श्रेयांसनाथः
श्रेयांसनाथः( ( शृणु) /ˈʃrɛjɑːnsənɑːθəhə/) (हिन्दी: श्रेयांसनाथ,आङ्ग्ल: Shreyansnath) जैनधर्मस्य चतुर्विंशतिः तीर्थङ्करेषु एकादशः तीर्थङ्करः अस्ति । भगवतः श्रेयांसनाथस्य वर्णः सुवर्णः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं करियादः (Hippopotamus) अस्ति ।
श्रेयांसनाथः | |
---|---|
एकादशः जैनतीर्थङ्करः | |
श्रेयांसनाथस्य प्रतिमा | |
विवरणम् | |
ऐतिहासिककालः | १ × १०२१२ वर्षाणि पूर्वम् |
परिवारः | |
पिता | विष्णुः |
माता | विष्णुदेवी |
वंशः | इक्ष्वाकुः |
स्थानम् | |
जन्म | सिंहपुर |
निर्वाणम् | सम्मेदशिखरम् |
लक्षणम् | |
वर्णः | सुवर्णः |
चिन्हम् | करियादः |
औन्नत्यम् | ८० धनुर्मात्रात्मकम् (२४० मीटर्) |
आयुः | ८४,००,००० वर्षाणि |
शासकदेवः | |
यक्षः | यक्षराजः |
यक्षिणी | मानवी |
जैनध्वजः | |
जैनधर्मस्य प्रतीकम् | |
धर्मावलम्बीनां संख्या | |
---|---|
प्रायः ५० लक्षजनाः | |
प्रवर्तकः | |
आदिनाथः | |
विस्तारः | |
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः | |
शिल्पकृतयः | |
जैनागमः | |
भाषा(ः) | |
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी |
कौमारावस्थायां श्रेयांसनाथस्य शरीरस्य औन्नत्यम् अशीतिः (८०) धनुर्मात्रात्मकम् आसीत्[१] । भगवतः धार्मिकपरिवारे “यक्षराज” इत्याख्यः यक्षः, “मानवी” इत्याख्या शासनदेवी च आसीत् ।
जन्म, परिवारश्च
सम्पादयतुआर्यजनपदः सिंहपुरे नगरे माघ-मासस्य कृष्णपक्षस्य द्वादश्यां तिथौ श्रवण-नक्षत्रे मध्यरात्रौ भगवतः श्रेयांसनाथस्य जन्म अभवत् ।
श्रेयांसनाथस्य पितुः नाम विष्णुदेवः, मातुः नाम विष्णुदेवी च आसीत् । विष्णुदेवः सिंहपुरस्य राजा आसीत् । विष्णुदेवः एकः श्रेष्ठः राजा आसीत् । तस्य शासनकाले जनाः सुखेन जीवन्ति स्म । एकदा वैशाख-मासस्य कृष्णपक्षस्य षष्ठ्यां तिथौ श्रवणनक्षत्रे रात्रौ विष्णुदेव्या तीर्थङ्करत्वसूचकाः चतुर्दश स्वप्नाः दृष्टाः । राजा, राज्ञी च अतीव प्रसन्नौ अभवताम् । तौ स्वप्नानां फलं न जानीतः स्म । तथापि स्वप्नान् दृष्ट्वा राज्ञी प्रफुल्लिता जाता ।
आगामिदिवसे राज्ञा स्वप्नशास्त्रिणः आहूताः । स्वप्नशास्त्रिभिः चतुर्दशस्वप्नानां फलम् उक्तम् यत् – “एते स्वप्नाः साधारणाः न सन्ति । कस्यचित् तीर्थङ्करस्य जन्म भविष्यति इति सूच्यते" । स्वप्नानां फलादेशं श्रुत्वा राजा, राज्ञी च प्रफुल्लितौ अभवताम् । राज्ये आनन्दस्य वातावरणम् अभवत् । शुभसमाचारं प्राप्य राज्ञा सम्पूर्णे राज्ये दानं प्रदत्तम् ।
नवमासानन्तरं भगवतः श्रेयांसनाथस्य जन्म अभवत् । यदा प्रसवः अभवत्, तदैव इन्द्राः आगतवन्तः आसन् । तस्मिन् समये एव इन्द्राः नवजातशिशुं सुमेरुपर्वते पाण्डुकवनं नीतवन्तः । तत्र तैः इन्द्रैः शिशोः उपरि जलाभिषेकः कृतः । पुनश्च इन्द्राः तं शिशुं मातुः क्रोडे स्थापितवन्तः ।
यदा राजा पुत्रजन्मनः सन्देशं प्राप्तवान्, तदा पुत्रप्राप्त्याः उत्साहेन राज्ञा राज्ये पुत्रोत्सवस्य आयोजनं कृतम् । तस्मिन् उत्सवे राजा जनेभ्यः दानं यच्छति स्म । पुत्रोत्सवे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः चापि समुपस्थिताः आसन् । देवैः, इन्द्रैः च बालकाय आशीर्वादाः प्रदत्ताः ।
पूर्वजन्म
सम्पादयतुअर्धपुष्करद्वीपस्य पूर्वमहाविदेहस्य कच्छविजये क्षेमा-नामिका काचन नगरी आसीत् । तस्याः नगर्याः राजा नलिनीगुल्म आसीत् । भगवान् श्रेयांसनाथः पूर्वजन्मनि नलिनीगुल्म आसीत् । नलिनीगुल्म सर्वदा चिन्ताग्रस्तः एव भवति स्म । राजवैभवे प्राप्ते सत्यपि सः अहोरात्रं चिन्तामग्नः आसीत् । सः विचारयति स्म यत् – “इदानीं सर्वस्वं वर्तते, किन्तु अनन्तरं किं भविष्यति” इति ।
अनया चिन्तया राजा नलिनीगुल्म सर्वं त्यक्त्वा दीक्षितः भवितुम् ऐच्छत् । तेन वज्रदन्तमुनेः दीक्षा स्वीकृता । अनन्तरं सः घोरतपस्यां चकार । अन्ते तीर्थङ्करगोत्रस्य बन्धनं कृत्वा सः मोक्षं प्रापत् ।
भगवतः श्रेयांसनाथस्य जन्मनः एकादशदिनानि अनन्तरं राज्ञा विष्णुदेवेन नामकरणसंस्कारविधिः आयोजितः । तस्मिन् दिने जनैः उत्सवम् अपि आचरितम् आसीत् । स्वर्गलोकात् अपि बहवः देवाः समागताः । चतुष्षष्टिः इन्द्रैः, लोकान्तिकदेवैः चापि उत्सवः आचरितः आसीत् । उत्सवे तेषां देवानाम् उपस्थितिः आवश्यकी वर्तते ।
राज्यस्य नागरिकाः अपि प्रसन्नाः आसन् । नामकरणोत्सवे बालकस्य नामकरणं क्रियते । अतः राजा नामकरणाय देवतानां, जनानां च परामर्शं पृष्टवान् । विष्णुदेवी बालकं नीत्वा आयोजितं स्थलं प्राप्तवती । बालकं दृष्ट्वा जनाः स्तब्धाः अभवन् । बालकस्य तेजः विस्मयकरं दृश्यते स्म । नामकरणाय सर्वैः स्वमतानि प्रदत्तानि आसन् ।
गर्भकालस्य घटनां विचार्य राज्ञा स्वस्य विचारः उक्तः यत् – “गर्भकालस्य आरम्भादेव राज्ये श्रेयस्कराणि कार्याणि जातानि । राजवंशाय अपि नवमासाः श्रेयस्कराः अभवन् । जनेभ्यः अपि सर्वत्र मङ्लमयं वातावरणम् आसीत् । अतः अस्य बालकस्य नाम श्रेयांसकुमारः इति करणीयम् । सर्वैः जनैः, देवैः च समर्थनं प्रदत्तम् । तावत् एव श्रेयांसनाथः इति नाम्ना ख्यातः अस्ति ।
श्रेयांसनाथः त्रिज्ञानधारी (मतिः, श्रुतः, अवधिः) आसीत् । श्रेयांसनाथस्य मनसि गुरुकुलीयायाः दीक्षायाः अपेक्षा नासीत् । यतः कोऽपि तीर्थङ्करः गुरुकुले अध्ययनं न करोति । सर्वे तीर्थङ्कराः त्रिज्ञानधारिणः भवन्ति एव ।
विष्णुदेव्या श्रेष्ठतया श्रेयांसनाथस्य पालनं कृतम् । समयान्तरे भगवतः श्रेयांसनाथस्य बाल्यावस्था, किशोरावस्था च व्यतीता । युवावस्थायाम् आगतायां राजा विष्णुदेवः राजकन्याभिः सह श्रेयांसनाथस्य विवाहम् अकारयत् । विवाहानन्तरं राज्ञः विष्णुदेवस्य मनसि राज्यात् निवृत्तेः विचारः आगतः । अतः तेन श्रेयांसनाथस्य राज्याभिषेकः कृतः, श्रेयांसनाथाय राज्यस्य दायित्वं चापि प्रदत्तम् आसीत् । ततः परं विष्णुदेवः दीक्षां स्व्यकरोत् ।
राज्यम्
सम्पादयतुश्रेयांसनाथः यदा राजा अभवत्, तावदेव सः श्रेष्ठतया शासनं करोति स्म । यथा माता बालकस्य पालनं करोति, तथैव तेन अपि राज्यस्य सत्यनिष्ठया पालनं कृतम् आसीत् । राज्ये कस्यापि वस्तुनः अभावः एव नासीत्, अतः अपराधाः अपि न भवन्ति स्म । तेन कारणेन श्रेयांसनाथस्य राज्ये अपराधिनः अपि अल्पसङ्ख्यकाः आसन् । जनाः अपि आन्तरिकविवादान् स्वरीत्या एव निवारयन्ति स्म ।
प्रजाजनाः परस्परम् एव विवादानां निवारणं कुर्वन्ति स्म । राजा श्रेयांसनाथः अपि राज्यस्य सञ्चालनेन सन्तुष्टः आसीत् । राज्ञः मनसि सन्तोषः आसीत् । प्रजाजनानाम् एकात्मतायाः कारणेन एव सम्पूर्णं राज्यं कुटुम्बम् इव प्रतिभाति स्म । राज्ये प्रजाः सुखेन जीवनम् अकुर्वन् ।
राजत्यागः, दीक्षा च
सम्पादयतुभगवता श्रेयांसनाथेन द्विचत्वारिंशत्वर्षाणि यावत् राज्यस्य सञ्चालनं कृतम् आसीत् । यदा सः दीक्षायाः समयं ज्ञातवान् आसीत्, तदा स्वस्य उत्तराधिकारिणः राज्याभिषेकं कृत्वा तस्मै राज्यस्य दायित्वं प्रदत्तम् । तस्य मनसि वैराग्यस्य भावना आविर्भूता । अतः सः विरक्तः जातः ।
ततः परं सः वार्षिकीदानं कर्तुं सज्जः अभवत् । स्वर्गलोकात् लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च तत्र समागताः । ततः परं भगवता श्रेयांसनाथेन वार्षिकीदानं कृतम् । एकवर्षं यावत् तेन वार्षिकीदानं कृतमासीत् । वार्षिकीदाने सुवर्णमुद्रिकाः दीयन्ते स्म । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।
राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः अभवन् । यतः राज्ञः स्वभावः शान्तः, तेजस्वी च आसीत् । यदा वार्षिकीदानं पूर्णमभवत्, तदा माघ-मासस्य कृष्णपक्षस्य त्रयोदश्यां तिथौ श्रवण-नक्षत्रे भगवान् श्रेयांसनाथः सहस्रजनैः सह नगरस्य सहस्राम्रोद्यानं प्राप्तवान् । उद्याने देवाः, इन्द्राः चापि समुपस्थिताः आसन् । सर्वेषां समक्षं भगवता श्रेयांसनाथेन दीक्षा स्वीकृता ।
दीक्षायाः दिवसे भगवान् षष्ठ्याः तपः कृतवान् । अपरे दिने भगवता श्रेयांसनाथेन राज्ञः नन्दस्य गृहे क्षीराहारः गृहीतः । दीक्षानन्तरं मासद्वयं यावत् भगवान् श्रेयांसनाथः रहसि आसीत् । भगवता श्रेयांसनाथेन मासद्वयं यावत् विविधाः तपस्याः, साधनाः च कृताः । सः पुनः सहस्राम्रोद्यानं प्राप्तवान् ।
सिंहपुरे माघ-मासस्य कृष्णपक्षस्य अमावस्यायां तिथौ श्रवण-नक्षत्रे तस्मै केवलज्ञानम् अभवत् [२]। तस्मिन् दिवसे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः, नगरजनाः च समुपस्थिताः आसन् । सर्वैः मिलित्वा केवलमहोत्सवस्य आयोजनं कृतम्, उत्सवः आचरितः च ।
ततः परं भगवता श्रेयांसनाथेन प्रथमं प्रवचनं कृतम् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः संसारसागरात् निवृत्तिं प्राप्तवन्तः । भगवतः श्रेयांसनाथस्य प्रवचनस्य तादृशः प्रभावः आसीत्, येन जनाः मुग्धाः, तल्लीनाः च अभवन् ।
आर्यजनपदि प्रभावः
सम्पादयतुआर्यजनपदि भगवतः श्रेयांसनाथस्य प्रभावः अभूतपूर्वः आसीत् । जनपदः धनिकानां, निर्धनानां, तत्कालीनानां राज्ञां च मनसि भगवान् श्रेयांसनाथः आस्थायाः केन्द्रम् आसीत् ।
एकदा भगवान् श्रेयांसनाथः विचरन् पोतनपुरं प्राप्तवान् । पोतनपुरे कस्मिंश्चित् उद्याने श्रेयांसनाथः निवसति स्म । पोतनपुरस्य राजा त्रिपृष्ठः आसीत् । कश्चन राजपुरुषः श्रेयांसनाथस्य आगमनसमाचारं त्रिपृष्ठाय प्रदातुं गतवान् । राजा त्रिपृष्ठः आगमनसमाचारं प्राप्य आनन्दितः जातः । तस्य प्रसन्नतायाः सीमा एव नासीत् । राज्ञा सन्देशवाहकाय सार्धद्वादशकोटिः स्वर्णमुद्राः प्रदत्ताः [३]। अनन्तरं तत्कालमेव सः स्वस्य ज्येष्ठबन्धुना अचलेन सह श्रेयांसनाथस्य दर्शनं कर्तुं गतवान् आसीत् । राज्यस्य सर्वे अधिकारिणः, सर्वे जनाः च भगवन्तं मेलितुम् उत्साहेन गच्छन्ति स्म ।
धार्मिकः परिवारः
सम्पादयतुयदा भगवान् श्रेयांसनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा श्रेयांसनाथेन धार्मिकपरिवारस्य अपि रचना कृता[४]।
- ७६ गणधराः
- ६,५०० केवलज्ञानिनः
- ६,००० मनःपर्यवज्ञानिनः
- ६,००० अवधिज्ञानिनः
- ११,००० अवैक्रियलब्धिधारिणः
- १,३०० चतुर्दशपूर्विणः
- ५,००० चर्चावादिनः
- ८४,००० साधवः
- १,०३,००० साध्व्यः
- २,७९,००० श्रावकाः
- ४,४८,००० श्राविकाः
निर्वाणम्
सम्पादयतुयदा भगवान् श्रेयांसनाथः स्वस्य निर्वाणसमयं ज्ञातवान्, तदा सः सहस्रसाधुभिः सह सम्मेदशिखरं गतवान् । तत्र सः अनशनञ्चकार । तेन पुनः तपस्या, साधना च कृता । अनन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्माणां नाशः अभवत् । तेन सः सिद्धत्वं प्रापत् ।
तत्पश्चात् अनशनान्ते श्रावण-मासस्य शुक्लपक्षस्य द्वितीयायां तिथौ धनिष्ठा-नक्षत्रे सम्मेदशिखरे भगवतः श्रेयांसनाथस्य निर्वाणम् अभवत् । भगवता सह बहवः मुनयः अपि मोक्षं प्राप्तवन्तः [५]।
श्रेयांसनाथेन कौमारावस्थायाम् एकविंशतिलक्षवर्षाणां, राज्ये द्विचत्वारिंशल्लक्षवर्षाणां, दीक्षायाम् एकविंशतिलक्षवर्षाणां च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने चतुरशीतिलक्षवर्षाणि भुक्तानि आसन् [६]।
भगवतः शीतलनाथस्य निर्वाणानन्तरं त्रयस्त्रिंशत्सहस्रोत्तरषड्षष्ठीलक्षवर्षाणि, एककोटिसागरमात्रात्मकानि वर्षाणि परं श्रेयांसनाथः मोक्षं प्रापत् । अस्य तीर्थे त्रिपृष्टः वासुदेवः, अचलनामकः बलदेवः च अभवत् [७]।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये श्रेयांसनाथः सम्बन्धिताः सञ्चिकाः सन्ति। |
सन्दर्भाः
सम्पादयतु- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 69
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 68
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 91
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 92
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 69
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 93
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 69