शीतलनाथः ( /ˈstələnɑːθəhə/) (हिन्दी: शीतलनाथ,आङ्ग्ल: Shitalnath) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु दशमः तीर्थङ्करः अस्ति । शीतलनाथस्य वर्णः सुवर्णः, चिह्नं कल्पवृक्षः च अस्ति ।

शीतलनाथः
दशमः जैनतीर्थङ्करः
Thirtankara.jpg
शीतलनाथस्य प्रतिमा
विवरणम्
ऐतिहासिककालः १ × १०२१७ वर्षाणि पूर्वम्
परिवारः
पिता दृढरथः
माता नन्दादेवी
वंशः इक्ष्वाकुः
स्थानम्
जन्म भद्दिलपुर
निर्वाणम् सम्मेदशिखरम्
लक्षणम्
वर्णः सुवर्णः
चिन्ह: कल्पवृक्षः
औन्नत्यम् ९० धनुर्मात्रात्मकम् (२७० मीटर्)
आयुः १,००,००० पूर्वम् (७.०५६ × १०१८ वर्षाणि)
शासकदेवः
यक्षH ब्रह्मा
यक्षिणी अशोका
जैनधर्मः
In-jain.svg
जैनध्वजः
Jain Prateek Chihna.svg
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी

कौमारावस्थायां शीतलनाथस्य शरीरस्य औन्नत्यं नवतिः (९०) धनुर्मात्रात्मकम् आसीत् । भगवान् शीतलनाथः इक्ष्वाकुवंशीयः, काश्यपगोत्रीयः च आसीत् । भगवतः धार्मिकपरिवारे “ब्रह्मा” इत्याख्यः यक्षः, “अशोका” इत्याख्या शासनदेवी च आसीत् [१]

जन्म, परिवारश्चसम्पाद्यताम्

भगवान् शीतलनाथः विंशतिसागरात्मकस्य आयुष्यस्य भोगं कृत्वा पुनः माघ-मासस्य कृष्णपक्षस्य द्वादश्यां तिथौ पूर्वाषाढा-नक्षत्रे भद्दिलपुर-नामिकायां नगर्याम् अवतीर्णवान्[२]

भगवतः शीतलनाथस्य पिता दृढरथः, माता च नन्दादेवी आसीत् । दृढरथः भद्दिलपुर-नगर्याः राजा आसीत् । दृढरथः श्रेष्ठः, प्रतापी च आसीत् । चैत्र-मासस्य कृष्णपक्षस्य षष्ठ्यां तिथौ पूर्वाषाढा-नक्षत्रे नन्दादेवी तीर्थङ्करत्वसूचकान् चतुर्दशः स्वप्नान् दृष्टवती । तस्यां रात्रौ एव भगवतः शीतलनाथस्य जीवः नन्दादेव्याः कुक्षौ प्राविशत् ।

स्वप्नविषयिकी चर्चा नन्दादेव्या राज्ञे दृढरथाय निवेदिता । राजा चतुर्दश स्वप्नान् श्रुत्वा प्रफुल्लितः जातः । आगामि-दिने राज्ञा स्वप्नशास्त्रिणः आहूताः । स्वप्नानां फलादेशाय स्वप्नशास्त्रं वर्तते । स्वप्नशास्त्रिणां पूजनं कृत्वा नन्दादेवी चतुर्दश स्वप्नान् श्रावितवती । स्वप्नशास्त्रिणः स्वप्नानां फलादेशं कृतवान् यत् – “नन्दादेव्याः गर्भे एकः श्रेष्ठः, विशिष्टः च बालकः अस्ति । सः तीर्थङ्करत्वं प्राप्स्यति ।

सर्वे जनाः प्रभोः जन्मनः प्रतीक्षां कुर्वन्तः आसन् । गर्भकालस्य समाप्त्यनन्तरं मध्यरात्रौ भगवतः जन्म अभवत् । जनैः भगवतः जन्मोत्सवः आचरितः । स्वर्गलोकात् लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च समागताः । देवैः बालकाय आशीर्वादाः प्रदत्ताः ।

राज्ञा दृढरथेन राज्ये एकादशदिनात्मकस्य उत्सवस्य आयोजनम् कृतम् । राज्ञा पुत्रप्राप्त्याः प्रसन्नतायां सर्वेभ्यः दानं कृतवान् । नगरजनाः अपि प्रसन्नाः आसन् । जनाः अपि उत्साहेन भगवतः जन्मोत्सवम् आचरन्ति स्म ।

पूर्वजन्मसम्पाद्यताम्

अर्धपुष्करद्वीपस्य वज्रविजयस्य सुसीमा-नाम्न्यां नगर्यां भगवतः शीतलनाथस्य पूर्वजन्म अभवत् । सुसीमा-नगर्याः राजा पद्मोत्तरः आसीत् । सः मानवीयगुणैः सम्पन्नः आसीत् । पद्मोत्तरः एव भगवतः शीतलनाथस्य पूर्वजन्म आसीत् ।

सुसीमा-नगर्याः तादृशी व्यवस्था आसीत्, यया कोऽपि नगरवासी पराश्रितः नासीत् । राज्ञा पद्मोत्तरेण स्वस्य राज्ये जनानां मनसि पुरुषार्थस्य विचारः प्रस्थापितः आसीत् । तेन कारणेन नगरजनाः पुरुषार्थं कुर्वन्ति स्म । नगरजनानां जीवनं केवलं पुरुषार्थाधारितम् आसीत् ।

कस्यापि वस्तुनः अभावः नासीत् । अतः तेन कारणेन अपराधेषु अपि न्यूनता आगता । जनाः परिश्रमं कृत्वा जीवनं यापयन्ति स्म । अतः सर्वे जनाः सुखिनः आसन् ।

यदा राजा विरक्तिं प्रापत्, तदा राज्ञा पद्मोत्तरेण स्वस्मै पुत्राय राज्यस्य दायित्वं प्रदत्तम् आसीत् । तेन स्वस्य पुत्रस्य राज्याभिषेकः कृतः । ततः परं सः स्रस्ताघाचार्यात् दीक्षां स्वीकृतवान् । पद्मोत्तरेण घोरतपस्या कृता । तया तपस्यया सः सिद्धपदं प्रापत् । ततः परं तीर्थङ्करगोत्रबन्धनम् अभवत् । अन्ते पद्मोत्तरेण अनशनं कृत्वा मोक्षः प्राप्तः ।

नामकरणम्सम्पाद्यताम्

शिशोः जन्मनः दशमे, एकादशे वा दिवसे नामकरणं क्रियते । राज्ञा दृढरथेन अपि बालकस्य नामकरणप्रसङ्गे उत्सवः आयोजितः आसीत् । उत्सवे नगरजनाः, लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च समुपस्थिताः आसन् । तीर्थङ्कराणां कस्मिंश्चिदपि महोत्सवे इन्द्राणाम् उपस्थितिः आवश्यकी वर्तते ।

देवाः बालकाय आशीर्वादान् अयच्छन् । अनन्तरं बालकस्य नामकरणस्य चर्चा जाता । चर्चायां सर्वैः स्वविचाराः समुपस्थापिताः । राज्ञा दृढरथेन उक्तं यत् – “केभ्यश्चित् मासेभ्यः प्राग् मे शरीरं ज्वरपीडितम् आसीत् । मम शरीरं दह्यते स्म । मया बहवः उपचाराः कृताः । तथापि रोगात् मुक्तिः न प्राप्ता । कस्यापि औषधेः प्रभावः एव न भवति स्म ।

तदानींकाले एव नन्दादेवी ततः निर्गता । नन्दादेव्याः स्पर्शमात्रेण मम ज्वरः शान्तः जातः । अहं शीतलताम् अन्वभवम् । तेन रोगः शान्तः जातः । अतः मन्ये अस्य बालकस्य नाम शीतलकुमारः इति भवेत् । सर्वे समर्थनं कृतवान् ।

विवाहःसम्पाद्यताम्

बालकस्य श्रेष्ठतया पालनम् अभवत् । समयान्तरे भगवतः शीतलनाथस्य बाल्यावस्था, किशोरावस्था च व्यतीता । भगवतः किशोरावस्थायां प्रवेशे सति राजा दृढरथः राजकन्याभिः सह शीतलनाथस्य विवाहम् अकारयत् । विवाहानन्तरं राज्ञः दृढरथेन मनसि राज्यात् निवृत्तेः विचारः आगतः । अतः तेन शीतलनाथस्य राज्याभिषेकः कृतः, शीतलनाथाय राज्यस्य दायित्वं च प्रदत्तम् । ततः परं दृढरथः दीक्षां प्रापत् ।

राज्यम्सम्पाद्यताम्

शीतलनाथः राजपदं प्राप्तवान् आसीत् । तेन शीतलतया राज्यस्य सञ्चालनं कृतम् । यथा माता बालकस्य पालनं कुर्वन्ति, तथैव तेन अपि राज्यस्य विरक्तिपूर्वकं पालनं कृतम् आसीत् । जनाः अपि आन्तरिकविवादान् विस्मृतवन्तः । शीतलनाथस्य राज्ये अपराधिनः अपि न्यूनाः अभवन् । कस्यापि वस्तुनः अभावः एव नासीत्, अतः अपराधाः अपि न भवन्ति स्म ।

प्रजाजनाः परस्परम् एव विवादानां निवारणं कुर्वन्ति स्म । राजा शीतलनाथः अपि राज्यस्य सञ्चालनेन सन्तुष्टिम् अन्वभवत् । राज्ञः मनसि सात्विकः सन्तोषः आसीत् । प्रजाजनानाम् एकात्मतायाः कारणेन एव सम्पूर्णं राज्यं कुटुम्बम् इव प्रतिभाति स्म । राज्ये प्रजाः सुखं जीवन्ति स्म ।

राजत्यागः, दीक्षा चसम्पाद्यताम्

भगवान् शीतलनाथः पञ्चाशत्सहस्रं वर्षाणि यावत् राज्यस्य सञ्चालनम् अकरोत् । यदा सः दीक्षायाः समयः ज्ञातवान्, तदा स्वस्य उत्तराधिकारिणः राज्याभिषेकं कृत्वा तस्मै सः राज्यस्य दायित्वं प्रदत्तम् ।

अनन्तरं सः वार्षिकीदानं कर्तुं व्यवस्थां चकार । स्वर्गलोकात् लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च तत्र आगताः । ततः परं भगवता शीतलनाथेन वार्षिकीदानं कृतम् । वार्षिकीदानम् एकवर्षं यावत् क्रियते । अतः एकवर्षं यावत् तेन वार्षिकीदानं कृतम् । वार्षिकीदाने सुवर्णमुद्रिकाः दीयन्ते स्म । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।

राज्ञः स्वभावः शान्तः आसीत् । जनानां मनसि राज्ञि प्रीतिः भवति स्म । राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः अभवन् । यदा वार्षिकीदानं समाप्तं जातं, तदा पौष-मासस्य कृष्णपक्षस्य द्वादश्यां तिथौ पूर्वाषाढा-नक्षत्रे भगवान् शीतलनाथः सहस्रजनैः सह भद्दिलपुर-नगरस्य सहस्राम्रोद्यानं गतवान् । तत्र देवाः, इन्द्राः चापि समुपस्थिताः आसन् । सर्वेषां समक्षे भगवता शीतलनाथेन दीक्षा गृहीता ।

दीक्षायाः अनन्तरं मासत्रयं यावत् भगवान् शीतलनाथः रहसि आसीत् । भगवता शीतलनाथेन मासत्रयं यावत् विविधाः तपस्याः, साधनाः च कृता । सः पुनः भद्दिलपुरं प्राप्तवान् ।

भद्दिलपुर-नगरे मार्गशीर्ष-मासस्य कृष्णपक्षस्य चतुर्दश्यां तिथौ पूर्वाषाढा-नक्षत्रे तस्मै केवलज्ञानम् अभवत् । तस्मिन् दिवसे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः, नगरजनाः च समुपस्थिताः आसन् । सर्वैः मिलित्वा केवलमहोत्सवस्य आयोजनं कृतम्, उत्सवः आचरितः च ।

ततः परं भगवता शीतलनाथेन प्रथमं प्रवचनं कृतम् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः संसारसागरात् निवृत्तिं प्राप्तवन्तः । भगवतः शीतलनाथस्य प्रवचनस्य तादृशः प्रभावः आसीत्, येन जनाः मुग्धाः, लीनाः च अभवन् ।

धार्मिकः परिवारःसम्पाद्यताम्

यदा भगवान् शीतलनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा शीतलनाथेन धार्मिकपरिवारस्य अपि रचना कृता[३]

  1. ८१ गणधराः
  2. ७,००० केवलज्ञानिनः
  3. ७,५०० मनःपर्यवज्ञानिनः
  4. ७,२०० अवधिज्ञानिनः
  5. १२,००० अवैक्रियलब्धिधारिणः
  6. १,४०० चतुर्दशपूर्विणः
  7. ५,८०० चर्चावादिनः
  8. १,००,००० साधवः
  9. १,०६,००० साध्व्यः
  10. २,८९,००० श्रावकाः
  11. ४,४८,००० श्राविकाः

निर्वाणम्सम्पाद्यताम्

यदा भगवान् शीतलनाथः स्वस्य निर्वाणसमयं ज्ञातवान् आसीत्, तदा सः सहस्रसाधुभिः सह सम्मेदशिखरं गतवान् । तत्र सः एकमासं यावत् अनशनञ्चकार । तेन एकमासं यावत् पुनः तपस्या, साधना च कृता । एकमासानन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्मणां नाशः अभवत् । अनन्तरं सः सिद्धत्वं प्रापत् ।

अनन्तरम् एकमासस्य अनशनान्ते वैशाख-मासस्य कृष्णपक्षस्य द्वितीयायां तिथौ पूर्वाषाढा-नक्षत्रे सम्मेदशिखरे भगवतः शीतलनाथस्य निर्वाणम् अभवत् । भगवता सह बहवः मुनयः अपि मोक्षं प्रापन् [४]

शीतलनाथेन कौमारावस्थायां पञ्चविंशतिसहस्रवर्षाणां, राज्ये पञ्चाशत्सहस्रवर्षाणां, दीक्षायां पञ्चविंशतिसहस्रवर्षाणां च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने एकलक्षवर्षाणि भुक्तानि आसन् [५]

जैनतीर्थङ्कराः
  पूर्वतनः
सुविधिनाथः
शीतलनाथः अग्रिमः
श्रेयांसनाथः
 

सम्बद्धाः लेखाःसम्पाद्यताम्

  1. जैनधर्मः
  2. दिगम्बरः सम्प्रदायः
  3. श्वेताम्बरः सम्प्रदायः
  4. भिक्षुः आचार्यः
  5. पुराणानि

बाह्यसम्पर्कतन्तुःसम्पाद्यताम्

सन्दर्भाःसम्पाद्यताम्

  1. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 89
  2. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 66
  3. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 88
  4. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 67
  5. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 67

अधिकवाचनायसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=शीतलनाथः&oldid=321866" इत्यस्माद् प्रतिप्राप्तम्