अभ्यासवैराग्याभ्यां तन्निरोधः (योगसूत्रम्)

(1.12 अभ्यासवैराग्यभ्यां तन्निरोधः… इत्यस्मात् पुनर्निर्दिष्टम्)
योगसुत्रम्

सूत्रसारः

सम्पादयतु

सूत्रशब्दार्थः

सम्पादयतु

(तासां वृत्तीनां) निरोधः अभ्यासेन, वैराग्येण च भवति।

These thought patterns (वृत्तयः) are mastered (निरोधः, regulated, coordinated, controlled, stilled, quieted) through practice (अभ्यासः) and non-attachment (वैराग्यम्)।

व्यासभाष्यम्

सम्पादयतु

चित्तनदी नामोभयतो वाहिनी । वहति कल्याणाय वहति पापाय च । या तु कैवल्यप्राग्भारा विवेकविषयनिम्ना सा कल्याणवहा, संसारप्राग्भाराविवेकविषयनिम्ना पापवहा । तत्र वैराग्येण विषयस्रोतः खिलीक्रियते, विवेकदर्शनाभ्यासेन विवेकस्रोत उद्घाट्यत इत्युभयाधीनश्चित्तवृत्तिनिरोधः ॥१२॥

विशेषम्

सम्पादयतु

• अभ्यास = by or with practice, repeated practice

• वैराग्य = non-attachment, by desirelessness or dispassion, neutrality or absence of coloring, without attraction or aversion

• तस्य = of those, through that of

• निरोधः = control, regulation, channeling, mastery, integration, coordination, understanding, stilling, quieting, setting aside of


असंशयं महाबाहो मनो दुर्निग्रहं चलम्।

अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते।।६.३५

हे अर्जुन ! मनः नियन्त्रयितुम् अशक्यं चञ्चलं च इत्यत्र संशयः नास्ति । तथापि अभ्यासेन वैराग्येण च तस्य नियन्त्रणं शक्यं भवति ।

युवा वृद्धोऽति वृद्धो वा व्याधितो दुर्बलोऽपि वा।

अभ्यासात् सिद्धिमाप्नोति सर्वयोगेष्वतन्द्रितः।।[]

अभ्यासेन क्रियाः सर्वाः अभ्यासात् सकलाः कलाः।

अभ्यासात् ध्यानमौनादि किमभ्यासस्य दुर्लभम्।। (हठयोगप्रदीिपका)

चित्तं काचित् नदी अस्ति, यस्याः द्वे तीरे (दो किनारें) स्तः। एकत्र मोक्षः, कल्याणः च अस्ति, अपरत्र च संसारः, पापं च अस्ति। चित्त-रूपनद्याः तरङ्गाः वृत्तयः सन्ति, वत्तीनां समुच्चयः एव धारा इत्युच्यते, यदा धारा मोक्षतीरं प्रति गच्छति, तदा कैवल्य-प्राग्भारा उत मोक्षाभिमुखी धारा भवति/उच्यते। यदा धारा संसारतीरं प्रति गच्छति, तदा संसार-प्राग्धारा उत अविवेकविषयनिम्ना पापवहा भवति/उच्यते।

पातञ्जलयोगसूत्राणि
  पूर्वतनः
----
अभ्यासवैराग्याभ्यां तन्निरोधः (योगसूत्रम्) अग्रिमः
योगश्चित्तवृत्तिनिरोधः
 
समाधिपादः

१. अथ योगानुशासनम् २. योगश्चित्तवृत्तिनिरोधः ३. तदा द्रष्टुः स्वरूपेऽवस्थानम् ४. वृत्तिसारूप्यमितरत्र ५. वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ६. प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ७. प्रत्यक्षानुमानागमाः प्रमाणानि ८. विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ९. शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः १०. अभावप्रत्ययालम्बना वृत्तिर्निद्रा ११. अनुभूतविषयासंप्रमोषः स्मृतिः १२. अभ्यासवैराग्याभ्यां तन्निरोधः १३. तत्र स्थितौ यत्नोऽभ्यासः १४. स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः १५. दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् १६. तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् १७. वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः १८. विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः १९. भवप्रत्ययो विदेहप्रकृतिलयानाम् २०. श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषां २१. तीव्रसंवेगानामासन्नः २२. मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः २३. ईश्वरप्रणिधानाद्वा २४. क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः २५. तत्र निरतिशयं सार्वज्ञबीजं २६. स पूर्वेषामपि गुरुः कालेनानवच्छेदात् २७. तस्य वाचकः प्रणवः २८. तज्जपस्तदर्थभावनम् २९. ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ३०. व्याधिस्त्यानसंशयप्मादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानिचित्तविक्षेपास्तेऽन्तरायाः (योगसूत्रम्)| ३१. दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ३२. तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ३३. मैत्रीकरुणामुदितोपेक्षणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ३४. प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ३५. विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ३६. विशोका वा ज्योतिष्मती ३७. वीतरागविषयं वा चित्तं ३८. स्वप्ननिद्राज्ञानालम्बनं वा ३९. यथाभिमतध्यानाद्वा ४०. परमाणु परममहत्त्वान्तोऽस्य वशीकारः ४१. क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ४२. तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ४३. स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ४४. एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ४५. सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ४६. ता एव सबीजः समाधिः ४७. निर्विचारवैशारद्येऽध्यात्मप्रसादः ४८. ऋतम्भरा तत्र प्रज्ञा ४९. श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ५०. तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ५१. तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः

सम्बद्धाः लेखाः

सम्पादयतु

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः

सम्पादयतु

उद्धरणम्

सम्पादयतु
  1. हठप्रदीपिका - 1-64

अधिकवाचनाय

सम्पादयतु

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine