्यस्य सर्वभोगेषु सम्पृक्ते सन् अपि मोहात् मुक्तः आसीत् । अतः तस्य जीवनं कमलः इव आसीत् ।
राज्ञः मुनिसुव्रतनाथस्य मनसि अपि राज्यस्य सञ्चालनस्य सन्तोषः आसीत् । प्रजाजनानाम् एकात्मतायाः कारणेन एव सम्पूर्णं राज्यं कुटुम्बम् इव प्रतिभाति स्म । राज्ये प्रजा सुखीनी आसीत् । यतः मुनिसुव्रतनाथः सदैव जनानां हिताय दत्तचित्तः भवति स्म । जनाः पूर्ववर्तिनः राजानः विस्मृतवन्तः आसन् । जनेभ्यः मुनिसुव्रतनाथः एव सर्वस्वम् आसीत् ।
राजत्यागः, दीक्षा च
सम्पादयतुभगवान् मुनिसुव्रतनाथेन पञ्चदशसहस्रवर्षाणि यावत् राज्यसञ्चालनं कृतम् आसीत् । तीर्थङ्कराः त्रिकालज्ञाः भवन्ति । अतः यदा तेन दीक्षायाः समयः ज्ञातः, तदा स्वस्य उत्तराधिकारिणः राज्याभिषेकं कृत्वा उत्तराधिकारिणे राज्यस्य दायित्वं प्रदत्तम् । ततः परं सः वार्षिकीदानं कर्तुं सज्जः अभवत् । राज्ये अपि मुनिसुव्रतनाथेन वार्षिकीदानस्य घोषणा कृता । स्वर्गलोकात् बहवः देवाः, चतुष्षष्टिः इन्द्राः चापि तत्र समुपस्थिताः आसन् ।
ततः परं भगवान् मुनिसुव्रतनाथः वार्षिकीदानम् अकरोत् । एकवर्षं यावत् तेन वार्षिकीदानं कृतम् । वार्षिकीदाने सुवर्णमुद्रिकाः दीयन्ते स्म । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।
मुनिसुव्रतनाथः पराक्रमी, तेजस्वी च आसीत् । अतः राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः अभवन् । यदा वार्षिकीदानं समाप्तं जातं, तदा फाल्गुन-मासस्य शुक्लपक्षस्य द्वादश्यां तिथौ श्रवण-नक्षत्रे भगवान् मुनिसुव्रतनाथः सहस्रजनैः सह राजगृहनगर्याः सहस्राम्रोद्यानं गतवान् । तत्र देवाः, इन्द्राः चापि समुपस्थिताः आसन् । तस्मिन् दिवसे एव सर्वेषां समक्षे भगवता मुनिसुव्रतनाथेन दीक्षा अङ्गीकृता । तेन सावद्ययोगानां सर्वथा प्रत्याख्यानं कृतम् आसीत् ।
दीक्षायाः दिवसे सः षष्ठीतपः कृतवान् । दीक्षायाः अपरे दिने भगवान् मुनिसुव्रतनाथः ब्रह्मदत्तनामकस्य राज्ञः गृहे प्रथमं क्षीरान्नं भुक्तवान् । देवैः जनेभ्यः दानस्य माहात्म्यम् अवबोधितम् आसीत् ।
दीक्षानन्तरं सार्धैकादशमासान् यावत् भगवान् मुनिसुव्रतनाथः रहसि साधनां कुर्वन् आसीत् । भगवता मुनिसुव्रतनाथेन विविधाः तपस्याः, साधनाः च कृता । सः सर्वत्र विचरन् पुनः राजगृह-नगर्याः सहस्राम्रोद्यानं प्राप्तवान् । चम्पकवृक्षस्याधः ध्यानारूढः सन् सः क्षपकश्रेणीमलभत् ।
सार्धैकमासानां साधनाकाले भगवान् मुनिसुव्रतनाथः साधनया घातकर्मणां नाशं कृतवान् आसीत् । राजगृह-नगर्यां माघ-मासस्य कृष्णपक्षस्य द्वादश्यां तिथौ श्रवण-नक्षत्रे तस्मै कैवल्यज्ञानम् अभवत् । तस्मिन् दिवसे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः, नगरजनाः च तत्र समुपस्थिताः आसन् । सर्वैः मिलित्वा कैवल्यमहोत्सवस्य आयोजनं कृतम्, उत्सवः आचरितः च ।
अनन्तरं भगवता मुनिसुव्रतनाथेन प्रथमं प्रवचनं कृतम् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः मुनिसुव्रतनाथस्य प्रवचनस्य तादृशः प्रभावः आसीत्, येन जनाः मुग्धाः, तल्लीनाः च अभवन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः संसारसागरात् निवृत्तिं प्राप्तुम् ऐच्छन् । भगवतः मुनिसुव्रतनाथस्य प्रथमे प्रवचने एव तीर्थस्य स्थापना जाता । तदैव मुनिसुव्रतनाथः तीर्थङ्करः इति पदं प्रापत् । यदा कोऽपि तीर्थस्य रचनां करोति, तदा सः तीर्थङ्करः कथ्यते । अतः मुनिसुव्रतनाथः अपि तीर्थङ्करः इति नाम्ना ख्यातः अस्ति ।
जनेषु भगवतः मुनिसुव्रतनाथस्य प्रभावः अत्यधिकः वर्तते स्म । भगवान् मुनिसुव्रतनाथः सर्वज्ञः आसीत् । अतः जनानां मनसि मुनिसुव्रतनाथाय महती आस्था आसीत् । जनानां जीवने अपि मुनिसुव्रतनाथस्य महान् प्रभावः अभवत् ।
धार्मिकः परिवारः
सम्पादयतुयदा भगवान् मुनिसुव्रतनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा मुनिसुव्रतनाथेन धार्मिकपरिवारस्य अपि रचना कृता[४]।
- १८ गणधराः
- १,८०० केवलज्ञानिनः
- १,५०० मनःपर्यवज्ञानिनः
- १,८०० अवधिज्ञानिनः
- २,००० अवैक्रियलब्धिधारिणः
- ५०० चतुर्दशपूर्विणः
- १,२०० चर्चावादिनः
- ३०,००० साधवः
- ५०,००० साध्व्यः
- १,७२,००० श्रावकाः
- ३,५०,००० श्राविकाः
अयं भगवतः धार्मिकः परिवारः वर्तते । तेषु परिवारजनेषु त्रयस्त्रिंशत् गणधरेषु “मल्लिस्वामी” इत्याख्यः प्रथमः गणधरः आसीत् ।
निर्वाणम्
सम्पादयतुतीर्थङ्कराः पूर्वमेव सर्वं जानान्ति । तथैव यदा भगवता मुनिसुव्रतनाथेन अपि स्वस्य निर्वाणकालः ज्ञातः, तदा सः सप्तसहस्रसाधुभिः सह सम्मेदशिखरं गतवान् । तत्र सः एकमासं यावत् अनशनञ्चकार । तेन एकमासं यावत् पुनः तपस्या, साधना च कृता । एकमासानन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्मणां नाशः अभवत् । अनन्तरं सः सिद्धपदं प्रापत् । चतुष्षष्टिः इन्द्रैः भगवतः मुनिसुव्रतनाथस्य शरीरस्य निहरणक्रिया कृता ।
एकमासस्य अनशनान्ते ज्येष्ठ-मासस्य कृष्णपक्षस्य नवम्यां तिथौ अश्विनी-नक्षत्रे सम्मेदशिखरे भगवतः मुनिसुव्रतनाथस्य निर्वाणम् अभवत् । भगवता सह बहुभिः मुनिभिः अपि मोक्षः प्राप्तः[५]। इन्द्रादिभिः देवैः मोक्षकल्याणकमहोत्सवः आचरितः ।
मुनिसुव्रतनाथेन कौमारावस्थायां पञ्चशताधिकसप्तसहस्रवर्षाणां, राज्ये पञ्चदशसहस्रवर्षाणां, दीक्षायां पञ्चशताधिकसप्तसहस्रवर्षाणां च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने त्रिंशत्सहस्रं वर्षाणि भुक्तानि आसन् [६]।
मल्लिनाथस्य निर्वाणानन्तरं चतुर्पञ्चाशत्वर्षाण्यनन्तरं मुनिसुव्रतनाथः मोक्षं प्रापत् ।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये मुनिसुव्रतः सम्बन्धिताः सञ्चिकाः सन्ति। |
सन्दर्भाः
सम्पादयतु- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. १३६
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १३४
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. १११
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १३५
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. ११३
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १३६