शीतलनाथः
शीतलनाथः जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु दशमः तीर्थङ्करः अस्ति । शीतलनाथस्य वर्णः सुवर्णः, चिह्नं कल्पवृक्षः च अस्ति ।
शीतलनाथः | |
---|---|
दशमः जैनतीर्थङ्करः | |
शीतलनाथस्य प्रतिमा | |
विवरणम् | |
ऐतिहासिककालः | १ × १०२१७ वर्षाणि पूर्वम् |
परिवारः | |
पिता | दृढरथः |
माता | नन्दादेवी |
वंशः | इक्ष्वाकुः |
स्थानम् | |
जन्म | भद्दिलपुर |
निर्वाणम् | सम्मेदशिखरम् |
लक्षणम् | |
वर्णः | सुवर्णः |
चिन्ह: | कल्पवृक्षः |
औन्नत्यम् | ९० धनुर्मात्रात्मकम् (२७० मीटर्) |
आयुः | १,००,००० पूर्वम् (७.०५६ × १०१८ वर्षाणि) |
शासकदेवः | |
यक्षः | ब्रह्मा |
यक्षिणी | अशोका |
जैनध्वजः | |
जैनधर्मस्य प्रतीकम् | |
धर्मावलम्बीनां संख्या | |
---|---|
प्रायः ५० लक्षजनाः | |
प्रवर्तकः | |
आदिनाथः | |
विस्तारः | |
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः | |
शिल्पकृतयः | |
जैनागमः | |
भाषा(ः) | |
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी |
कौमारावस्थायां शीतलनाथस्य शरीरस्य औन्नत्यं नवतिः (९०) धनुर्मात्रात्मकम् आसीत् । भगवान् शीतलनाथः इक्ष्वाकुवंशीयः, काश्यपगोत्रीयः च आसीत् । भगवतः धार्मिकपरिवारे “ब्रह्मा” इत्याख्यः यक्षः, “अशोका” इत्याख्या शासनदेवी च आसीत् [१]।
जन्म, परिवारश्च
सम्पादयतुभगवान् शीतलनाथः विंशतिसागरात्मकस्य आयुष्यस्य भोगं कृत्वा पुनः माघ-मासस्य कृष्णपक्षस्य द्वादश्यां तिथौ पूर्वाषाढा-नक्षत्रे भद्दिलपुर-नामिकायां नगर्याम् अवतीर्णवान्[२] ।
भगवतः शीतलनाथस्य पिता दृढरथः, माता च नन्दादेवी आसीत् । दृढरथः भद्दिलपुर-नगर्याः राजा आसीत् । दृढरथः श्रेष्ठः, प्रतापी च आसीत् । चैत्र-मासस्य कृष्णपक्षस्य षष्ठ्यां तिथौ पूर्वाषाढा-नक्षत्रे नन्दादेवी तीर्थङ्करत्वसूचकान् चतुर्दशः स्वप्नान् दृष्टवती । तस्यां रात्रौ एव भगवतः शीतलनाथस्य जीवः नन्दादेव्याः कुक्षौ प्राविशत् ।
स्वप्नविषयिकी चर्चा नन्दादेव्या राज्ञे दृढरथाय निवेदिता । राजा चतुर्दश स्वप्नान् श्रुत्वा प्रफुल्लितः जातः । आगामि-दिने राज्ञा स्वप्नशास्त्रिणः आहूताः । स्वप्नानां फलादेशाय स्वप्नशास्त्रं वर्तते । स्वप्नशास्त्रिणां पूजनं कृत्वा नन्दादेवी चतुर्दश स्वप्नान् श्रावितवती । स्वप्नशास्त्रिणः स्वप्नानां फलादेशं कृतवान् यत् – “नन्दादेव्याः गर्भे एकः श्रेष्ठः, विशिष्टः च बालकः अस्ति । सः तीर्थङ्करत्वं प्राप्स्यति ।
सर्वे जनाः प्रभोः जन्मनः प्रतीक्षां कुर्वन्तः आसन् । गर्भकालस्य समाप्त्यनन्तरं मध्यरात्रौ भगवतः जन्म अभवत् । जनैः भगवतः जन्मोत्सवः आचरितः । स्वर्गलोकात् लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च समागताः । देवैः बालकाय आशीर्वादाः प्रदत्ताः ।
राज्ञा दृढरथेन राज्ये एकादशदिनात्मकस्य उत्सवस्य आयोजनम् कृतम् । राज्ञा पुत्रप्राप्त्याः प्रसन्नतायां सर्वेभ्यः दानं कृतवान् । नगरजनाः अपि प्रसन्नाः आसन् । जनाः अपि उत्साहेन भगवतः जन्मोत्सवम् आचरन्ति स्म ।
पूर्वजन्म
सम्पादयतुअर्धपुष्करद्वीपस्य वज्रविजयस्य सुसीमा-नाम्न्यां नगर्यां भगवतः शीतलनाथस्य पूर्वजन्म अभवत् । सुसीमा-नगर्याः राजा पद्मोत्तरः आसीत् । सः मानवीयगुणैः सम्पन्नः आसीत् । पद्मोत्तरः एव भगवतः शीतलनाथस्य पूर्वजन्म आसीत् ।
सुसीमा-नगर्याः तादृशी व्यवस्था आसीत्, यया कोऽपि नगरवासी पराश्रितः नासीत् । राज्ञा पद्मोत्तरेण स्वस्य राज्ये जनानां मनसि पुरुषार्थस्य विचारः प्रस्थापितः आसीत् । तेन कारणेन नगरजनाः पुरुषार्थं कुर्वन्ति स्म । नगरजनानां जीवनं केवलं पुरुषार्थाधारितम् आसीत् ।
कस्यापि वस्तुनः अभावः नासीत् । अतः तेन कारणेन अपराधेषु अपि न्यूनता आगता । जनाः परिश्रमं कृत्वा जीवनं यापयन्ति स्म । अतः सर्वे जनाः सुखिनः आसन् ।
यदा राजा विरक्तिं प्रापत्, तदा राज्ञा पद्मोत्तरेण स्वस्मै पुत्राय राज्यस्य दायित्वं प्रदत्तम् आसीत् । तेन स्वस्य पुत्रस्य राज्याभिषेकः कृतः । ततः परं सः स्रस्ताघाचार्यात् दीक्षां स्वीकृतवान् । पद्मोत्तरेण घोरतपस्या कृता । तया तपस्यया सः सिद्धपदं प्रापत् । ततः परं तीर्थङ्करगोत्रबन्धनम् अभवत् । अन्ते पद्मोत्तरेण अनशनं कृत्वा मोक्षः प्राप्तः ।
शिशोः जन्मनः दशमे, एकादशे वा दिवसे नामकरणं क्रियते । राज्ञा दृढरथेन अपि बालकस्य नामकरणप्रसङ्गे उत्सवः आयोजितः आसीत् । उत्सवे नगरजनाः, लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च समुपस्थिताः आसन् । तीर्थङ्कराणां कस्मिंश्चिदपि महोत्सवे इन्द्राणाम् उपस्थितिः आवश्यकी वर्तते ।
देवाः बालकाय आशीर्वादान् अयच्छन् । अनन्तरं बालकस्य नामकरणस्य चर्चा जाता । चर्चायां सर्वैः स्वविचाराः समुपस्थापिताः । राज्ञा दृढरथेन उक्तं यत् – “केभ्यश्चित् मासेभ्यः प्राग् मे शरीरं ज्वरपीडितम् आसीत् । मम शरीरं दह्यते स्म । मया बहवः उपचाराः कृताः । तथापि रोगात् मुक्तिः न प्राप्ता । कस्यापि औषधेः प्रभावः एव न भवति स्म ।
तदानींकाले एव नन्दादेवी ततः निर्गता । नन्दादेव्याः स्पर्शमात्रेण मम ज्वरः शान्तः जातः । अहं शीतलताम् अन्वभवम् । तेन रोगः शान्तः जातः । अतः मन्ये अस्य बालकस्य नाम शीतलकुमारः इति भवेत् । सर्वे समर्थनं कृतवान् ।
बालकस्य श्रेष्ठतया पालनम् अभवत् । समयान्तरे भगवतः शीतलनाथस्य बाल्यावस्था, किशोरावस्था च व्यतीता । भगवतः किशोरावस्थायां प्रवेशे सति राजा दृढरथः राजकन्याभिः सह शीतलनाथस्य विवाहम् अकारयत् । विवाहानन्तरं राज्ञः दृढरथेन मनसि राज्यात् निवृत्तेः विचारः आगतः । अतः तेन शीतलनाथस्य राज्याभिषेकः कृतः, शीतलनाथाय राज्यस्य दायित्वं च प्रदत्तम् । ततः परं दृढरथः दीक्षां प्रापत् ।
राज्यम्
सम्पादयतुशीतलनाथः राजपदं प्राप्तवान् आसीत् । तेन शीतलतया राज्यस्य सञ्चालनं कृतम् । यथा माता बालकस्य पालनं कुर्वन्ति, तथैव तेन अपि राज्यस्य विरक्तिपूर्वकं पालनं कृतम् आसीत् । जनाः अपि आन्तरिकविवादान् विस्मृतवन्तः । शीतलनाथस्य राज्ये अपराधिनः अपि न्यूनाः अभवन् । कस्यापि वस्तुनः अभावः एव नासीत्, अतः अपराधाः अपि न भवन्ति स्म ।
प्रजाजनाः परस्परम् एव विवादानां निवारणं कुर्वन्ति स्म । राजा शीतलनाथः अपि राज्यस्य सञ्चालनेन सन्तुष्टिम् अन्वभवत् । राज्ञः मनसि सात्विकः सन्तोषः आसीत् । प्रजाजनानाम् एकात्मतायाः कारणेन एव सम्पूर्णं राज्यं कुटुम्बम् इव प्रतिभाति स्म । राज्ये प्रजाः सुखं जीवन्ति स्म ।
राजत्यागः, दीक्षा च
सम्पादयतुभगवान् शीतलनाथः पञ्चाशत्सहस्रं वर्षाणि यावत् राज्यस्य सञ्चालनम् अकरोत् । यदा सः दीक्षायाः समयः ज्ञातवान्, तदा स्वस्य उत्तराधिकारिणः राज्याभिषेकं कृत्वा तस्मै सः राज्यस्य दायित्वं प्रदत्तम् ।
अनन्तरं सः वार्षिकीदानं कर्तुं व्यवस्थां चकार । स्वर्गलोकात् लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च तत्र आगताः । ततः परं भगवता शीतलनाथेन वार्षिकीदानं कृतम् । वार्षिकीदानम् एकवर्षं यावत् क्रियते । अतः एकवर्षं यावत् तेन वार्षिकीदानं कृतम् । वार्षिकीदाने सुवर्णमुद्रिकाः दीयन्ते स्म । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।
राज्ञः स्वभावः शान्तः आसीत् । जनानां मनसि राज्ञि प्रीतिः भवति स्म । राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः अभवन् । यदा वार्षिकीदानं समाप्तं जातं, तदा पौष-मासस्य कृष्णपक्षस्य द्वादश्यां तिथौ पूर्वाषाढा-नक्षत्रे भगवान् शीतलनाथः सहस्रजनैः सह भद्दिलपुर-नगरस्य सहस्राम्रोद्यानं गतवान् । तत्र देवाः, इन्द्राः चापि समुपस्थिताः आसन् । सर्वेषां समक्षे भगवता शीतलनाथेन दीक्षा गृहीता ।
दीक्षायाः अनन्तरं मासत्रयं यावत् भगवान् शीतलनाथः रहसि आसीत् । भगवता शीतलनाथेन मासत्रयं यावत् विविधाः तपस्याः, साधनाः च कृता । सः पुनः भद्दिलपुरं प्राप्तवान् ।
भद्दिलपुर-नगरे मार्गशीर्ष-मासस्य कृष्णपक्षस्य चतुर्दश्यां तिथौ पूर्वाषाढा-नक्षत्रे तस्मै केवलज्ञानम् अभवत् । तस्मिन् दिवसे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः, नगरजनाः च समुपस्थिताः आसन् । सर्वैः मिलित्वा केवलमहोत्सवस्य आयोजनं कृतम्, उत्सवः आचरितः च ।
ततः परं भगवता शीतलनाथेन प्रथमं प्रवचनं कृतम् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः संसारसागरात् निवृत्तिं प्राप्तवन्तः । भगवतः शीतलनाथस्य प्रवचनस्य तादृशः प्रभावः आसीत्, येन जनाः मुग्धाः, लीनाः च अभवन् ।
धार्मिकः परिवारः
सम्पादयतुयदा भगवान् शीतलनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा शीतलनाथेन धार्मिकपरिवारस्य अपि रचना कृता[३]।
- ८१ गणधराः
- ७,००० केवलज्ञानिनः
- ७,५०० मनःपर्यवज्ञानिनः
- ७,२०० अवधिज्ञानिनः
- १२,००० अवैक्रियलब्धिधारिणः
- १,४०० चतुर्दशपूर्विणः
- ५,८०० चर्चावादिनः
- १,००,००० साधवः
- १,०६,००० साध्व्यः
- २,८९,००० श्रावकाः
- ४,४८,००० श्राविकाः
निर्वाणम्
सम्पादयतुयदा भगवान् शीतलनाथः स्वस्य निर्वाणसमयं ज्ञातवान् आसीत्, तदा सः सहस्रसाधुभिः सह सम्मेदशिखरं गतवान् । तत्र सः एकमासं यावत् अनशनञ्चकार । तेन एकमासं यावत् पुनः तपस्या, साधना च कृता । एकमासानन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्मणां नाशः अभवत् । अनन्तरं सः सिद्धत्वं प्रापत् ।
अनन्तरम् एकमासस्य अनशनान्ते वैशाख-मासस्य कृष्णपक्षस्य द्वितीयायां तिथौ पूर्वाषाढा-नक्षत्रे सम्मेदशिखरे भगवतः शीतलनाथस्य निर्वाणम् अभवत् । भगवता सह बहवः मुनयः अपि मोक्षं प्रापन् [४]।
शीतलनाथेन कौमारावस्थायां पञ्चविंशतिसहस्रवर्षाणां, राज्ये पञ्चाशत्सहस्रवर्षाणां, दीक्षायां पञ्चविंशतिसहस्रवर्षाणां च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने एकलक्षवर्षाणि भुक्तानि आसन् [५]।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये शीतलनाथः सम्बन्धिताः सञ्चिकाः सन्ति। |
सन्दर्भाः
सम्पादयतु- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 89
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 66
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 88
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 67
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 67