प्रमुखा विकल्पसूचिः उद्घाट्यताम्

वासुपूज्यः ( /ˈvɑːsʊpjəhə/) (हिन्दी: वासुपूज्य,आङ्ग्ल: Vasupujya) जैनधर्मस्य चतुर्विंशतिः तीर्थङ्करेषु द्वादशः तीर्थङ्करः अस्ति । भगवतः वासुपूज्यस्य वर्णः रक्तः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं महिषः चास्ति ।

वासुपूज्यः
द्वादशः जैनतीर्थङ्कराः
Lord Vasupujya.jpeg
वासुपूज्यस्य प्रतिमा
विवरणम्
परिवारः
पिता वासुपूज्यः
माता जया
वंशः इक्ष्वाकुः
स्थानम्
जन्म चम्पापुरी
निर्वाणम् चम्पापुरी
लक्षणम्
वर्णः रक्तः
चिन्हम् महिषः
औन्नत्यम् ७० धनुर्मात्रात्मकम् (२१० मीटर्)
आयुः ७२,००,००० वर्षाणि
शासकदेवः
यक्षः कुमारः
यक्षिणी चण्डा
जैनधर्मः
In-jain.svg
जैनध्वजः
Jain Prateek Chihna.svg
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी

कौमारावस्थायां वासुपूज्यस्य शरीरस्य औन्नत्यं सप्तति (७०) धनुर्मात्रात्मकम् आसीत्[१] । भगवतः धार्मिकपरिवारे “कुमार” इत्याख्यः यक्षः, “चण्डा” इत्याख्या यक्षिणी च आसीत् ।

जन्म, परिवारश्चसम्पाद्यताम्

भरतक्षेत्रे चम्पा-नामिका नगरी आसीत् । तस्यां नगर्यां माघ-मासस्य कृष्णपक्षस्य चतुर्दश्यां तिथौ शतभिषा-नक्षत्रस्य मध्यरात्रौ भगवतः वासुपूज्यस्य जन्म अभवत् [२]

वासुपूज्यस्य पिता वसुपूज्यः, माता च जयादेवी आसीत् । एकदा ज्येष्ठ-मासस्य शुक्लपक्षस्य नवम्यां तिथौ शतभिषा-नक्षत्रे रात्रौ जयादेवी तीर्थङ्करत्वसूचकान् चतुर्दश स्वप्नान् दृष्टवती । रात्रौ एव जयादेवी राज्ञे वसुपूज्याय चतुर्दशस्वप्नान् श्रावितवती । तस्मिन् रात्रौ एव भगवतः वासुपूज्यस्य जीवः जयादेव्याः गर्भे समतिष्ठत् [३]

आगामि-दिने राजा स्वप्नशास्त्रिणः आहूतवान् । स्वप्नानां फलादेशाय स्वप्नशास्त्रं वर्तते । स्वप्नशास्त्रिणां पूजनं कृत्वा जयादेवी चतुर्दश स्वप्नान् श्रावितवती । स्वप्नशास्त्रिणः स्वप्नानां फलादेशं कृतवान् यत् – “जयादेव्याः गर्भे एकः श्रेष्ठः, विशिष्टः च बालकः अस्ति । सः तीर्थङ्करत्वं प्राप्स्यति" ।

गर्भकालस्य समाप्त्यनन्तरं भगवतः वासुपूज्यस्य जन्म अभवत् । यदा भगवतः वासुपूज्यस्य जन्म अभवत्, तदा चतुष्षष्टिः इन्द्राः नवजातशिशुं पण्डुकवनस्य शिलापट्टे नीतवन्तः । तत्र भगवतः उपरि जलाभिषेकं कृत्वा सत्कारं कृतवन्तः । पुनश्च इन्द्राः शिशुम् आनीय मातुः क्रोडे स्थापितवन्तः । भगवतः जन्मसमये सम्पूर्णं विश्वं शान्तम् आसीत्, केवलं दिशः एव शान्ताः नासन् । राज्ञा पुत्रप्राप्त्या आनन्दितस्सन् सर्वेभ्यः दानं प्रदत्तम् । नगरजनाः अपि प्रसन्नाः आसन् । सम्पूर्णे राज्ये आनन्दस्य महोत्सवः आसीत् ।

पूर्वजन्मसम्पाद्यताम्

अर्धपुष्करद्वीपस्य पूर्वदिशि विदेहे मङ्गलावतीविजये रत्नसञ्चया-नामिका नगरी आसीत् । तस्यां नगर्यां पद्मोत्तर-नामकः कश्चन राजा आसीत् । पद्मोतरः एव भगवतः वासुपूज्यस्य पूर्वजन्म आसीत् ।

राजा नन्दीसेनः समस्तभोगसामग्रीः प्राप्तवान् आसीत् । तथापि सः अनासक्तः एव आसीत् । तेन सत्तायाः मोहः कदापि न कृतः । मुनिः इव सः जीवति स्म । “संसारः अनित्यः वर्तते” इति सः कदापि न विस्मरति स्म । सः सदैव अध्यात्मस्य, आत्मविकासस्य च विषये चिन्तामग्नः भवति स्म । सः सन्यासम् अङ्गीकर्तुम् इच्छति स्म । किन्तु शासनव्यवस्था अपि आवश्यकी वर्तते स्म । अतः भोगावलीकर्मभ्यः मुक्तिं प्राप्तुं सः प्रयासं करोति स्म ।

यदा तस्य उत्तराधिकारी शासितुं योग्यः अभवत्, तदा तेन उत्तराधिकारिणे राज्यस्य दायित्वं प्रदत्तम् । अनन्तरं राज्ञा पद्मोत्तरेण आचार्यात् वज्रनाभात् दीक्षां प्राप्य श्रमणधर्मम् अङ्गीकृतम् । बहुवर्षाणि यावत् तपस्यां कृत्वा राजा पद्मोत्तरः तीर्थङ्करगोत्रस्य बन्धनं कृतवान् । अन्ते सः सिद्धत्वं प्राप्य स्वर्गलोकं गतः ।

नामकरणम्सम्पाद्यताम्

भगवतः वासुपूज्यस्य जन्मनः एकादश दिनानाम् अनन्तरं नामकरणसंस्कारस्य विधिः अभवत् । तस्मिन् दिने जनाः उत्सवम् अपि आचरितवन्तः । स्वर्गलोकात् बहवः देवाः समागताः । चतुष्षष्टिः इन्द्राः, लोकान्तिकाः देवाः च अपि उत्सवम् आचरितवन्तः । यतः उत्सवे तेषां देवानाम् उपस्थितिः आवश्यकी वर्तते ।

राज्ये जनाः अपि प्रफुल्लिताः आसन् । नामकरणोत्सवे बालकस्य नामकरणं क्रियते । अतः राजा नामकरणाय देवतानां, जनानां च परामर्शं पृष्टवान् । शिशुं दृष्ट्वा सर्वैः उक्तं यत् – “बालकस्य गुणाः अपि पितृसदृशाः सन्ति । पितुः नाम वसुपूज्यः अस्ति चेत् अस्य बालकस्य नाम वासुपूज्यः इति करणीयम् । राजा अपि अनेन नाम्ना सन्तुष्टः आसीत् । सर्वैः जनैः, देवैः च समर्थनं प्रदत्तम् । तावत् एव वासुपूज्यः इति नाम ख्यातम् अस्ति ।

विवाहःसम्पाद्यताम्

मात्रा जयादेव्या भगवतः वासुपूज्यस्य श्रेष्ठतया पालनं कृतम् । समयान्तरे भगवतः वासुपूज्यस्य बाल्यावस्था, किशोरावस्था च अतीता । भगवतः शरीरस्य सौन्दर्यम् उत्तमम् आसीत् । सर्वे तस्मिन् आकृष्टाः भवन्ति स्म । बहुभिः राजभिः वसुपूज्याय विवाहविषयकं निवेदनं कृतं यत् – "वासुपूज्येन सह मे पुत्र्याः विवाहं कारयतु” इति ।

भगवति किशोरावस्थां प्रविष्टे सति राजा वसुपूज्यः राजकन्याभिः सह वासुपूज्यस्य विवाहम् अकारयत् । विवाहानन्तरं राज्ञः वसुपूज्यस्य मनसि वासुपूज्यस्य राज्याभिषेकं कर्तुं विचारः आगतः । किन्तु सः निष्फलः अभवत् ।

राज्यसञ्चालनाय अवबोधनम्सम्पाद्यताम्

एकदा राजा वसुपूज्यः वासुपूज्येन सह राज्यसञ्चालनविषयकं सम्भाषणं कर्तुं गोष्ठीं चकार । राज्ञा वसुपूज्येन वासुपूज्यः अवबोधितः यत् – “ हे पुत्र ! ये तीर्थङ्कराः अभवन्, तैः सर्वैः विवाहः कृतः आसीत् । तैः विवाहानन्तरं राज्यसञ्चालनमपि कृतमासीत् । ऋषभदेवतः आरभ्य श्रेयांसनाथपर्यन्तं सर्वे तीर्थङ्कराः राजानः अभवन् । किन्तु साम्प्रतम् एव राज्यं प्रति भवतः विरक्तिः कीदृशी अस्ति इति ज्ञातुम् असमर्थोऽस्मि । प्रत्येकं कार्यं योग्यसमये भवेत् । विवाहसमये विवाहः, राज्यसञ्चालनसमये राज्यसञ्चालनं, साधनासमये साधना च भवेत्” ।

वासुपूज्यः अधिकतमं मौनं भजति स्म । किन्तु तदा वासुपूज्येन स्वस्य सुदृढविचाराः व्यक्ताः कृताः यत् – “ तात ! राज्यसञ्चालने सामदामदण्डभेदानां प्रयोगः आवश्यकः भवत्येव । तेषु कर्मणः बन्धनं तु भवति एव । अहं तादृशैः कर्मभिः प्रतिबद्धः नास्मि । अतः राज्यस्य दायित्वम् अहं न स्वीकरोमि” इति ।

राजा वसुपूज्यः पुत्रस्य विचाराणां प्रत्युत्तरं दातुम् असमर्थः । तदा वसुपूज्येन उक्तं यत् – “हे पुत्र ! भवान् स्वस्य, जगतश्च कल्याणार्थम् एव यथोचितं करोतु” इति । पितुः आज्ञां प्राप्य वासुपूज्यः स्वस्य राजप्रासादं प्राप्तवान् । लोकान्तिकदेवाः अपि भगवन्तं वासुपूज्यं प्रतिबोधयितुं समागताः ।

देवैः वार्षिकीदानस्य व्यवस्था कृता । ततः परं भगवान् वासुपूज्यः वार्षिकीदानं कृतवान् । एकवर्षं यावत् तेन वार्षिकीदानं कृतम् । वार्षिकीदाने वासुपूज्यः सुवर्णमुद्रिकाः दत्तवान् । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म [४]

दीक्षासम्पाद्यताम्

यदा वार्षिकीदानं समाप्तं जातं, तदा माघ-मासस्य कृष्णपक्षस्य अमावास्यायां तिथौ शतभिषा-नक्षत्रे भगवान् वासुपूज्यः षड्शतेन जनैः सह चम्पा-नगर्याः सहस्राम्रोद्यानं गतवान् । तत्र देवाः, इन्द्राः चापि समुपस्थिताः आसन् । सर्वेषां समक्षे भगवता वासुपूज्येन दीक्षा अङ्गीकृता ।

आगामि-दिवसे भगवता वासुपूज्येन समीपस्थस्य महापुरनगरस्य राज्ञः सुनन्दस्य गृहे क्षीराहारः स्वीकृतः । दीक्षानन्तरम् एकमासं यावत् भगवान् वासुपूज्यः रहसि आसीत् । भगवता वासुपूज्येन एकमासं यावत् उग्रतमा अन्तरङ्गसाधना कृता । शनैः शनैः भगवान् वासुपूज्यः चतुर्णां घातककर्मणां क्षयं कृतवान् । सः पुनः चम्पानगर्याः सहस्राम्रोद्यानं प्राप्तवान् ।

चम्पा-नगर्यां माघ-मासस्य कृष्णपक्षस्य द्वितीयायां तिथौ शतभिषा-नक्षत्रे तस्मै केवलज्ञानम् अभवत् । तस्मिन् दिवसे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः, नगरजनाः च समुपस्थिताः आसन् । सर्वैः मिलित्वा केवलमहोत्सवस्य आयोजनं कृतम्, उत्सवः आचरितः च ।

अनन्तरं भगवता वासुपूज्येन प्रथमं प्रवचनं कृतम् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः संसारसागरात् निवृत्तिं प्राप्तुम् ऐच्छन् । भगवतः वासुपूज्यस्य प्रवचनस्य तादृशः प्रभावः आसीत्, येन जनाः मुग्धाः, लीनाः च अभवन् ।

धार्मिकः परिवारःसम्पाद्यताम्

भगवतः प्रथमप्रवचनेन चतुर्णां तीर्थाणां स्थापना अभवत् । बहवः जनाः श्रमणपरम्परायां संलग्नाः अभवन् । यदा भगवान् वासुपूज्यनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा वासुपूज्येन धार्मिकपरिवारस्य अपि रचना कृता[५]

  1. ६६ गणधराः
  2. ६,००० केवलज्ञानिनः
  3. ६,००० मनःपर्यवज्ञानिनः
  4. ५,४०० अवधिज्ञानिनः
  5. १०,००० अवैक्रियलब्धिधारिणः
  6. १,२०० चतुर्दशपूर्विणः
  7. ४,७०० चर्चावादिनः
  8. ७२,००० साधवः
  9. १,००,००० साध्व्यः
  10. २,१५,००० श्रावकाः
  11. ४,३६,००० श्राविकाः

समानतायाः प्रभावःसम्पाद्यताम्

तीर्थङ्कराणां प्रभावः सर्वेषु वर्गेषु समानः एव भवति । तथैव भगवतः वासुपूज्यस्य धनिकेषु , निर्धनेषु च समानः प्रभावः आसीत् । तत्कालीनेषु छत्रपतिराजसु अपि तस्य प्रभावः अद्भुतः आसीत् । तत्कालीनायाः अवसर्पिण्याः द्वितीयः नारायणः अर्धचक्रीवासुदेवः द्विषष्ठः अपि भगवतः वासुपूज्यस्य भक्तः आसीत्[६]

भगवान् वासुपूज्यः यदा अर्धचक्रिणः नगरं गतवान्, तदा सन्देशवाहकः भगवतः आगमनस्य सन्देशं द्विषष्ठाय श्रावितवान् । सन्देशं श्रुत्वा द्विषष्ठेन सन्देशवाहकाय सार्धद्वादशकोटिस्वर्णमुद्राः प्रदत्ताः । भगवतः वासुपूज्यस्य आगमनेन द्विषष्ठः प्रसन्नः जातः ।

द्वितीयेन बलदेवेन श्रीविजयेन अपि भगवतः वासुपूज्यस्य शासनकाले भागवती दिक्षा अङ्गीकृता । अन्ये अनेके राजानः अपि भगवतः वासुपूज्यस्य प्रवचनानि श्रुत्वा साधनालीनाः अभवन् ।

निर्वाणम्सम्पाद्यताम्

यदा भगवता वासुपूज्येन स्वस्य निर्वाणकालः ज्ञातः, तदा सः पुनः चम्पानगरीं गतवान् । तत्र तेन षड्शतेन साधुभिः सह एकमासात्मकम् अनशनं स्वीकृतम् । तेन एकमासं यावत् पुनः तपस्या, साधना च कृता । एकमासानन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्मणां नाशः अभवत् । अनन्तरं सः सिद्धत्वं प्रापत् ।

अन्ते एकमासस्य अनशनान्ते आषाढ-मासस्य शुक्लपक्षस्य चतुर्दश्यां तिथौ उत्तराभाद्रपद-नक्षत्रे चम्पा-नगर्यां भगवतः वासुपूज्यस्य निर्वाणम् अभवत् । भगवता सह बहवः मुनयः अपि मोक्षं प्रापन् [७]। लोकान्तिकदेवैः, चतुष्षष्टिः इन्द्रैः च भगवतः निर्वाणोत्सवः आचरितः ।

वासुपूज्येन कौमारावस्थायाम् अष्टादशलक्षवर्षाणां, दीक्षायां चतुर्पञ्चाशल्लक्षवर्षाणां च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने द्विसप्ततिलक्षवर्षाणि भुक्तानि आसन् [८]

जैनतीर्थङ्कराः
  पूर्वतनः
श्रेयांसनाथः
वासुपूज्यः अग्रिमः
विमलनाथः
 

सम्बद्धाः लेखाःसम्पाद्यताम्

बाह्यसम्पर्कतन्तुःसम्पाद्यताम्

सन्दर्भाःसम्पाद्यताम्

  1. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 97
  2. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 94
  3. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 61
  4. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 95
  5. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 97
  6. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 96
  7. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 70
  8. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 71

अधिकवाचनायसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=वासुपूज्यः&oldid=426560" इत्यस्माद् पुनः प्राप्तिः