प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विमलनाथः ( /ˈvɪmələnɑːθəhə/) (हिन्दी: विमलनाथ,आङ्ग्ल: Vimalnath) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु त्रयोदशः तीर्थङ्करः अस्ति । भगवतः विमलनाथस्य वर्णः सुवर्णः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं सूकरः (Pig) अस्ति । भगवान् विमलनाथः इक्ष्वाकुवंशीयः, काश्यपगोत्रीयः च आसीत् ।

विमलनाथः
त्रयोदशः जैनतीर्थङ्करः
Jain Vimalnath.jpg
विमलनाथस्य प्रतिमा
विवरणम्
ऐतिहासिककालः १.६ × १०२११ वर्षाणि पूर्वम्
परिवारः
पिता कृतवर्मा
माता: श्यामा
वंशः इक्ष्वाकुः
स्थानम्
जन्म कम्पिलपुर
निर्वाण सम्मेदशिखरम्
लक्षणम्
वर्णः सुवर्णः
चिन्हम् सूकरः
औन्नत्यम् ६० धनुर्मात्रात्मकम् (१८० मीटर्)
आयुः ६०,००,००० वर्षाणि
शासकदेवः
यक्षः षण्मुखः
यक्षिणी विदिता
जैनधर्मः
In-jain.svg
जैनध्वजः
Jain Prateek Chihna.svg
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी

कौमारावस्थायां विमलनाथस्य शरीरस्य औन्नत्यं षष्टि (६०) धनुर्मात्रात्मकम् आसीत्[१] । भगवतः धार्मिकपरिवारे “षण्मुख” इत्याख्यः यक्षः, “विदिता” इत्याख्या यक्षिणी च आसीत् ।

जन्म, परिवारश्चसम्पाद्यताम्

भरतक्षेत्रस्य कम्पिलपुर-नगरे माघ-मासस्य शुक्लपक्षस्य तृतीयायां तिथौ उत्तराभाद्रपद-नक्षत्रे मध्यरात्रौ भगवतः विमलनाथस्य जन्म अभवत् ।

विमलनाथस्य पितुः नाम कृतवर्मा, मातुः नाम श्यामा च आसीत् । कृतवर्मा कम्पिलपुरस्य राजा आसीत् । कृतवर्मा एकः तेजस्वी, श्रेष्ठः च राजा आसीत् । तस्य शासनकाले जनाः आनन्देन जीवन्ति स्म । एकदा वैशाख-मासस्य शुक्लपक्षस्य द्वादश्यां तिथौ उत्तराभाद्रपदनक्षत्रे रात्रौ श्यामादेव्या तीर्थङ्करत्वसूचकाः चतुर्दश स्वप्नाः दृष्टाः । राजा, राज्ञी च अतीव प्रसन्नौ अभवताम् । तौ स्वप्नानां फलं न जानीतः स्म । तथापि स्वप्नान् दृष्ट्वा राज्ञी प्रफुल्लिता जाता ।

राजा कृतवर्मा आगामिदिवसे स्वप्नशास्त्रिणः आहूतवान् । स्वप्नशास्त्रिभिः चतुर्दशस्वप्नानां फलम् उक्तं यत् – “एते स्वप्नाः साधारणाः न सन्ति । एतैः स्वप्नैः कस्यचित् तीर्थङ्करस्य जन्म भविष्यति इति ज्ञायते । स्वप्नानां फलादेशं श्रुत्वा राजा, राज्ञी च प्रफुल्लितौ अभवताम् । राज्ये आनन्दस्य वातावरणम् अभवत् । शुभसमाचारं प्राप्य राज्ञा सम्पूर्णे राज्ये दानं प्रदत्तम् ।

नवमासानन्तरं भगवतः विमलनाथस्य जन्म अभवत् । प्रसवसमये काचिदपि पीडा न जाता । यदा प्रसवः अभवत्, तदैव इन्द्राः आगतवन्तः आसन् । तस्मिन् समये एव इन्द्राः नवजातशिशुं सुमेरुपर्वते पाण्डुकवनं नीतवन्तः । तत्र तैः इन्द्रैः शिशोः उपरि जलाभिषेकः कृतः । पुनश्च इन्द्राः तं शिशुं मातुः क्रोडे स्थापितवन्तः ।

यदा राजा पुत्रजन्मनः सन्देशं प्राप्तवान्, तदा पुत्रप्राप्त्याः उत्साहेन राज्ञा राज्ये पुत्रोत्सवस्य आयोजनं कृतम् । तस्मिन् उत्सवे राजा जनेभ्यः दानं कृतवान् । पुत्रोत्सवे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः चापि समुपस्थिताः आसन् । देवैः, इन्द्रैः च बालकाय आशीर्वादाः प्रदत्ताः ।

पूर्वजन्मसम्पाद्यताम्

घातकीखण्डस्य पूर्वविदेहे भरतविजये महापुरी-नामिका नगरी आसीत् । तस्याः नगर्याः राजा पद्मसेनः आसीत् । पद्मसेनः एव भगवतः विमलनाथस्य पूर्वजन्म आसीत् । भगवान् विमलनाथः पूर्वजन्मनि सर्वज्ञताप्राप्तये दीर्घकालं यावत् तपस्यां चकार । यतः सर्वज्ञताप्राप्तये दीर्घकालप्रयत्नानाम् आवश्यकता वर्तते । केवलम् एकस्मिन् भवे एव सर्वज्ञता न प्राप्यते । बहूनां जन्मनां भवानां वा अन्ते एव आत्मनः उज्ज्वलतां प्राप्तुं शक्यते ।

प्रत्येकैः तीर्थङ्करैः स्वस्य पूर्वजन्मनि विविधरीत्या साधना कृता आसीत् । भगवता विमलनाथेन अपि तथैव साधना कृता । पद्मसेनः सर्वैश्वर्ययुतः आसीत् । तथापि कस्यापि वस्तुनः मोहः एव नासीत् । सः विरक्तजीवनं जीवति स्म । यदा दीक्षायाः समयः जातः, तदा पद्मसेनेन सर्वगुप्ताचार्यात् दीक्षा गृहीता ।

अनन्तरं सः साधनायां लीनः जातः । अनया साधनया तेन तीर्थङ्करगोत्रस्य बन्धनं कृतम् । अन्ते पद्मसेनेन अनशनं कृत्वा शरीरस्य त्यागः कृतः । सः अष्टमं देवलोकं गतः ।

नामकरणम्सम्पाद्यताम्

भगवतः विमलनाथस्य जन्मनः एकादशदिनानि अनन्तरं राज्ञा कृतवर्मणा नामकरणसंस्कारस्य विधिः आयोजितः । तस्मिन् दिने जनैः उत्सवः अपि आचरितः आसीत् । स्वर्गलोकात् अपि बहवः देवाः समागताः । चतुष्षष्टिः इन्द्राः, लोकान्तिकदेवाः चापि उत्सवम् आचरितवन्तः आसन् । उत्सवे देवानाम् उपस्थितिः आवश्यकी वर्तते । नामकरणोत्सवे नगरस्य प्रतिष्ठितजनाः अपि आमन्त्रिताः आसन् ।

राज्यस्य नागरिकाः अपि प्रसन्नाः आसन् । नामकरणोत्सवे बालकस्य नामकरणं क्रियते । अतः राजा नामकरणाय देवतानां, जनानां च परामर्शं पृष्टवान् । श्यामादेवी बालकं नीत्वा आयोजितं स्थलं प्राप्तवती । बालकं दृष्ट्वा जनाः स्तब्धाः अभवन् । बालकस्य तेजः विस्मयकरं दृश्यते स्म । नामकरणाय सर्वैः स्वमतानि प्रदत्तानि आसन् ।

अन्ते गर्भकालस्य घटनां विचार्य राज्ञा स्वस्य विचारः उक्तः यत् – “गर्भकालस्य आरम्भादेव श्यामादेव्याः विचाराः विमलाः (पवित्राः) आसन् । बालकः अपि अत्यन्तः विमलः (उज्ज्वलः) वर्तते । अतः अस्य बालकस्य नाम विमलकुमारः इति करणीयम्” इति । सर्वैः जनैः, देवैः च समर्थनं प्रदत्तम् । तावत् एव विमलनाथः इति नाम्ना ख्यातः अस्ति ।

विवाहःसम्पाद्यताम्

श्यामादेव्या श्रेष्ठतया विमलनाथः पालितः । समयान्तरे भगवतः विमलनाथस्य बाल्यावस्था, किशोरावस्था च व्यतीता । विमलनाथः यत्र यत्र गच्छति तत्र निवसन्तः जनाः तस्मिन्नाकृष्टाः भवन्ति स्म । भगवतः शरीरम् उज्ज्वलम् आसीत् ।

किशोरावस्थायामापन्नः राजा कृतवर्मा अनेकाभिः राजकन्याभिः सह विमलनाथस्य विवाहम् अकारयत् । विवाहानन्तरं राज्ञः कृतवर्मणः मनसि राज्यात् निवृत्तेः विचारः आगतः । अतः तेन विमलनाथस्य राज्याभिषेकः कृतः, विमलनाथाय राज्यस्य दायित्वं चापि प्रदत्तम् आसीत् । ततः परं कृतवर्मा दीक्षां स्व्यकरोत् ।

राज्यम्सम्पाद्यताम्

विमलनाथः यदा राजपदं प्रापत्, तावदेव तेन श्रेष्ठतया शासनं कृतम् आसीत् । विमलनाथेन राज्यस्य मातृवत् पालनं कृतम् आसीत्, तथैव तेन अपि राज्यस्य सत्यनिष्ठया पालनं कृतम् आसीत् । राज्ये कस्यापि वस्तुनः अभावः एव नासीत्, अतः अपराधाः अपि न भवन्ति स्म । तेन कारणेन विमलनाथस्य राज्ये अपराधिनः अपि अल्पसङ्ख्यकाः आसन् । जनाः अपि आन्तरिकविवादान् स्वयम् एव निवारयन्ति स्म । प्रजाजनाः परस्परम् एव विवादान् निवारयन्ति स्म ।

राजा विमलनाथः अपि राज्यस्य सञ्चालनेन सन्तुष्टः आसीत् । राजा सर्वेषां जनानां प्रियः आसीत् । राज्ञः मनसि सन्तोषः आसीत् । प्रजानाम् एकात्मतायाः कारणेन एव सम्पूर्णं राज्यं कुटुम्बम् इव प्रतिभाति स्म ।

भगवतः विमलनाथस्य प्रभावेण राज्ये कदापि अतिवृष्ट्याः, अनावृष्ट्याः वा कस्याः अपि प्राकृतिक्यापदः प्रकोपः नासीत् । तस्य राज्यम् आपद्विहीनम् आसीत् । राज्ये जनाः सामान्यरोगैः ग्रस्ताः भवन्ति स्म । किन्तु भयङ्कररोगैः कोऽपि ग्रस्तः नासीत् । राज्ये प्रजाः सुखिनः आसन् ।

राजत्यागः, दीक्षा चसम्पाद्यताम्

भगवान् विमलनाथः त्रिंशल्लक्षवर्षाणि यावत् राज्यस्य सञ्चालनं कृतवान् आसीत् । यदा सः दीक्षायाः समयं ज्ञातवान् आसीत्, तदा स्वस्य उत्तराधिकारिणः राज्याभिषेकं कृत्वा तस्मै राज्यस्य दायित्वं प्रदत्तवान् । विमलनाथस्य मनसि वैराग्यस्य भावना उद्भूता । अतः सः विरक्तः जातः ।

विमलनाथः वार्षिकीदानं कर्तुं सज्जः अभवत् । स्वर्गलोकात् लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च तत्र समागताः । इन्द्रैः, देवैः च वार्षिकीदानस्य व्यवस्था कृता । ततः परं भगवता विमलनाथेन वार्षिकीदानम् आरब्धम् । एकवर्षं यावत् तेन वार्षिकीदानं कृतमासीत् । वार्षिकीदाने सः सुवर्णमुद्रिकानां दानं कुर्वन् आसीत् । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।

राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः, दुःखिनश्च अभवन् । यतः राज्ञः स्वभावः शान्तः, तेजस्वी च आसीत् । यदा वार्षिकीदानं पूर्णमभवत्, तदा माघ-मासस्य शुक्लपक्षस्य चतुर्थ्यां तिथौ उत्तराभाद्रपद-नक्षत्रे भगवान् विमलनाथः सहस्रजनैः सह कम्पिल-नगरस्य सहस्राम्रोद्यानं प्राप्तवान् । उद्याने देवाः, इन्द्राः चापि समुपस्थिताः आसन् । सर्वेषां समक्षं भगवता विमलनाथेन दीक्षा स्वीकृता ।

दीक्षायाः दिवसे भगवान् षष्ठ्याः तपः कृतवान् । अपरे दिने भगवता विमलनाथेन धान्यकट-नगरस्य राज्ञः जयस्य गृहे क्षीराहारः गृहीतः । दीक्षानन्तरं वर्षद्वयं यावत् भगवान् विमलनाथः रहसि आसीत् । भगवता विमलनाथेन वर्षद्वयं यावत् विविधाः तपस्याः, साधनाः च कृताः । सः पुनः कम्पिल-नगरस्य सहस्राम्रोद्यानं प्राप्तवान् ।

कम्पिलपुरे पौष-मासस्य कृष्णपक्षस्य षष्ठ्यां तिथौ उत्तराभाद्रपद-नक्षत्रे तस्मै कैवल्यज्ञानम् अभवत् [२]। तस्मिन् दिवसे लोकान्तिकदेवाः, नगरजनाः च समुपस्थिताः आसन् । सर्वैः मिलित्वा केवलमहोत्सवस्य आयोजनं कृतम्, उत्सवः आचरितः च ।

ततः परं भगवता विमलनाथेन प्रथमं प्रवचनं कृतम् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः संसारसागरात् निवृत्तिं प्राप्तवन्तः । भगवतः विमलनाथस्य प्रवचनस्य तादृशः प्रभावः आसीत्, येन जनाः मुग्धाः, लीनाः च अभवन् ।

अपूर्वप्रभावःसम्पाद्यताम्

भगवतः विमलनाथस्य शासनकाले मेरकनामकः प्रतिवासुदेवः, स्वयम्भूनामकः वासुदेवः, भद्रनामकः बलदेवः च आसीत् । ते सर्वे जयनायकाः आसन् । ते भगवतः विमलनाथस्य समवसरणसमये आगच्छन्ति स्म [३]। ते भगवतः सेवाम् अपि कुर्वन्ति स्म ।

तेषु जयनायकेषु भगवतः अपूर्वः प्रभावः आसीत् । स्वयम्भोः मृत्योः अनन्तरं भद्रः दीक्षां प्राप्तवान् आसीत् । भगवतः विमलनाथस्य धनिकेषु , निर्धनेषु च समानः प्रभावः आसीत् । तत्कालीनेषु विक्रमराजसु अपि तस्य प्रभावः अद्भुतः आसीत् ।

धार्मिकः परिवारःसम्पाद्यताम्

यदा भगवान् विमलनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा विमलनाथेन धार्मिकपरिवारस्य अपि रचना कृता[४]

  1. ५७ गणधराः
  2. ५,५०० केवलज्ञानिनः
  3. ५,५०० मनःपर्यवज्ञानिनः
  4. ४,८०० अवधिज्ञानिनः
  5. ९,००० अवैक्रियलब्धिधारिणः
  6. १,१०० चतुर्दशपूर्विणः
  7. ३,२०० चर्चावादिनः
  8. ६८,००० साधवः
  9. १,००,००० साध्व्यः
  10. २,०८,००० श्रावकाः
  11. ४,२४,००० श्राविकाः

निर्वाणम्सम्पाद्यताम्

यदा भगवता विमलनाथेन स्वस्य निर्वाणसमयः ज्ञातः, तदा सः सहस्रसाधुभिः सह सम्मेदशिखरं गतवान् । तत्र तेन अनशनं कृतम् आसीत् । तेन पुनः तपस्या, साधना च कृता । अनन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्मणां नाशः अभवत् । तेन सः सिद्धत्वं प्रापत् ।

तत्पश्चात् अनशनान्ते आषाढ-मासस्य कृष्णपक्षस्य सप्तम्यां तिथौ रेवती-नक्षत्रे सम्मेदशिखरे भगवतः विमलनाथस्य निर्वाणम् अभवत् । भगवता सह बहुभिः मुनिभिः अपि मोक्षः प्राप्तः [५]

विमलनाथेन कौमारावस्थायां पञ्चदशलक्षवर्षाणां, राज्ये त्रिंशल्लक्षवर्षाणां, दीक्षायां पञ्चदशलक्षवर्षाणां च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने षष्टिलक्षवर्षाणि भुक्तानि आसन् [६]

भगवतः वासुपूज्यस्य निर्वाणानन्तरं त्रिंशत्सागरोपममात्रात्मकानां वर्षाणां परं विमलनाथः मोक्षं प्रापत् । वासुपूज्यस्य तीर्थे स्वयम्भूः वासुदेवः, भद्रनामकः बलदेवः च अभवत् [७]

जैनतीर्थङ्कराः
  पूर्वतनः
वासुपूज्यः
विमलनाथः अग्रिमः
अनन्तनाथः
 

सम्बद्धाः लेखाःसम्पाद्यताम्

बाह्यसम्पर्कतन्तुःसम्पाद्यताम्

सन्दर्भाःसम्पाद्यताम्

  1. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 72
  2. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 72
  3. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 101
  4. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 101
  5. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 72
  6. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 102
  7. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 69

अधिकवाचनायसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=विमलनाथः&oldid=321868" इत्यस्माद् पुनः प्राप्तिः